प्रधानमन्त्री मोदी श्वः कर्नाटकस्य यात्रां करिष्यन्ति, १५,६०० कोटिरूप्यकाणाम् अधिकमूल्यानां विकासपरियोजनानां प्रदास्यन्ति उपहारम्।
बेंगलुरुः, 12 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे कर्णाटकस्य प्रवासे भविष्यति। अस्मिन् अवसरे सः बेङ्गलूरुनगरे मैसूरुनगरे च १५,६०० कोटिरूप्यकाणाम् अधिकव्ययेन निर्मितानां विविधविकासपरियोजनानाम् उद्घाटनं, लोकार्पणं शिलान्यासं च कर
ಪ್ರಧಾನಮಂತ್ರಿ ನರೇಂದ್ರ ಮೋದಿ ಫೈಲ್ ಪೋಟೋ


बेंगलुरुः, 12 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे कर्णाटकस्य प्रवासे भविष्यति। अस्मिन् अवसरे सः बेङ्गलूरुनगरे मैसूरुनगरे च १५,६०० कोटिरूप्यकाणाम् अधिकव्ययेन निर्मितानां विविधविकासपरियोजनानाम् उद्घाटनं, लोकार्पणं शिलान्यासं च करिष्यति। एतासु परियोजनासु नगरीयपरिवहनम्, विद्युत्पारेषणम्, नवीकरणीयोर्जा, पेट्रोलियम-अवसंरचना, अपशिष्टप्रबन्धनम्, रेलविभागसम्बद्धाः योजनाः च अन्तर्भवन्ति।

प्रधानमन्त्री प्रातः प्रायः १०:४५ वादने बेङ्गलूरुनगरस्थे प्रशान्तिकुटीरम् इत्यत्र आयोजिते स्वर्णजयन्तीसमारोहे भागं ग्रहीष्यति। अस्मिन् अवसरे सः स्वर्णजयन्तीप्रशासनिकभवनस्य आधारशिलां स्थापयिष्यति तथा केरलस्य तिरुवनन्तपुरनगरे स्वामिविवेकानन्दयोगानुसन्धानसंस्थानस्य बाह्यपरिसरकेन्द्रस्य शुभारम्भं करिष्यति। सः समारोहं सम्बोधयिष्यति अपि।

१९७५ तमे वर्षे स्थापितं प्रशान्तिकुटीरम् आधुनिकविज्ञानस्य भारतस्य आध्यात्मिकपरम्परायाश्च समन्वयस्य उद्देशेन स्थापितम् आसीत्। अत्र स्थिताय स्वामिविवेकानन्दयोगानुसन्धानसंस्थायै २००२ तमे वर्षे मानितविश्वविद्यालयस्य दर्जा प्रदत्ता आसीत्। इदं संस्थानं योगशिक्षायाः अनुसन्धानस्य च क्षेत्रे कार्यं करोति।

अस्मिन् कार्यक्रमे बेङ्गलूरुनगरे जन्म प्राप्तस्य चिन्तकस्य, लेखकस्य, सङ्घटकस्य च होंगसन्द्रवेंकटरमैया शेषाद्रेः जन्मशताब्दी अपि आयोजयिष्यते। तेन १९८७ तः २००० तमवर्षपर्यन्तं राष्ट्रियस्वयंसेवकसङ्घस्य सरकार्यवाहरूपेण कार्यं कृतम् आसीत्।

प्रधानमन्त्री मध्याह्ने प्रायः १२:४५ वादने तावरेकेरेतः भारतीयविज्ञानसंस्थानस्य मेट्रोस्थानकपर्यन्तं मेट्रोयानेन यात्रां करिष्यति। अस्मिन् अवसरे सः कालेन-अग्रहारतः तावरेकेरेपर्यन्तं बेङ्गलूरुमेट्रोमार्गस्य पिङ्करेखायाः उद्घाटनं करिष्यति। प्रायः ३,४७० कोटिरूप्यकाणां व्ययेन विकसितेन अनेन मार्गेण नगरे सार्वजनिकपरिवहनव्यवस्था सुदृढा भविष्यति। अनेन यात्रिकाणां समयस्य बचतिः भविष्यति तथा यातायातस्य भारं न्यूनीकर्तुं साहाय्यं भविष्यति।

ततः मध्याह्ने प्रायः १:१५ वादने प्रधानमन्त्री बेङ्गलूरुनगरे १५,६०० कोटिरूप्यकाणाम् अधिकव्ययेन निर्मितानां विकासपरियोजनानाम् उद्घाटनं, लोकार्पणं शिलान्यासं च करिष्यति।

प्रधानमन्त्री प्रायः ४,४५० कोटिरूप्यकाणां व्ययेन विकसितायाः कोप्पल-२ तथा गदग-२ नवीकरणीयोर्जाक्षेत्रयोः विद्युत्पारेषणयोजनायाः उद्घाटनं करिष्यति। अनेन एतयोः क्षेत्रयोः उपलब्धायाः प्रायः २ गीगावाट् नवीकरणीयोर्जायाः विद्युत्जालपर्यन्तं प्रेषणं सम्भवं भविष्यति।

अपि च प्रायः १,३७० कोटिरूप्यकाणां व्ययेन विकसितायाः बीदर-सौरोजाक्षेत्रस्य पारेषणयोजनायाः अपि उद्घाटनं करिष्यति। अस्याः योजनायाः अन्तर्गतं बीदर-सङ्ग्रहणकेन्द्रस्य स्थापना कृता अस्ति, येन क्षेत्रस्य २.५ गीगावाट् सौरोजायाः पारेषणं सम्भवं भविष्यति।

प्रधानमन्त्री दावणगेरे, चित्रदुर्ग तथा बल्लारी इत्येतेषां नवीकरणीयोर्जाक्षेत्राणां संयोजनाय ३,४५० कोटिरूप्यकाणाम् अधिकव्यययुक्तायाः विद्युत्पारेषणयोजनायाः आधारशिलां स्थापयिष्यति। एतदतिरिक्तं दावणगेरे तथा बल्लारीनगरे अतिरिक्तनवीकरणीयोर्जाक्षमतायाः समायोजनार्थं १,१०० कोटिरूप्यकाणाम् अधिकव्ययेन निर्मीयमाणायाः विद्युत्पारेषणप्रणाल्याः सुदृढीकरणपरियोजनायाः अपि शिलान्यासं करिष्यति।

प्रधानमन्त्री मङ्गलूरुनगरे ८५० कोटिरूप्यकाणाम् अधिकव्ययेन निर्मितां देशस्य बृहत्तमां भूमिगत-एलपीजी-सङ्ग्रहणसुविधां राष्ट्राय समर्पयिष्यति। अस्याः सङ्ग्रहणक्षमता ८० सहस्रं मेट्रिकटनमिता अस्ति। अस्मिन् परियोजनायां नवमङ्गलूरुबन्दरगाहतः मुख्यकेन्द्रपर्यन्तं ९.४ किलोमीटर् दीर्घा एलपीजी-नलिकाप्रणाली अपि अन्तर्भवति। अनेन पाकगैसस्य सङ्ग्रहणस्य परिवहनव्यवस्थायाश्च सुदृढीकरणं भविष्यति।

एतदतिरिक्तं मङ्गलूरुरिफाइनरी एण्ड् पेट्रोकेमिकल्स लिमिटेड् इत्यस्य बेङ्गलूरुस्थितं देवनगुण्ठी-विपणनकेन्द्रम् अपि राष्ट्राय समर्पयिष्यति। ३३० कोटिरूप्यकाणां व्ययेन निर्मितम् इदं केन्द्रं पेट्रोलियमोत्पादानां सङ्ग्रहणं वितरणं च अधिकं प्रभावशालि करिष्यति।

प्रधानमन्त्री बेङ्गलूरुनगरस्य हरलाकुण्टे इत्यत्र गेल्-संस्थायाः संपीडितजैविकगैस-उत्पादनसंयन्त्रस्य आधारशिलां स्थापयिष्यति। अस्मिन् संयन्त्रे प्रतिदिनं प्रायः ३०० टन् नगरीयठोसापशिष्टस्य प्रसंस्करणं कृत्वा १२.६ टन् संपीडितजैविकगैसस्य उत्पादनं करिष्यते। अनेन वैज्ञानिकपद्धत्या अपशिष्टप्रबन्धनस्य प्रोत्साहनं भविष्यति तथा पारम्परिकेन्धनेषु निर्भरता न्यूनीकर्तुं साहाय्यं भविष्यति।

प्रधानमन्त्री अमृतभारतस्थानकयोजनायाः अन्तर्गतं पुनर्विकसितानां चामराजनगर, चिक्कमगलूरु, सकलेशपुर तथा सुब्रह्मण्यरोड इत्येतेषां चतुर्णां रेलस्थानकानाम् उद्घाटनं करिष्यति। एतेषु स्थानकेषु यात्रिकेभ्यः उत्तमसुविधाः उपलब्धाः कृताः सन्ति। एतानि स्थानीयव्यापारिकगतिविधीनां पर्यटनस्य च प्रोत्साहनकेन्द्ररूपेण अपि विकसितानि सन्ति।

प्रधानमन्त्री गदग-होटगी द्विपथीकरणपरियोजनायाः अन्तर्गतं ४५ किलोमीटर् दीर्घस्य बागलकोट-वण्डाल रेलमार्गखण्डस्य द्विपथीकरणं राष्ट्राय समर्पयिष्यति। अनेन यात्रिकरेलयानानां मालवाहकरेलयानानां च सञ्चालनं सुकरं भविष्यति। तथैव स्थानीयव्यापाराय कुडगी-एनटीपीसी-संयन्त्राय कोयलाप्रेषणाय च सुविधा भविष्यति।

सः ५५ किलोमीटर् दीर्घस्य सकलेशपुर-सुब्रह्मण्यरोड घाटरेलमार्गखण्डस्य विद्युतीकरणमपि राष्ट्राय समर्पयिष्यति। अस्य कार्यस्य पूर्णतया बेङ्गलूरु-मङ्गलूरु रेलमार्गः पूर्णतया विद्युतीकृतः भविष्यति।

प्रधानमन्त्री बेङ्गलूरु-मङ्गलूरु-मडगाँव वन्देभारत् एक्सप्रेस् रेलयानं हरितध्वजं दर्शयित्वा प्रस्थापयिष्यति। एतद् रेलयानं बेङ्गलूरु, तटीयकर्णाटक तथा गोवा इत्येतेषां प्रदेशानां मध्ये तीव्रतरं रेलसम्पर्कं प्रदास्यति। एतद् रेलयानं हासन, सकलेशपुर, मङ्गलूरु, उडुपी, मुरुडेश्वर, गोकर्ण तथा कारवारमार्गेण गोवायाः मडगाँवपर्यन्तं गमिष्यति। अनेन यात्रिकेभ्यः उत्तमरेलसुविधा प्राप्स्यते तथा क्षेत्रीयपर्यटनस्य अपि प्रोत्साहनं भविष्यति।

बेङ्गलूरुनगरस्य कार्यक्रमानन्तरं प्रधानमन्त्री मैसूरुनगरं गमिष्यति। मध्याह्ने प्रायः ३:३० वादने सः भारतवनम् इत्यत्र वृक्षारोपणकार्यक्रमे भागं ग्रहीष्यति। अयं कार्यक्रमः ‘एकं वृक्षं मातुः नाम्नि’ इति अभियानस्य अन्तर्गतं आयोजयिष्यते। भारतवनम् जापानस्य मियावाकीपद्धत्या विकसितं क्रियते। १७.६३ एकरमिते क्षेत्रे विस्तृते अस्मिन् परियोजनायां द्विलक्षाधिकानां देशजप्रजातीयानां वृक्षाणां रोपणस्य लक्ष्यं निर्धारितम् अस्ति। अस्मिन् गोमयम्, कम्पोस्ट् तथा जीवामृतम् इत्यादीनां प्राकृतिकपदार्थानां प्रयोगः क्रियते। अनेन जैवविविधतायाः वर्धनं, भूजलपुनर्भरणं, वायुप्रदूषणस्य न्यूनीकरणं स्थानीयपर्यावरणस्य च उन्नयनं भविष्यति।

सायं प्रायः ४ वादने प्रधानमन्त्री मैसूरुविश्वविद्यालयपरिसरे स्थितस्य कॉसमॉस-मैसूरु तारामण्डलस्य उद्घाटनं करिष्यति। भारतीयखगोलभौतिकीसंस्थया निर्मितम् इदं भारतस्य प्रथमं एलईडी-गुम्बजयुक्तं तारामण्डलम् अस्ति। इदं चामुण्डीपर्वतस्य पादप्रदेशे स्थितम् अस्ति।

अस्मिन् अत्याधुनिके तारामण्डले १५ मीटर् परिमितः नतगुम्बजः निर्मितः अस्ति, यस्मिन् प्रायः ६,१५० पटलानि तथा ४.२ कोटिसङ्ख्याकाः पृथक्-पृथक् एलईडी-दीपाः स्थापिताः सन्ति। पारम्परिकेषु तारामण्डलेषु प्रक्षेपकयन्त्रैः गुम्बजे चित्राणि प्रदर्श्यन्ते, किन्तु अत्र एलईडी-पटलानि वास्तविकसमये नियन्त्रयितुं शक्यन्ते। अनेन दर्शकेभ्यः खगोलविज्ञानसम्बद्धः विशिष्टः दृश्यानुभवः प्राप्स्यते।

अत्र खगोलविज्ञानाधारितानां कार्यक्रमाणां सह मैसूरुनगरस्य इतिहासस्य खगोलविज्ञानस्य च सम्बन्धं प्रदर्शयन्ती विशेषचलच्चित्रिका अपि प्रदर्शयिष्यते। एते कार्यक्रमाः कन्नड, आङ्ग्ल तथा हिन्दीभाषासु उपलब्धाः भविष्यन्ति।

अस्मिन् केन्द्रे प्रदर्शनीकक्षः, खगोलीयप्रतिमानानां कलाकृतीनां च सङ्ग्रहालयः, व्याख्यानकक्षः, प्रशिक्षणकेन्द्रम् तथा संवादात्मकानि बहिःप्रदर्शनानि अपि स्थापितानि सन्ति। अस्य केन्द्रस्य गतिविधयः भारतीयखगोलभौतिकीसंस्थायाः अनुसन्धानकार्याणां तथा देशे खगोलीयविज्ञानस्य प्रचारप्रसारस्य च संवर्धने अपि सहायकाः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani