Enter your Email Address to subscribe to our newsletters

वाराणसी, 11 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां भ्रातृद्वितीयापर्वणि बुधवासरे नमामि गङ्गे इत्यस्य स्वयंसेवकैः श्रीकाशीविश्वनाथधाम्नः गङ्गाद्वारे मातुः गङ्गायाः प्रकृतेश्च संरक्षणार्थं जनजागरणं कृतम्। हस्तेषु त्रिवर्णध्वजं गृहीत्वा गङ्गायां तस्याः घाटेषु वा प्लास्टिकवस्तूनि, पॉलिथीनं अन्यानि च अपशिष्टानि न क्षेप्तुम् आह्वानं कृतम्।
कार्यक्रमस्य संयोजकेन नगरनिगमस्य स्वच्छताब्राण्डएम्बेसडरेण राजेशशुक्लेन कथितं यत् भ्रातृद्वितीयापर्व मुख्यतया भ्रातृभगिन्योः पवित्रसम्बन्धस्य, स्नेहस्य रक्षणसङ्कल्पस्य च प्रतीकम् अस्ति। एतमेव भावं प्रकृतेः अस्माकं जीवनदायिनीनां नदीनां च संरक्षणेन सह संयोज्य विशेषतः मातुः गङ्गायाः संरक्षणस्य स्वच्छतायाश्च सङ्कल्पं स्वीकृत्य नमामि गङ्गे इत्यनेन श्रीकाशीविश्वनाथधाम्नः गङ्गाद्वारे समाजाय प्रेरणादायकः सन्देशः प्रदत्तः। जनान् पर्यावरणस्य प्रति संवेदनशीलताम् अवलम्बितुं प्रेरयन्तः गङ्गातटे स्वच्छतायाः विषये जागरूकाः कृताः। गङ्गायां तस्याः घाटेषु वा प्लास्टिकवस्तूनि, पॉलिथीनं अन्यानि च अपशिष्टानि न क्षेप्तुम् आह्वानं कुर्वन्तः रासायनिकमलजलस्य पूजासामग्रीणां च साक्षात् नद्यां विसर्जनं परिहर्तुं पर्यावरणानुकूलविकल्पानां प्रयोगं कर्तुं च उपायाः सूचिताः।
कार्यक्रमे एकादशीसाहू, गौतमी, वाणी, कल्याणी, रोहिणी, प्रवीणः, रेवती इत्यादयः पूर्णोत्साहेन सहभागितां कृतवन्तः।
Hindusthan Samachar / Dheeraj Maithani