Enter your Email Address to subscribe to our newsletters

कटिहारः, 12 नवंबरमासः (हि.स.)। लोकविश्वासस्य महापर्वणः छठपर्वणः पावनावसरे अन्येभ्यः राज्येभ्यः स्वगृहं प्रत्यागच्छतां प्रवासिनां श्रद्धालूनां च स्वागताय कटिहारजनपदस्य प्रशासनं जनपदस्य सीमावर्तिनं निरीक्षणचौकिं भव्यतया अलङ्कृतवान्। बिहारसर्वकारस्य निर्देशानुसारं कृतेऽस्मिन् विशेषोपक्रमे विविधवर्णीयैः प्रकाशदीपैः सुशोभिते स्वागतद्वारेण बहिः राज्येभ्यः आगच्छतां यात्रिकाणां सस्नेहं हार्दिकं च अभिनन्दनं क्रियते।
सीमायां निर्मितम् एतत् आकर्षकं स्वागतद्वारं प्रविश्यैव यात्रिकाः छठीमातुः मधुराणि पारम्परिकानि च गीतानि श्रुत्वा भक्तिमयं सुखदं च अनुभवं प्राप्नुवन्ति। प्रशासनेन कृतेन अस्याः सज्जायाः कारणात् सम्पूर्णं सीमाक्षेत्रं छठपर्वमयं दृश्यते। अनेन दीर्घयात्रां कृत्वा स्वगृहं प्रत्यागच्छतां जनानां श्रान्तिः क्षणमात्रेण दूरीभवति।
उल्लेखनीयं यत् महापर्वणः समये बहुसङ्ख्याकाः प्रवासिनः बिहारवासिनः स्वपैतृकगृहं प्रत्यागच्छन्ति। एतदेव दृष्ट्वा जनपदप्रशासनेन सीमायां प्रकाशव्यवस्था-अलङ्करणव्यवस्था च कृता। अपि च बिहारस्य समृद्धायाः संस्कृतेः, परम्परायाः आत्मीयतायाश्च सन्देशं प्रसारयन् प्रत्येकस्य आगन्तुकस्य प्रति सम्मानभावः प्रकटितः।
Hindusthan Samachar / Dheeraj Maithani