वैदिकमन्त्राणाम् उच्चारणमध्ये शीतकालाय यमुनोत्रीधाम्नः कपाटानि पिहितानि।
उत्तरकाशी/यमुनोत्री, 11 नवंबरमासः (हि.स.)। षड्मासपर्यन्तं ग्रीष्मकालीननिवासानन्तरम् उत्तराखण्डस्य विश्वप्रसिद्धस्य यमुनोत्रीधाम्नः कपाटानि बुधवासरे भातृद्वितीयायाः पावनपर्वणि वैदिकमन्त्राणाम् उच्चारणेन, धार्मिकानुष्ठानैः तथा मातुः यमुनायाः जयघोष
शीतकाल के लिए बंद हुए यमुनोत्री धाम के कपाट।


उत्तरकाशी/यमुनोत्री, 11 नवंबरमासः (हि.स.)।

षड्मासपर्यन्तं ग्रीष्मकालीननिवासानन्तरम् उत्तराखण्डस्य विश्वप्रसिद्धस्य यमुनोत्रीधाम्नः कपाटानि बुधवासरे भातृद्वितीयायाः पावनपर्वणि वैदिकमन्त्राणाम् उच्चारणेन, धार्मिकानुष्ठानैः तथा मातुः यमुनायाः जयघोषैः सह प्रातः १० वादनम् २८ निमेषे शुभमुहूर्ते शीतकालाय पिहितानि। तदनन्तरं शनिदेवमहाराजस्य नेतृत्वे मातुः यमुनायाः उत्सवडोली पारम्परिकरीतिरिवाजैः वाद्ययन्त्राणां मधुरध्वनिभिश्च सह तस्याः शीतकालीननिवासस्थानं खरसालीं प्रति प्रस्थिता। मध्याह्नोत्तरं मातुः यमुनायाः स्वमातृगृहे आगमनेन सम्पूर्णं खरसालीग्रामं भक्तिमयवातावरणेन परिपूर्णम् अभवत्। ग्रामवासिभिः श्रद्धालुभिश्च पुष्पमालाभिः जयघोषैश्च डोल्याः भव्यं स्वागतं कृतम्।

भातृद्वितीयायाः अवसरे शुक्लपक्षस्य द्वितीयातिथौ, अनुराधानक्षत्रे, सौम्ययोगे धनुर्लग्ने च निर्धारितशुभमुहूर्तानुसारं प्रातः १० वादनम् २८ निमेषे यमुनोत्रीमन्दिरस्य कपाटानि शीतकालाय पिहितानि। अस्मिन् समये मन्दिरे वैदिकमन्त्राणाम् उच्चारणेन विधिविधानपूर्वकं विशेषपूजाऽर्चना धार्मिकानुष्ठानानि च सम्पन्नानि। कपाटानां पिधानानन्तरं मातुः यमुनायाः उत्सवडोली शनिदेवमहाराजस्य नेतृत्वे खरसालीं प्रति प्रस्थिता। पारम्परिकवाद्ययन्त्राणां मधुरध्वनिभिः मातुः यमुनायाः जयघोषैश्च सह डोलीयात्रा स्वस्य शीतकालीनविश्रामस्थलं प्रति अग्रे प्रचलिता।

मध्याह्नोत्तरं मातुः यमुनायाः उत्सवडोल्याः खरसालीग्रामे आगमने सति ग्रामवासिभिः स्थानीयश्रद्धालुभिश्च पारम्परिकरीतिरिवाजानुसारं भव्यं स्वागतं कृतम्।

आगामिषु षट्सु मासेषु शीतकालीननिवासकाले श्रद्धालवः खरसालीस्थिते मातुः यमुनायाः मन्दिरे एव दर्शनं पूजनं च कर्तुं शक्ष्यन्ति।

अस्मिन् अवसरे यमुनोत्रीक्षेत्रस्य विधायकः सञ्जयडोभालः, खण्डप्रमुखप्रतिनिधिः अजबीनपंवारः, यमुनोत्रीमन्दिरसमितेः सचिवः सुनीलउनियालः, प्रवक्ता पुरुषोत्तमउनियालः, कोषाध्यक्षः प्रदीपउनियालः च उपस्थिताः आसन्। एतेषां सह क्षेत्रस्य देवडोलयः, आरक्षिबलस्य प्रशासनस्य च प्रतिनिधयः, तीर्थपुरोहिताः श्रद्धालवश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani