Enter your Email Address to subscribe to our newsletters

नवदिल्ली, नवम्बरमासः १२ दिनाङ्कः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे उक्तवती यत् विद्यार्थिनां लक्ष्यम् स्वज्ञानस्य माध्यमेन रोजगारस्य अवसराणां सृजनम् अपि भवितव्यम्। अनेन देशस्य समावेशीविकासाय अधिका गतिः प्राप्स्यते। सा विद्यार्थिभ्यः उच्चलक्ष्याणि निर्धारयितुं तथा लग्नतया, अनुशासनेन, आत्मविश्वासेन च स्वप्नानां पूर्तये प्रयत्नं कर्तुम् आग्रहं कृतवती।
राष्ट्रपतिः द्रौपदी मुर्मू अद्य राष्ट्रपतिभवने एकलव्य-आदर्श-आवासीयविद्यालयानां प्रतिभाशालिनः विद्यार्थिनः सम्बोधयन्ती उक्तवती, “शिक्षा केवलम् आजीविकोपार्जनस्य साधनं न भवेत्, अपितु विद्यार्थिनां लक्ष्यम् स्वज्ञानस्य माध्यमेन रोजगारस्य अवसराणां सृजनम् अपि भवितव्यम्। यदा अस्माकं युवजनाः रोजगारस्रष्टारः भविष्यन्ति, तदा देशस्य समावेशीविकासाय अधिका गतिः प्राप्स्यते।
विद्यार्थिभिः समसामयिकघटनानां तथा देशे विदेशेषु च जायमानानां परिवर्तनानां विषये अवगतैः भवितव्यम्। एतेन तेषां तार्किकचिन्तनस्य विश्लेषणात्मककौशलस्य च विकासे सहायता भविष्यति। यदा कदापि विद्यार्थिनः स्वग्रामं गच्छेयुः, तदा स्वपरिवारस्य सदस्यैः, सम्बन्धिभिः, समीपवासिभिः च समसामयिकघटनानां सर्वकारेण सञ्चालितानां जनकल्याणकारीयोजनानां च विषये सूचनाः सहभागं कुर्युः। तेषाम् अनेन प्रयत्नेन परिवारः समाजश्च लाभान्वितः भविष्यति तथा तेषां शिक्षायाः सार्थकता अपि वर्धिष्यते।”
राष्ट्रपतिः उक्तवती यत् अस्माकं देशः २०४७ तमवर्षपर्यन्तं ‘विकसितभारतस्य’ लक्ष्यं प्राप्तुं दिशि अग्रे गच्छति। देशस्य प्रत्येकस्य क्षेत्रस्य समाजस्य प्रत्येकस्य वर्गस्य च विकासः आवश्यकः अस्ति। एकलव्य-आदर्श-आवासीयविद्यालयाः न केवलं जनजातीयविद्यार्थिभ्यः गुणवत्तापूर्णशिक्षां प्रददति, अपितु तेषां बहुमुखीप्रतिभायाः विकासाय अवसरान् अपि प्रददति। सा उक्तवती यत् अस्माकं देशे प्रतिभायाः कापि न्यूनता नास्ति। विद्यार्थिभ्यः केवलम् उचितावसराणां, अनुकूलवातावरणस्य, सम्यक् मार्गदर्शनस्य च आवश्यकता अस्ति।
एषः संवादकार्यक्रमः जनजातीयकार्यमन्त्रालयेन ‘जनजातीयगौरवपक्षस्य’ अन्तर्गतः आयोजितः आसीत्। अयं पक्षः प्रतिवर्षं भगवान् बिरसा मुण्डा इत्यस्य जयन्त्याः उपलक्ष्ये आमान्यते।
Hindusthan Samachar / Divya Ranjan