छठमहापर्व उद्दिश्य स्वच्छताभियानं सञ्चालितम्, वार्डसमितेः सदस्यैः श्रमदानं कृतम्
खूंटीनगरम्, १२ नवम्बरमासः (हि.स.)। लोकश्रद्धायाः महापर्वणः छठपूजायाः सज्जतां दृष्ट्वा खूंटिटोलीस्थिते तडागे वार्डसमितेः पक्षतः गुरुवासरे विशेष-स्वच्छताभियानं सञ्चालितम्। वार्डपार्षदस्य अनिलकच्छपस्य अध्यक्षतायाम् आयोजिते अस्मिन् अभियाने वार्डसमितेः
Cenitation


खूंटीनगरम्, १२ नवम्बरमासः (हि.स.)। लोकश्रद्धायाः महापर्वणः छठपूजायाः सज्जतां दृष्ट्वा खूंटिटोलीस्थिते तडागे वार्डसमितेः पक्षतः गुरुवासरे विशेष-स्वच्छताभियानं सञ्चालितम्। वार्डपार्षदस्य अनिलकच्छपस्य अध्यक्षतायाम् आयोजिते अस्मिन् अभियाने वार्डसमितेः सदस्यैः स्थानीयजनैश्च उत्साहपूर्वकं सहभागिता कृता। सर्वैः सामूहिकरूपेण श्रमदानं कृत्वा तडागस्य घाटानां स्वच्छता कृता तथा छठव्रतिनां सुविधां दृष्ट्वा घाटान् स्वच्छान् सुव्यवस्थितान् च कर्तुं प्रयासः कृतः।

अस्मिन् अवसरे तडागं परितः प्रसृतस्य मलिनतायाः अपि निष्कासनं कृतम्, येन छठमहापर्वणः समये व्रतिनां श्रद्धालूनां च कस्यापि प्रकारस्य असुविधा न भवेत्। वार्डसमितेः सदस्यैः परस्परसहयोगेन घट्टान् पूजायै अनुकूलान् कर्तुं योगदानं प्रदत्तम्।

अस्मिन् अवसरे वार्डपार्षदः अनिलकच्छपः अवदत् यत् छठमहापर्व श्रद्धायाः, पवित्रतायाः, स्वच्छतायाश्च प्रतीकम् अस्ति। अतः तडागस्य छठघाटानां च स्वच्छतां रक्षितुं वयं सर्वे सामूहिकदायित्वं निर्वहामः।

सः स्थानीयजनान् स्वच्छताभियाने सहभागितां सुनिश्चितां कर्तुं तथा पर्वणः समये अपि घाटानां स्वच्छतां स्थापयितुं सहयोगं कर्तुं च आग्रहं कृतवान्।

स्वच्छताभियाने सुरेन्द्रसिंहः, लालकमल-लोहारः, बालकिशुनमहतो, बसन्तरामः, सन्तोषकुमारः, बसन्तमहतो, कमलेश-महतो, अनिरुद्धकच्छपः इत्यादयः वार्डसमितेः अन्ये सदस्याः स्थानीयजनाश्च सम्मिलिताः आसन्।

Hindusthan Samachar / Divya Ranjan