Enter your Email Address to subscribe to our newsletters

भोपालम्, 12 नवंबरमासः (हि.स.)।
रक्षामन्त्री राजनाथसिंहः मध्यप्रदेशस्य राजधानी भोपालनगरस्य एकदिवसीयप्रवासे आगमिष्यति। सः केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानस्य मातुः काशीबाईवर्यायाः निधनस्य अवसरे शोकसंवेदनां प्रकटयितुं तस्य निवासस्थानं गमिष्यति।
शिवराजसिंहचौहानस्य माता काशीबाईवर्या गतः अक्टूबरमासस्य त्रिंशत्तमे दिने भोपालस्थिते अखिलभारतीय आयुर्विज्ञानसंस्थाने (एम्स) दिवंगता अभवत्। अद्य तस्याः त्रयोदशाहस्य गङ्गाजलिपूजनस्य च कार्यक्रमः होशङ्गाबादमार्गस्थिते वृन्दावन-उद्याने आयोजितः अस्ति।
अस्मिन् कार्यक्रमे राजनाथसिंहः, लोकसभाध्यक्षः ओमबिर्ला, रक्षाराज्यमन्त्री सञ्जयसेठः, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः च सहिताः अनेकाः वरिष्ठाः नेतारः सम्मिलिताः भविष्यन्ति इति सम्भावना अस्ति। भारतीयजनतापक्षस्य सङ्घटनस्य पदाधिकारिणः अन्यराज्येभ्यः नेतारश्च भोपालनगरम् आगमिष्यन्ति।
निर्धारितकार्यक्रमानुसारं राजनाथसिंहः सायं प्रायः ४:४० वादने भोपालनगरस्य राजाभोजविमानपत्तने अवतरिष्यति। ततः सायं ५:१५ वादने वृन्दावन-उद्यानं प्राप्स्यति। सायं ५:१५ तः ५:३५ वादनपर्यन्तं समयः आरक्षितः अस्ति। तदनन्तरं सायं ६:०५ वादने सः विमानपत्तनं प्रति प्रस्थास्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani