Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 12 नवंबरमासः (हि.स.)। दिल्लीविश्वविद्यालयस्य उत्तरपरिसरे विद्यमानानाम् औषधीयवनस्पतीनां विविधतायाः परिचयाय, अभिलेखीकरणाय संरक्षणाय च केन्द्रीयायर्वेदीयविज्ञानानुसन्धानपरिषदा (सीसीआरएएस) दिल्लीविश्वविद्यालयेन च संयुक्तरूपेण कार्यं कर्तुं निर्णयः कृतः। एतदर्थम् उभाभ्यां संस्थाभ्यां समझौताज्ञापने (एमओयू) हस्ताक्षराणि कृतानि। अस्य अन्तर्गतं विश्वविद्यालयस्य २५० तः ३०० एकडपरिमिते क्षेत्रे आयुर्वेदे वर्णितानां औषधीयमहत्त्वयुक्तानां वनस्पतीनां परिचयं कृत्वा तेषां सुव्यवस्थितम् अभिलेखीकरणं करिष्यते।
अस्मिन् समझौताज्ञापने सीसीआरएएस्-संस्थायाः महानिदेशकः प्रो. (वैद्यः) रबिनारायण आचार्यः तथा दिल्लीविश्वविद्यालयस्य कुलसचिवः डॉ. विकासगुप्तः कुलपतिनः कार्यालये हस्ताक्षरं कृतवन्तौ। परियोजनायाः उद्देश्यम् उत्तरपरिसरस्य समृद्धायाः वनस्पतिसम्पदः वैज्ञानिकाध्ययनं कृत्वा औषधीयमहत्त्वयुक्तानां पादपप्रजातीनां अभिलेखीकरणं संरक्षणं च अस्ति।
परियोजनायाः अन्तर्गतं परिसरे व्यापकं क्षेत्रीयसर्वेक्षणं करिष्यते। अस्मिन् औषधीयवनस्पतीनां प्रजातीनां परिचयः, तेषां नमूनानां सङ्ग्रहः तथा हर्बेरियमस्य निर्माणम् अन्तर्भवति। तदतिरिक्तं वनस्पतीनां समीपे क्यूआर-सङ्केतयुक्ताः नामपट्टिकाः स्थापयिष्यन्ते। ताः सङ्केतपट्टिकाः स्कैन कृत्वा सम्बन्धितवनस्पतेः तथा तस्य औषधीयमहत्त्वस्य विषये सूचनाः प्राप्तुं शक्यन्ते।
अस्याः पहलायाः अन्तर्गतं उत्तरपरिसरस्य औषधीयवनस्पतीः आधारीकृत्य चित्रयुक्ता सचित्रपुस्तिका अपि प्रकाशयिष्यते। अपि च अनुसन्धानस्य निष्कर्षान् व्यापकस्तरे प्रसारयितुं उभे संस्थे संयुक्तरूपेण वैज्ञानिकशोधपत्राणि अपि प्रकाशयिष्यतः।
अनेन न केवलं विश्वविद्यालयपरिसरस्य वनस्पतिविरासतायाः वैज्ञानिकाभिलेखः सिद्धः भविष्यति, अपितु विद्यार्थिषु शोधकर्तृषु च औषधीयवनस्पतीनां विषये जागरूकतायाः अभिवृद्धिः अपि भविष्यति। तेन सह प्राकृतिकसम्पदां संरक्षणाय सततप्रयोगाय च प्रोत्साहनं प्राप्स्यते।
कार्यक्रमे दिल्लीविश्वविद्यालयस्य शैक्षणिककार्याणां अधिष्ठात्री प्रो. के. रत्नाबली, क्लस्टर इन्नोवेशन सेण्टरस्य निदेशिका प्रो. शोभा बागई, सीएआरआई-संस्थायाः प्रभारीनिदेशकः डॉ. हेमन्तपाणिग्रही, परियोजनायाः प्रधानान्वेषिका डॉ. साक्षीशर्मा, प्रो. सुरेशकुमारः, प्रो. वन्दना च सहिताः अन्ये अधिकारिणः शिक्षाविदश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani