आसियान-भारत तथा पूर्वी एशियाशिखरसम्मेलनेषु भागं ग्रहीतुं नवम्बरमासस्य १६-१८ दिनाङ्कपर्यन्तं फिलीपीन्सदेशं गमिष्यति प्रधानमन्त्री मोदी
नवदिल्ली, नवम्बरमासः १२ दिनाङ्कः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी त्रयोविंशतितमे आसियान-भारतशिखरसम्मेलने तथा एकविंशतितमे पूर्वीएशियाशिखरसम्मेलने भागं ग्रहीतुं नवम्बरमासस्य १६ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं फिलीपीन्सदेशस्य राजधान्याः मनीलानगरस्य त
MEA Secretary East Rudrendra Tandon addressed a press briefing


नवदिल्ली, नवम्बरमासः १२ दिनाङ्कः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी त्रयोविंशतितमे आसियान-भारतशिखरसम्मेलने तथा एकविंशतितमे पूर्वीएशियाशिखरसम्मेलने भागं ग्रहीतुं नवम्बरमासस्य १६ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं फिलीपीन्सदेशस्य राजधान्याः मनीलानगरस्य त्रिदिवसीयाम् आधिकारिकयात्रां करिष्यति।

प्रधानमन्त्रिणः यात्रायाः पूर्वं विदेशमन्त्रालयस्य पूर्वविभागस्य सचिवः रुद्रेन्द्रटण्डनः अत्र पत्रकारसम्मेलनं सम्बोधयन् उक्तवान् यत् दक्षिणपूर्व-एशियादेशानां सङ्घटनेन सह भारतस्य सहभागिता अस्माकं ‘पूर्वदिशि क्रियाशीलनीतेः’ महत्त्वपूर्णः आधारः अस्ति। मनीलायां प्रवासकाले प्रधानमन्त्री मोदी फिलीपीन्सदेशस्य राष्ट्रपतिना फर्डिनाण्ड् मार्कोस जूनियर इत्यनेन आमन्त्रितानां विशिष्टातिथीनां सम्मानार्थम् आयोजिते रात्रिभोजकार्यक्रमे सम्मिलितः भविष्यति। तदनन्तरदिने सः आसियान-भारतशिखरसम्मेलने तथा पूर्वीएशियाशिखरसम्मेलनस्य कार्यवाहीप्रक्रियायां भागं ग्रहीष्यति।

अस्मिन्नवसरे अन्यैः वैश्विकनेतृभिः सह द्विपक्षीयसभाः अपि करिष्यति। तेन सूचितं यत् भारतीयसमुदायस्य महतीम् इच्छां दृष्ट्वा प्रधानमन्त्रिणः कार्यक्रमे प्रवासीभारतीयैः सह संवादस्य आयोजनाय अपि प्रयत्नाः क्रियन्ते।

आसियानेन सह सुदृढां आर्थिकसहभागितां रेखाङ्कयन् टण्डनः उक्तवान् यत् अस्मिन् क्षेत्रेण सह भारतस्य द्विपक्षीयव्यापारः प्रायः १२२ अरब-अमेरिकीडॉलर-परिमाणं प्राप्तवान् अस्ति। अनेन अयं समूहः भारतस्य प्रमुखः व्यापारिकसहभागी अभवत्। तेन उक्तं यत् दक्षिणपूर्व-एशियायाः समुद्रीक्षेत्रेण संलग्नस्य हिन्दमहासागरीयदेशत्वेन भारतस्य दृढः विश्वासः अस्ति यत् सामूहिकरूपेण तथा अस्य समूहस्य सर्वैः एकादशभिः सदस्यदेशैः सह पृथक्-पृथक् सुदृढान् रणनीतिकसम्बन्धान् स्थापयित्वा तीव्रगत्या परिवर्तमानस्य भू-राजनैतिकपरिदृश्यस्य समक्षं कर्तुम् उभयपक्षौ अधिकं समर्थौ भविष्यतः। एते सम्बन्धाः सम्पूर्णे एशियाक्षेत्रे शान्तेः स्थिरतायाश्च स्थापनायां योगदानं दास्यन्ति।

फिलीपीन्सदेशस्य अध्यक्षतायां ‘भविष्यस्य दिशानिर्धारणम्’ इति विषयाधारेण आयोज्यमानम् एकविंशतितमं पूर्वीएशियाशिखरसम्मेलनम् अद्वितीयः मञ्चः अस्ति।

अत्र आसियानदेशानां तथा अष्टसंवादसहभागिदेशानां शीर्षनेतारः अनौपचारिकवातावरणे वैश्विकसुरक्षासम्बद्धान् आव्हानान् समानचिन्ताविषयान् च अधिकृत्य विचारविमर्शं कुर्वन्ति। टण्डनः एतां प्रक्रियां आसियानस्य सफलसामूहिककूटनीतेः उल्लेखनीयम् उदाहरणम् उक्तवान्।

आर्थिकक्षेत्रे पूर्वविभागस्य सचिवः आसियान-भारतवस्तुव्यापारसन्धौ प्रचलमानायाः समीक्षायाः यथाशीघ्रं समापनस्य भारतस्य इच्छां पुनः प्रकटितवान्। तेन स्वीकृतं यत् बहुपक्षीयव्यापारवार्तासु विभिन्नपक्षेषु सर्वसम्मतिं निर्मातुं समयः अपेक्ष्यते। तथापि तेन आश्वासितं यत् भारतदेशः स्वकीयव्यापारहितानां रक्षणाय तथा उभयपक्षयोः उद्योगानां कृते नवीनावसरानां सृजनाय द्विपक्षीयस्तरे अपि व्यापारसुगमीकरणस्य विविधासु योजनासु सन्धिषु च कार्यं कुर्वन् अस्ति।

पारम्परिकव्यापारस्य अतिरिक्तं भारतः अङ्कीयसार्वजनिकाधारभूतसंरचनायाः, स्वदेशीय-चतुर्थपीढ्याः दूरसञ्चारप्रौद्योगिक्याः तथा क्षेत्रीयविद्युत्जालस्य एकीकरणस्य सदृशेषु उदयमानक्षेत्रेषु आसियानेन सह सहयोगं वर्धयितुम् इच्छति। एतेषु क्षेत्रेषु आधारभूतसंरचनायाः निर्माणस्य तथा सॉफ्टवेयरसम्बद्धव्यवस्थायाः विकासस्य च विषये भारतस्य व्यापकः अनुभवः अस्ति।

क्षेत्रीयसुरक्षायाः समुद्रीसहयोगस्य च विषये वदन् टण्डनः उक्तवान् यत् दक्षिणपूर्व-एशियायाः समुद्रीक्षेत्रे समुद्रीक्षेत्रसम्बद्धस्य निरीक्षणस्य जागरूकतायाश्च वर्धनं भारतस्य सर्वोच्चप्राथमिकता अस्ति। तेन स्पष्टं कृतं यत् भारतं मलक्का-जलडमरूमध्यात् बहिः स्थितः अस्ति, यः कतिपयेषु विशिष्टेषु आसियानसदस्यदेशेषु क्षेत्रीयजलक्षेत्रेषु अन्तर्भवति। तथापि एतावतो विशालस्य समुद्रीक्षेत्रस्य प्रभावीनिरीक्षणाय, समुद्रीलुण्ठनस्य तथा अवैधस्य, पूर्वसूचनारहितस्य, अनियमितस्य च मत्स्याखेटस्य नियन्त्रणाय समुद्रे सुव्यवस्थायाः स्थापनायै च भारतः समन्वितनिरीक्षणव्यवस्थायाः समर्थनं करोति।

दक्षिणचीनसागरस्य विषये भारतस्य स्पष्टं मतं पुनः प्रतिपादयन् टण्डनः उक्तवान् यत् अयं अत्यन्तं महत्त्वपूर्णः अन्ताराष्ट्रियजलमार्गः अस्ति।

अतः आसियान-चीनयोः मध्ये वार्तामाध्यमेन निर्मीयमाणा कापि आचारसंहिता अन्ताराष्ट्रियसमुद्रीविधेः, विशेषतः संयुक्तराष्ट्रसङ्घस्य समुद्रविधिसन्धेः अनुरूपा भवितव्या। वार्तायाम् असम्मिलितानां देशानां वैधाधिकाराणाम् अपि सम्मानः करणीयः।

म्यान्मारदेशस्य स्थितिम् अधिकृत्य तेन उक्तं यत् म्यान्मारदेशं पृथक्करणं समुचितः दृष्टिकोणः नास्ति, यतः अनेन उत्पद्यमानं रिक्तस्थानम् अन्यः कश्चन बाह्यशक्तिः पूरयितुं शक्नोति। संवादस्य सम्पर्कस्य च विकल्पः नास्ति इति प्रतिपादयन् टण्डनः उक्तवान् यत् भारतः म्यान्मारसर्वकारेण सह संवादस्थापनाय आसियानस्य प्रयत्नानां दृढं समर्थनं करोति। किन्तु तस्य जटिलम् इतिहासं समाजं च दृष्ट्वा धैर्यस्य निरन्तरतायाश्च निर्वाहः आवश्यकः अस्ति।

सम्मेलनात् पृथक् ‘क्वाड्’ सभानां सम्भावनायाः विषये पृष्टस्य प्रश्नस्य उत्तरं ददन् विदेशमन्त्रालयस्य अधिकारिणा उक्तं यत् द्विपक्षीयानां अन्यासां च सभानाम् अन्तिमनिर्धारणाय प्रयत्नाः प्रचलन्ति। सम्प्रति उभयोः प्रमुखयोः शिखरसम्मेलनयोः अतिरिक्तं कार्यक्रमस्य अन्यत् किमपि विवरणम् उपलब्धं नास्ति।

तेन नालन्दाविश्वविद्यालयस्य उल्लेखं कुर्वता उक्तं यत् अयं भारते स्थापितः अद्वितीयः अन्ताराष्ट्रियसंस्थानम् अस्ति।

अयं न केवलं दक्षिणपूर्व-एशियादेशैः सह प्राचीनसांस्कृतिकसम्बन्धानां पुनरुज्जीवने योगदानं ददाति, अपितु कृत्रिमबुद्धिमत्ता-गणितशास्त्रादीनां आधुनिकविषयाणाम् अध्ययनस्य प्रमुखकेन्द्ररूपेण अपि उद्भवति।

Hindusthan Samachar / Divya Ranjan