Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 12 नवंबरमासः (हि.स.)।
जनपदस्य सुल्तानगञ्जप्रखण्डान्तर्गतं खानपुरोच्चविद्यालये जनपदप्रशासनस्य महत्त्वाकाङ्क्षिणः ‘कायाकल्पाभियानस्य’ अन्तर्गतं विद्यालयभवनस्य सौन्दर्यीकरणस्य रङ्गलेपनस्य च कार्यं सफलतया सम्पूर्णम् अभवत्। अस्य अभियानस्य अन्तर्गतं भवनस्य जीर्णानां पुरातनानां च भित्तीनां मरम्मतं कृत्वा आकर्षकं रङ्गलेपनं च कृतम्, येन सम्पूर्णं विद्यालयपरिसरं नवीनं स्वच्छं च स्वरूपं प्राप्तवान्।
प्राप्तसंसूचनानुसारं सौन्दर्यीकरणकार्यतः पूर्वं विद्यालयभवनस्य बाह्यभित्तयः अत्यन्तं पुरातनाः मलिनवर्णाश्च दृश्यन्ते स्म। कायाकल्पाभियानस्य अन्तर्गतं सम्पन्नस्य जीर्णोद्धारकार्यस्य अनन्तरं सम्प्रति विद्यालयभवनस्य स्वरूपं पूर्णतया परिवर्तितम् अस्ति। पूर्वापेक्षया विद्यालयपरिसरः अधुना अधिकं सुव्यवस्थितः, सुन्दरः आकर्षकश्च दृश्यते, येन शिक्षकाणां विद्यार्थिनां च उत्साहः वर्धितः अस्ति।
जनपदप्रशासनस्य अस्याः पहलस्य प्रमुखम् उद्देश्यम् शासकीयविद्यालयेषु गुणवत्तापूर्णस्य उत्तमस्य च शैक्षणिकवातावरणस्य विकासः अस्ति। प्रशासनद्वारा कायाकल्पाभियानस्य माध्यमेन निरन्तरं शासकीयविद्यालयानाम् आधारभूतसंरचनासु सुधारः सौन्दर्यीकरणकार्यं च क्रियते, येन बालकेभ्यः अध्ययनार्थं स्वच्छं सुरक्षितं सकारात्मकं च वातावरणं प्राप्येत।
---------------
Hindusthan Samachar / Dheeraj Maithani