Enter your Email Address to subscribe to our newsletters


- एकलव्य-आदर्श-आवासीयविद्यालयः मण्डला तथा मध्यप्रदेशस्य जनजातीयकार्यम् विभागः सम्मानितौ
भोपालम्, नवम्बरमासस्य १२ दिनाङ्कः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे राष्ट्रपतिभवने आयोजिते एकस्मिन् समारोहे एकलव्य-आदर्श-आवासीयविद्यालयानां कृते उत्कृष्टकार्यं कृतवन्तं मध्यप्रदेशस्य जनजातीयकार्यम् विभागं तथा एकलव्य-आदर्श-आवासीयविद्यालयं मण्डलां च सम्मानितवती। विभागस्य प्रमुखसचिवः गुलशन बामरा पुरस्कारं गृहीतवान्।
भारतसर्वकारस्य जनजातीयकार्यमन्त्रालयेन कृतस्य मूल्याङ्कनस्य आधारेण प्रदेशस्य एकलव्य-आदर्श-आवासीयविद्यालयेषु गुणवत्तापूर्णशिक्षायाः संस्थागतविकासस्य च क्षेत्रे महत्त्वपूर्णं योगदानं दत्तवते मध्यप्रदेश-स्पेशल एण्ड रेजिडेन्शियल एकेडेमिक सोसाइटी इत्यस्मै एषः पुरस्कारः प्रदत्तः। राष्ट्रपतिः एकलव्य-आदर्श-आवासीयविद्यालयानां प्रतिभाशालिभिः विद्यार्थिभिः सह संवादम् अपि कृतवती।
एकलव्य-आदर्श-आवासीयविद्यालयः मण्डला राष्ट्रियस्तरे उत्कृष्ट-एकलव्यविद्यालयरूपेण चयनितः।
अयं सम्मानः मण्डलामण्डलस्य जनपदाधिकारी तथा एकलव्य-आदर्श-आवासीयविद्यालयस्य मण्डलायाः अध्यक्षः राहुल नामदेव धोटे तथा विद्यालयस्य प्राचार्या रीना च गृहीतवन्तौ।
कार्यक्रमे केन्द्रीयजनजातीयकार्यमन्त्री जुयाल उरामः, राज्यमन्त्री दुर्गादास उइके, केन्द्रीयजनजातीयकार्यमन्त्रालयस्य सचिवा रञ्जना चोपड़ा, एकलव्य-आदर्श-आवासीयविद्यालयानां शिक्षकाः प्रतिभाशालिनः विद्यार्थिनश्च उपस्थिताः आसन्।
जनसम्पर्काधिकारी राजेश बैनः अवदत् यत् भारतसर्वकारस्य जनजातीयकार्यमन्त्रालयेन ‘जनजातीयगौरवपक्षम्’ इत्यस्य अन्तर्गतं कार्यक्रमस्य आयोजनं कृतम् आसीत्। एतं पक्षं प्रतिवर्षं भगवान् बिरसामुण्डा इत्यस्य जयन्त्याः उपलक्ष्ये आमान्यते।
Hindusthan Samachar / Divya Ranjan