विश्वटेनिसलीगस्पर्धाया: पञ्चमं सत्रं दिसम्बरमासस्य १७ तः २० दिनाङ्कपर्यन्तम्, बेङ्गलूरुनगरं करिष्यति आतिथ्यम्
पाउला बडोसा, यूकी भाम्बरी तथा सुमित नागलसहिताः अनेके क्रीडका: पुनः क्रीडाङ्गणे अवतरिष्यन्ति, क्रीडकाणां दलानां च पूर्णसूची शीघ्रं घोषयिष्यते बेङ्गलूरु, १२ नवम्बरमासः (हि.स.)। विश्वटेनिसलीगायाः पञ्चमं सत्रं डिसेम्बरमासस्य १७ तः २० दिनाङ्कपर्यन्तं ब
वर्ल्ड टेनिस लीग लोगो


पाउला बडोसा, यूकी भाम्बरी तथा सुमित नागलसहिताः अनेके क्रीडका: पुनः क्रीडाङ्गणे अवतरिष्यन्ति, क्रीडकाणां दलानां च पूर्णसूची शीघ्रं घोषयिष्यते

बेङ्गलूरु, १२ नवम्बरमासः (हि.स.)। विश्वटेनिसलीगायाः पञ्चमं सत्रं डिसेम्बरमासस्य १७ तः २० दिनाङ्कपर्यन्तं बेङ्गलूरुनगरे आयोजयिष्यते। चतुर्दिव-सीयायाम् अस्यां प्रतियोगितायाम् अन्ताराष्ट्रियटेनिसक्षेत्रस्य प्रसिद्धाः तारकाः भारतस्य च शीर्षस्थाः उदयमानाः च क्रीडका: सहभागितां करिष्यन्ति। प्रतियोगितायाः आयोजनं केएसएलटीए-संस्थायाः एस.एम. कृष्णा-टेनिस-क्रीडाङ्गणे भविष्यति।

आइकोनिक-स्पोर्ट्स्-एण्ड्-इवेण्ट्स-संस्थया अनुज्ञापत्रं प्राप्य सञ्चाल्यमाना इयं स्पर्धा स्वस्य पञ्चमे सत्रे प्रविशति। आयोजकानाम् अनुसारं विगतेषु पञ्चसु सत्रेषु अस्याः लीलायाः माध्यमेन अन्ताराष्ट्रियटेनिसक्षेत्रस्य अनेकाः प्रमुखाः क्रीडका: एकस्मिन् मञ्चे समागताः, येन भारतीयटेनिसप्रतियोगितासु अस्याः विशिष्टं परिचयं निर्मितम्।

विगतसत्रे सहभागितां कृतवन्तः अनेके क्रीडका: पुनः डब्ल्यूटीएल-क्रीडायां प्रत्यागमिष्यन्ति। तेषु पाउला बडोसा, यूकी भाम्बरी, सुमित नागलः, दक्षिणेश्वर सुरेशः, माया राजेश्वरन् रेवती तथा श्रीवल्ली भामिदिपतिः च सन्ति। एतेभ्यः अतिरिक्तम् अस्मिन् सत्रे प्रतिष्ठितानाम् अन्ताराष्ट्रियक्रीडकाणां नवोदितप्रतिभानां च समन्वयः द्रष्टुं लप्स्यते।

विश्वटेनिसलीगायाः सहसंस्थापकः महेशभूपतिः अवदत्, “विगतं सत्रं विश्वटेनिसलीगायाः कृते रोमाञ्चकारी अध्यायः आसीत्। अस्मिन् अन्ताराष्ट्रिय-प्रतिभानां भारतीयक्रीडकाणां च उत्कृष्टः समन्वयः दृष्टः, यैः अनेकाः स्मरणीयाः टेनिसप्रतिस्पर्धाः प्रस्तुताः। प्रशंसकानां प्रतिक्रिया प्रतियोगितायाः परितः उत्साहश्च विशिष्टम् वैश्विकं टेनिसायोजनं निर्मातुं अस्माकं दृष्टिकोणं दृढं करोति।”

सः अवदत्, “पञ्चमे सत्रे प्रविशन्तः अस्माकम् उद्देश्यम् अस्याः गतिं निरन्तरं वर्धयितुं, लीगां नूतनदर्शकान् यावत् प्रापयितुं तथा च प्रत्येकसंस्करणेन सह तस्याः स्तरं वर्धयितुम् अस्ति।”

बेङ्गलूरुनगरं पुनरागमनाय उत्सुकाः स्मः : हेमालीशर्मा

लीगायाः सहसंस्थापिका हेमालीशर्मा अवदत्, “विश्वटेनिसलीगां पुनः बेङ्गलूरुनगरम् आनेतुं वयं अत्यन्तं प्रसन्नाः स्मः। अस्य नगरस्य क्रीडासंस्कृतिः सुदृढा अस्ति तथा च अत्र टेनिसक्रीडायाः प्रशंसकानां पर्याप्ता सङ्ख्या अस्ति। अतः पञ्चमसत्रस्य आयोजनाय इदं नगरम् उत्कृष्टं स्थलम् अस्ति।”

सा अवदत्, “अस्मिन् वर्षे अपि प्रतियोगितायां कतिपये उत्कृष्टाः अन्ताराष्ट्रियक्रीडका: भारतस्य प्रतिष्ठि-तानाम् उदयमानानां च टेनिसप्रतिभानां सह एकस्मिन् मञ्चे समागमिष्यन्ति। प्रशंसकेभ्यः अविस्मरणीयम् अनुभवं प्रदातुं, भारते टेनिसप्रतिभायाः व्यापक-तायाः उत्सवं समाचरितुं तथा च अन्यस्मिन् रोमाञ्चकारीसत्रे उत्कृष्टान् क्रीडका: एकत्र आनेतुं वयं उत्सुकाः स्मः।”

आयोजकानाम् अनुसारं वैश्विकस्तरे वर्धमानलोकप्रियतायाः भारते च सुदृढीभवतः टेनिसक्रीडायाः आधारभूत-संरचनायाः मध्ये डब्ल्यूटीएल अन्तारा-ष्ट्रियटेनिसक्रीडां भारतीयप्रशंसकानां समीपम् आनेतुं मञ्चरूपेण विकसितवती अस्ति। तथैव भारतीयानाम् उदयमान-क्रीडकाणां कृते वैश्विकस्तरे स्वप्रतिभां प्रदर्शयितुम् अपि अवसरं ददाति। पञ्चमसत्रस्य क्रीडकाणान दलानां च पूर्णसूची अग्रिमेषु दिनेषु घोषयिष्यते।

Hindusthan Samachar / Divya Ranjan