Enter your Email Address to subscribe to our newsletters

कोलकाता, 12 नवंबरमासः (हि. स.)। कालीघाटस्थिते स्वनिवासस्य पुरतः पदपथे निर्मितं अस्थायिसुरक्षाछादनं बुलडोजरयन्त्रेण निष्कासितम्, मम वाणीं न निवारयितुं शक्यते : अभिषेक बनर्जी
कालीघाटस्थिते स्वनिवासस्य मुख्यद्वारस्य पुरतः पदपथे निर्मितस्य अस्थायिसुरक्षाछादनस्य बुलडोजरयन्त्रेण निष्कासनस्य कार्यवाहीं प्रति तृणमूलकाङ्ग्रेसदलस्य राष्ट्रियमहासचिवः सांसदः च अभिषेक बनर्जी तीव्रां प्रतिक्रियां व्यक्तवान्। अस्याः कार्यवाह्याः पृष्ठे राजनैतिकप्रतिशोधस्य सङ्केतं सूचयन् सः स्पष्टं कृतवान् यत् तं केनापि परिस्थितौ न निवारयितुं शक्यते तथा च अन्तिमश्वासपर्यन्तं सः स्वस्य पक्षात् न निवर्तिष्यते।
अभिषेक बनर्जी गुरुवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र स्वप्रतिक्रियायां उक्तवान् यत् कियत्संख्याकाः बुलडोजरयन्त्राणि आनीयन्ताम्, तथापि किमपि बुलडोजरयन्त्रं मम वाणीं न अवरोद्धुं शक्नोति, न च मम दृढसङ्कल्पं भङ्क्तुं शक्नोति। 'बङ्गालविरोधिनां' विरुद्धं मम संघर्षः इत्थमेव अग्रे अपि प्रचलिष्यति। अन्तिमश्वासपर्यन्तं नाहं निवर्तिष्ये, न च अङ्गुलमात्रमपि भूमिं त्यक्ष्यामि।
उल्लेखनीयं यत् गुरुवासरे प्रातःकालादेव कालीघाटमार्गे अभिषेक बनर्जी इत्यस्य निवासस्य मुख्यद्वारस्य बहिः केन्द्रीयसुरक्षाबलानां कोलकातापुलिसस्य च बहुसंख्यकानां कर्मकराणां उपस्थितौ बुलडोजरयन्त्रं स्थापयित्वा पदपथसमीपस्थितस्य अस्थायिछादनस्य निष्कासनकार्यवाही प्रारब्धा। अभिषेकस्य कार्यालयपक्षतः पूर्वमेव स्पष्टं कृतमासीत् यत् सुरक्षाकारणात् राज्यपुलिसस्य सुरक्षानिदेशालयस्य (डायरेक्टरेट् ऑफ् सिक्योरिटी) पक्षतः उक्तस्य अस्थायिसंरचनायाः निर्माणं कारितमासीत्।
प्रातःकाले सम्पन्नायाः अस्याः कार्यवाह्याः अनन्तरं अभिषेक बनर्जी इत्यस्य तीव्रराजनैतिकप्रतिक्रियया राज्यस्य राजनीतौ पुनरेकवारं प्रकम्पनं तीव्रं संजातम्।
Hindusthan Samachar / Dheeraj Maithani