जनजातीयगौरवदिवसस्य सज्जतानां निरीक्षणार्थं स्मृति ईरानी छत्तीसगढम् आगतवती।
अद्य धरमजयगढे रायगढजनपदे अधिकारिभिः नेतृभिश्च सह उपवेशनं करिष्यति। रायपुरम्, ११ नवम्बरमासः (हि.स.)। छत्तीसगढस्य रायगढजनपदस्य धरमजयगढे नवम्बरमासस्य १५ दिनाङ्के आयोज्यमानस्य जनजातीयगौरवदिवसकार्यक्रमस्य सज्जताः तीव्रतया प्रचलन्ति। अस्यैव सन्दर्भे भ
भाजपा प्रदेश प्रभारी स्मृति ईरानी


- अद्य धरमजयगढे रायगढजनपदे अधिकारिभिः नेतृभिश्च सह उपवेशनं करिष्यति।

रायपुरम्, ११ नवम्बरमासः (हि.स.)। छत्तीसगढस्य रायगढजनपदस्य धरमजयगढे नवम्बरमासस्य १५ दिनाङ्के आयोज्यमानस्य जनजातीयगौरवदिवसकार्यक्रमस्य सज्जताः तीव्रतया प्रचलन्ति। अस्यैव सन्दर्भे भाजपायाः प्रदेशप्रभारी स्मृति ईरानी अद्य बुधवासरे रायपुरम् आगतवती।

भाजपायाः प्रदेशाध्यक्षः किरण सिंह देवः रायपुरस्य माना विमानपत्तने तस्याः स्वागतं कृतवान्। रायपुरात् सा साक्षात् रायगढजनपदं प्रति प्रस्थास्यति, यत्र कार्यक्रमस्थलस्य निरीक्षणं कृत्वा सज्जतानां जायमानानां व्यवस्थायाश्च अवलोकनं करिष्यति।

उल्लेखनीयं यत् धरमजयगढे आयोज्यमाने जनजातीयगौरवदिवसकार्यक्रमे भाजपायाः राष्ट्रियाध्यक्षः नितिन नवीनः अपि सम्मिलितः भविष्यति। तस्य प्रस्तावितस्य प्रवासस्य दृष्ट्या स्मृति ईरानी आयोजनसम्बद्धानां व्यवस्थानां निरीक्षणं करिष्यति। एतदतिरिक्तं सा कार्यक्रमस्थले अधिकारिभिः दलनेतृभिश्च सह उपवेशनं कृत्वा सज्जतानां समीक्षां करिष्यति।

जनजातीयगौरवदिवसकार्यक्रमस्य सफलायोजनाय भाजपादलस्य सङ्गठनपक्षतः सज्जताः क्रियन्ते। कार्यक्रमस्य व्यवस्थाः आयोजनसम्बद्धाः विविधाः सज्जताश्च अन्तिमरूपं दातुं दलपदाधिकारिणः प्रशासनिकाधिकारिणश्च कार्ये संलग्नाः सन्ति।

Hindusthan Samachar / Dheeraj Maithani