Enter your Email Address to subscribe to our newsletters

जम्मू, १२ नवम्बरमासः (हि.स.)।
भगवतः बिरसामुण्डामहोदयस्य जयन्त्य-वसरे भारतीयजनतापक्षः जम्मू-कश्मीरप्रदेशे एकसप्ताहपर्यन्तं विविध-कार्यक्रमान् आयोजयिष्यति। जम्मूनगरे पत्रकारसम्मेलनं सम्बोधयन् भाजपा-दलस्य महामन्त्री गोपालमहाजनः एतस्य विषये सूचनां दत्तवान्। अस्मिन् अवसरे तेन सह माध्यमप्रभारी डॉ. प्रदीपः, दलस्य प्रवक्ता बलबीररामरतनः, जनपदाध्यक्षः बाबूरामः च उपस्थिताः आसन्।
गोपालमहाजनः अवदत् यत् भगवतः बिरसामुण्डामहोदयस्य जयन्त्युपलक्ष्ये भाजपादलं प्रदेशस्तरे, जनपदस्तरे, मण्डलस्तरे च कार्यक्रमान् आयो-जयिष्यति। एतेषु कार्यक्रमेषु विभिन्न-समुदायानां जनाः सहभागितां करिष्यन्ति। एतेषां कार्यक्रमाणाम् उद्देश्यं भगवतः बिरसामुण्डामहोदयस्य योगदानस्य स्मरणं तथा भारतस्य समृद्धायाः जनजातीय-संस्कृतेः, परम्पराणां, सांस्कृतिकवैभवस्य च परिचयं जनसामान्यं यावत् प्रापयितुम् अस्ति। अस्मिन् दिशि जनजागरणाय भाजपादलं प्रयासान् करिष्यति।
Hindusthan Samachar / Divya Ranjan