Enter your Email Address to subscribe to our newsletters

इलाहाबाद विश्वविद्यालयात् बीएससी, एमएससी इत्यनन्तरं विद्यावारिधिरिति उपाधिः प्राप्तः
मीरजापुरम्, १२ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदस्य हलियाक्षेत्रान्तर्गतस्य भटवारीग्रामस्य सइरीमोहल्लानिवासी दिनेशमौर्यस्य राजकीयान्तर्विद्यालये (जीआईसी) एलटी ग्रेड गणितप्रवक्ता पदे चयनं जातम्। तस्य अस्याः उपलब्धेः कारणात् परिवारेण सह ग्रामे सम्पूर्णे च क्षेत्रे प्रसन्नतायाः वातावरणं वर्तते।
दिनेशः प्रारम्भिकशिक्षां ग्रामस्य विद्यालयात् प्राप्तवान्। ततः प्रयागराजविश्वविद्यालयात् बीएससी तथा एमएससी इति उपाध्योः अध्ययनं पूर्णम् अकरोत्। शिक्षायां निष्ठया निरन्तरपरिश्रमेण च तेन तस्मादेव विश्वविद्यालयात् पीएचडी इत्युपाधिरपि प्राप्ता। अधुना राजकीयान्तर्विद्यालये गणितप्रवक्तापदे चयनितः सः ग्रामस्य क्षेत्रस्य च गौरवं वर्धितवान्।
दिनेशस्य मातापितरौ कृषकौ स्तः। तस्य पिता दयासागरः उर्फ मखोली मौर्यः अस्ति। दिनेशः स्वस्य सफलतायाः श्रेयः मातापित्रोः, गुरूणां तथा परिवारजनानां च प्रदत्तवान्। तेन उक्तं यत् नियमिताध्ययनेन, कठिनपरिश्रमेण तथा वरिष्ठानां मार्गदर्शनेन एतत् स्थानं प्राप्तम्। तस्य ज्येष्ठपितरौ रामसागरमौर्यः शिवलालमौर्यः तथा पितृव्यः राजेश्वरमौर्यः इत्यादयः परिवारजनाः अपि समये समये तस्मै सहकारितां प्रदत्तवन्तः। ग्रामवासिभिः तस्य सफलतां क्षेत्रस्य युवजनानां कृते प्रेरणादायिनी उक्ता।
Hindusthan Samachar / Dheeraj Maithani