Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ नवम्बरमासः (हि.स.)। छठमहापर्वणि यात्रिणां सुविधायै सुरक्षितयात्रायै च भारतीयरेलविभागेन विशेषः उपक्रमः कृतः। देशस्य प्रथमम् अत्याधुनिकं ‘अमृतभारतम् ३.०’ रेलयानं नवम्बरमासस्य ११ दिनाङ्कस्य मध्यरात्रौ छठपूजाविशेषरेलयानरूपेण नवदिल्ली-रेलस्थानकात् पाटलिपुत्राय प्रस्थापितम्।
रेलयानस्य प्रस्थानसमये नवदिल्लीरेल-स्थानकं छठपर्वणः पारम्परिकैः लोकगीतेः मधुरध्वनिभिः मुखरितम् अभवत्। स्थानके उत्सवमयं भक्तिपूर्णं च वातावरणं दृष्टम्। यात्रिणः रेलविभागस्य अस्य उपक्रमस्य उत्साहपूर्वकं स्वागतं कृतवन्तः।
‘अमृतभारतम् ३.०’ रेलयानं विशेषरूपेण सामान्य-मध्यमवर्गीययात्रिणाम् आवश्यकताः ध्याने निधाय निर्मितम् अस्ति। अस्मिन् आरामदायकानि आसनानि, उन्नततरं निलम्बनतन्त्रम्, आधुनिकाः शौचालयाः, चलदूरभाषयन्त्राणां विद्युत्पूरणार्थं सम्पर्कस्थानानि च उपलब्धानि सन्ति।
इदं रेलयानम् आधुनिकेन धक्का-आकर्षण-प्रौद्योगिकीतन्त्रेण युक्तम् अस्ति, येन अधिकवेगयुक्तायाः सुखद-यात्रायाः च अनुभवः भविष्यति। रेलयाने यात्रिणां सुरक्षायै सुविधायै च विशेषप्राथमिकता प्रदत्ता अस्ति।
छठमहापर्वणः अवसरे नवदेहलीत: बिहारराज्यं प्रति गच्छतां यात्रिणां सङ्ख्यायां महती वृद्धिः भवति। अतः अस्य विशेषरेलयानस्य सञ्चालनात् यात्रिभ्यः अतिरिक्तयात्रासुविधा प्राप्स्यते तथा च उत्सवकाले यात्रिणां सम्मर्दस्य न्यूनीकरणे साहाय्यं भविष्यति।
भारतीयरेलविभागस्य अयं उपक्रमः छठमहापर्वणि बिहारराज्यं प्रति गच्छद्भ्यः यात्रिभ्यः महती उपहारस्वरूपा सुविधा इति मन्यते। रेलविभागेन सर्वेभ्यः यात्रिभ्यः सुखदायाः, सुरक्षितायाः, मङ्गलमय्याश्च यात्रायाः शुभकामनाः प्रदत्ताः।
Hindusthan Samachar / Divya Ranjan