‘जय मां काली’ इति जयघोषेण गुञ्जिता रेशमनगरी, स्टेशनचौकात् मातुः काल्याः भव्यविसर्जनशोभायात्रायाः शुभारम्भः, उत्पन्नो जनसमुदायः।
भागलपुरम्, 11 नवंबरमासः (हि.स.)।‘जय मां काली’ तथा ‘जय बुढ़िया काली’ इति गगनभेदीजयघोषैः, ढोल नगाडानां निनादैः, पारम्परिकाणाम् अस्त्रशस्त्राणां कौशलप्रदर्शनैश्च सह रेशमनगरी भागलपुरे मातुः काल्याः भव्यविसर्जनशोभायात्रा प्रारब्धा अस्ति। परम्परानुसारं
शोभायात्रा में शामिल श्रद्धालु


भागलपुरम्, 11 नवंबरमासः (हि.स.)।‘जय मां काली’ तथा ‘जय बुढ़िया काली’ इति गगनभेदीजयघोषैः, ढोल नगाडानां निनादैः, पारम्परिकाणाम् अस्त्रशस्त्राणां कौशलप्रदर्शनैश्च सह रेशमनगरी भागलपुरे मातुः काल्याः भव्यविसर्जनशोभायात्रा प्रारब्धा अस्ति।

परम्परानुसारं मङ्गलवासरे मध्यरात्रौ प्रायः एकवादने यदा परबत्तीक्षेत्रस्य ऐतिहासिकायाः ‘मां बुढ़िया काली महारानी’ इत्यस्याः प्रतिमा स्टेशनचौकं प्राप्तवती, तदा सम्पूर्णः क्षेत्रः भक्तिरसेन सराबोरः अभवत्। ततः नगरस्य विभिन्नपूजामण्डपेभ्यः आगताः प्रायः १५० तः अधिकाः प्रतिमाः स्टेशनचौके पङ्क्तिबद्धाः भूत्वा शोभायात्रायां सम्मिलिताः।

भागलपुरस्य अस्याः ऐतिहासिकायाः विसर्जनयात्रायाः विशेषता अस्ति यत् एषा प्रायः ३६ घण्टापर्यन्तम् अविरतं प्रचलति। विसर्जनशोभायात्रायाः नेतृत्वं पूर्ववत् परबत्तीक्षेत्रस्य प्राचीनायाः बुढ़िया काली महाराण्याः प्रतिमा करोति। स्टेशनचौके निर्मितात् ‘श्री श्री १०८ काली महारानी महानगर केन्द्रीय महासमिति’ इत्यस्याः मुख्यवेदिकातः सर्वासां प्रतिमानां दिव्यदर्शनस्य स्वागतस्य च व्यवस्था कृता अस्ति। विसर्जनमार्गे अग्रे गच्छन्त्यां शोभायात्रायां सर्वान्ते बूढ़ानाथक्षेत्रस्य ‘मां बम काली’ इत्यस्याः प्रतिमा विसर्जनार्थं प्रस्थास्यति।

निर्धारितमार्गानुसारं स्टेशनचौके पङ्क्तिबद्धाः भूत्वा शोभायात्रा वैरायटीचौकं, खलीफाबागचौकं, कोतवालीचौकं, नयाबाजारं, बूढ़ानाथचौकं, माणिकसरकारचौकं, आदमपुरचौकं तथा एसएमकॉलेजमार्गं च अतिक्रम्य अग्रे गमिष्यति। विसर्जनमार्गे अत्र तत्र श्रद्धालुभिः मातुः अन्तिमविदायार्थं दर्शनार्थं च भव्यतोरणद्वाराणि निर्मितानि, पुष्पैः च अलङ्कारः कृतः। महिलाः युवजनाश्च अश्रुपूर्णनयनैः मातरं कालिकां विदायं यच्छन्ति।

गङ्गायाः जलस्तरं पर्यावरणनियमान् च दृष्ट्वा जिलाप्रशासनेन नगरनिगमेन च विशेषाः व्यवस्थाः कृताः सन्ति। जेएलएनएमसीएच अर्थात् मायागञ्जचिकित्सालयस्य पृष्ठभागे स्थिते मुसहरीघाटे एकस्य स्थायिनः द्वयोः अस्थायिनोः च कृत्रिमजलाशययोः निर्माणं कृतम् अस्ति, यत्र सर्वासां प्रतिमानां क्रमशः विसर्जनं करिष्यते। एतदतिरिक्तं बूढ़ानाथघाटे अपि कृत्रिमजलाशयस्य समुचिता व्यवस्था कृता अस्ति। सुरक्षादृष्ट्या सम्पूर्णे विसर्जनमार्गे घाटेषु च रैपिड् एक्शन फोर्स, दङ्गानियन्त्रणबलं तथा बहुसंख्यकाः आरक्षिबलस्य सदस्याः नियुक्ताः सन्ति। सर्वत्र ड्रोन् तथा सीसीटीवीकैमरेभिः कठिना निगरानी क्रियते। विशालकायप्रतिमानाम् उच्चतां विसर्जनमार्गे स्थितान् विद्युत्तारान् च दृष्ट्वा प्रशासनेन सुरक्षात्मकाः उपायाः कृताः सन्ति। मङ्गलवासरस्य रात्रेः आरभ्य नाथनगर, मोजाहिदपुर तथा टीटीसी पावर सबस्टेशन इत्येतेषां विभिन्नेषु विद्युत्वितरणकेन्द्रेषु क्रमशः विद्युत्प्रदायः स्थगितः अस्ति।

अधिकारिणां कथनानुसारं शोभायात्रामार्गे प्रतिमानां अग्रे गमनानुसारं सम्बन्धितेषु विद्युत्वितरणकेन्द्रेषु विद्युत्प्रदायः स्थगितः एव स्थास्यति तथा च अन्तिमप्रतिमायाः गमनानन्तरमेव विद्युत्प्रदायः पूर्णतया पुनः प्रारभ्यते।

'

---------------

Hindusthan Samachar / Dheeraj Maithani