Enter your Email Address to subscribe to our newsletters

कोप-३१ सम्मेलनात् पूर्वं पर्यावरणमन्त्रिणा इस्पात, सिमेण्ट तथा परिवहनक्षेत्रस्य औद्योगिकप्रतिनिधिभिः शोधसंस्थानानां प्रतिनिधिभिश्च सह कृता चर्चा
नवदिल्ली, १२ नवम्बरमासः (हि.स.)। केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः अवदत् यत् भारतं जलवायुपरिवर्तनस्य निराकरणाय प्रतिबद्धम् अस्ति। अस्मिन् दिशि लीडरशिप ग्रुप फॉर इंडस्ट्री ट्रांजिशन (लीडआईटी) इत्यादीनां पहलानां माध्यमेन बहुपक्षीयसहकारितायाः संवर्धनं क्रियते। जलवायुलक्ष्याणां प्राप्तये सर्वकारस्य, उद्योगजगतः, शैक्षणिकशोधसंस्थानानां च मध्ये सुदृढा सहभागिता आवश्यकी अस्ति।
संयुक्तराष्ट्रस्य जलवायुपरिवर्तनसम्मेलने कोप-३१ इत्यस्मिन् भागग्रहणात् पूर्वं गुरुवासरे नवदिल्ल्यां भूपेन्द्रयादवेन इस्पात, सिमेण्ट तथा परिवहनादिषु कार्बन-उत्सर्जनस्य न्यूनीकरणं तुलनात्मकरूपेण चुनौतीपूर्णेषु क्षेत्रेषु कार्यरतैः उद्योगप्रतिनिधिभिः शोधसंस्थानानां प्रतिनिधिभिश्च सह चर्चा कृता।
अस्मिन् उपवेशने लीडआईटी-सङ्घटनस्य भारतीयसदस्यसंस्थासु टाटा स्टील, जेएसडब्ल्यू स्टील, स्टील अथॉरिटी ऑफ इण्डिया लिमिटेड (सेल), अडाणी अम्बुजा सिमेण्ट, डालमिया सिमेण्ट, जेके सिमेण्ट, जेएसडब्ल्यू सिमेण्ट, अल्ट्राटेक सिमेण्ट, वोल्वो ग्रुप तथा स्पाइसजेट इत्यादीनि बहूनि औद्योगिकसंस्थानानि भागं गृहीतवन्ति।
तदतिरिक्तं भारत-स्वीडन उद्योगपरिवर्तनसहभागितायाः परियोजनासहभागिषु जिन्दल स्टील एण्ड पावर लिमिटेड, प्रिज्म जॉनसन, होगानास इण्डिया तथा मायहोम इण्डस्ट्रीज इत्येतेषां प्रतिनिधयः अपि सम्मिलिताः अभवन्। न्यूनकार्बन-उत्सर्जनयुक्तप्रौद्योगिकीषु कार्यं कुर्वत्सु प्रमुखशोधसंस्थानेषु नेशनल काउन्सिल फॉर सिमेण्ट एण्ड बिल्डिंग मटेरियल्स, आईआईटी मुम्बई, आईआईटी भुवनेश्वर, आईआईटी (आईएसएम) धनबाद, आईआईटी हैदराबाद तथा आईआईटी खड़गपुर इत्येतेषां प्रतिनिधयः अपि भागं गृहीतवन्तः।
अस्मिन्नवसरे भूपेन्द्रयादवः अवदत् यत् पर्यावरणवनजलवायुपरिवर्तनमन्त्रालयः भारतसर्वकारश्च सहकारितापूर्णजलवाय्वनुकूलकार्याणां समर्थनाय प्रतिबद्धौ स्तः। लीडआईटी ३.० एकः क्रियान्वयनाधारितः मञ्चः भविष्यति, यः जलवायुसम्बद्धान् महत्त्वाकाङ्क्षापूर्णान् लक्ष्यांश्च ठोसपरिणामेषु परिणमयिष्यति।
मन्त्रिणा विशेषरूपेण प्रतिपादितं यत् भारतस्य जलवायुनिर्धारणनीतिः सर्वकारस्य, उद्योगजगतः तथा शिक्षाक्षेत्रस्य सामूहिकप्रयासेषु आधारितास्ति। भारतं महत्त्वाकाङ्क्षापूर्णनीतीनां कार्यक्रमाणां च माध्यमेन जलवायुसम्बद्धकार्याणि अग्रे नयति। उद्योगेषु स्वच्छानां न्यूनकार्बन-उत्सर्जनयुक्तानां च प्रौद्योगिकीनाम् अङ्गीकरणाय परस्परसहकारिता महत्त्वपूर्णा अस्ति।
Hindusthan Samachar / Dheeraj Maithani