Enter your Email Address to subscribe to our newsletters

रायपुरम्, 12 नवंबरमासः (हि.स.)। 'प्रगतिशीलकवेः आलोचकस्य च गजाननमाधवस्य ‘मुक्तिबोध’ इत्यस्य स्मृतौ समर्पितस्य ‘मुक्तिबोधराष्ट्रियनाट्यमहोत्सवस्य’ भव्यः समारम्भः नवम्बरमासस्य त्रयोदशदिनाङ्कतः भविष्यति। पञ्चदिवसीयस्य ‘मुक्तिबोधराष्ट्रियनाट्यमहोत्सवस्य २०२६’ आयोजनं नवम्बरमासस्य सप्तदशदिनाङ्कपर्यन्तं रायपुरनगरस्य रङ्गमन्दिरे भविष्यति।
पञ्चदिनानि यावत् प्रचलिष्यमाणे अस्मिन् प्रतिष्ठिते नाट्यमहोत्सवे देशस्य विभिन्नभागेभ्यः षट् प्रसिद्धानां उत्कृष्टनाटकानां मञ्चनं भविष्यति। एतानि नाटकानि दर्शकान् जीवनस्य, समाजस्य, कलायाश्च विविधैः अपरिचितैः पक्षैः परिचाययिष्यन्ति।
छत्तीसगढ़चलचित्रदृश्यकलासमितेः तत्त्वावधाने आयोजिते अस्मिन् महोत्सवे देशस्य विभिन्ननगराणां नाट्यसमूहाः षट् प्रसिद्धनाटकानि मञ्चयिष्यन्ति। नाटकानां प्रस्तुतिभिः सह रङ्गसङ्गीतस्य कार्यक्रमाः अपि भविष्यन्ति। अयं महोत्सवः केवलं नाटकानां मञ्चनपर्यन्तं सीमितः न भविष्यति, अपितु कलाप्रेमिणां, साहित्यकाराणां, चिन्तकानां च परस्परसंवादस्य महत्त्वपूर्णं मञ्चम् अपि भविष्यति। नाट्यप्रस्तुतिभिः सह कलायाः साहित्यस्य च विषयम् आधारीकृत्य परिचर्चाः अपि अस्य आयोजनस्य आकर्षणं वर्धयिष्यन्ति।
अस्मिन् महोत्सवे सुप्रसिद्धः चलचित्राभिनेता, रङ्गकर्मी, गीतकारः सङ्गीतकारश्च पीयूषमिश्रः मुख्यातिथिरूपेण समुपस्थास्यति। चलचित्रनिर्देशकः, अभिनेता, वरिष्ठः रङ्गकर्मी च राजेन्द्रगुप्तः समारोहस्य अध्यक्षतां करिष्यति।
समारोहस्य प्रथमदिने नवम्बरमासस्य त्रयोदशदिनाङ्के शुक्रवासरे द्वयोः नाटकयोः प्रस्तुतिः भविष्यति। बिलासपुरनगरस्य अजननाट्यदलस्य पक्षतः सुनीलचिपड़े इत्यस्य निर्देशनें ‘अन्धेरे में’ इति नाटकस्य मञ्चनं भविष्यति। एतस्मिन्नेव दिने अभिनेता रङ्गकर्मी च राजेन्द्रगुप्तस्य प्रस्तुतेः ‘संसद से सड़क तक’ इति नाटकस्य अपि प्रदर्शनं भविष्यति। अस्य निर्देशनं आर.एस. विकलः कृतवान् अस्ति।
नवम्बरमासस्य चतुर्दशदिनाङ्के शनिवासरे राजनान्दग्रामस्य ‘रङ्ग छत्तीसगढ़’ इति नाट्यसमूहस्य पक्षतः पूनमतिवारी तस्याः सहकलाकाराणां च रङ्गसङ्गीतप्रस्तुतिः भविष्यति। ततः परं जबलपुरनगरस्य ‘विवेचना रङ्गमण्डल’ इति संस्थायाः ‘पर पाजेब न भीगो’ इति नाटकस्य मञ्चनं भविष्यति। अस्य निर्देशनं प्रगतिविवेकपाण्डे इत्येषा कृतवती अस्ति।
नवम्बरमासस्य पञ्चदशदिनाङ्के रविवासरे प्रयागराजस्य ‘समानान्तर नाट्यसमूह’ इत्यस्य प्रस्तुतेः ‘युद्ध नहीं, चाहिए शांति’ इति नाटकस्य मञ्चनं भविष्यति। अस्य नाटकस्य परिकल्पनां निर्देशनं च अनिलरञ्जनभौमिकः कृतवान् अस्ति।
नवम्बरमासस्य षोडशदिनाङ्के सोमवासरे उज्जयिनीनगरस्य ‘अभिनव रङ्गमण्डल’ इत्यस्य पक्षतः ‘एक इंस्पेक्टर से मुलाकात’ इति नाटकं प्रस्तुतं भविष्यति। अस्य निर्देशनं शरदशर्मा कृतवान् अस्ति।
महोत्सवस्य अन्तिमदिने नवम्बरमासस्य सप्तदशदिनाङ्के मङ्गलवासरे मध्यप्रदेशीयनाट्यविद्यालयस्य भोपालनगरस्थितायाः रङ्गप्रयोगशालायाः प्रस्तुतेः ‘गुड़िया की शादी’ इति नाटकस्य मञ्चनं भविष्यति। अस्य निर्देशनं सञ्जयश्रीवास्तवः कृतवान् अस्ति।
आयोजकानाम् अनुसारं पञ्चदिवसीयस्य अस्य नाट्यमहोत्सवस्य प्रमुखम् उद्देश्यम् आधुनिके कालेऽपि रङ्गकर्मणः जीवन्तपरम्परायाः संरक्षणं तथा च नवपीढ्याः गम्भीरविषयकानां सामाजिकसरोकारयुक्तानां नाटकानां प्रति अभिरुचिवर्धनम् अस्ति। मञ्चे प्रस्तुतानि षट् नाटकानि समकालीनान् सामाजिकविषयान्, मानवीयसंवेदनाः, गम्भीरां दार्शनिकचिन्तनधारां च अत्यन्तं प्रभावशालिरूपेण अभिव्यञ्जयिष्यन्ति।
महोत्सवे प्रवेशार्थं पञ्चदिनानां सम्पूर्णस्य सत्रस्य प्रवेशपत्रं द्विशतं (२००) रूप्यकाणां सहयोगराशौ प्रतिदिनस्य प्रवेशपत्रं च पञ्चाशत् (५०) रूप्यकाणां सहयोगराशौ उपलब्धं भविष्यति। प्रवेशपत्राणि रङ्गमन्दिरे नाटकस्य प्रदर्शनात् पूर्वं प्राप्तुं शक्यन्ते।
Hindusthan Samachar / Dheeraj Maithani