राष्ट्रं धर्मश्च सर्वोपरि विद्यते- स्वामी विज्ञानानंदः
हरिद्वारम्, 12 नवंबरमासः (हि.स.)। श्रीगीताविज्ञानाश्रमस्य परमाध्यक्षः महामण्डलेश्वरः स्वामी विज्ञानानन्दसरस्वतीमहाराजः अवदत् यत् राष्ट्रं धर्मश्च सर्वोपरि स्तः। यः राजा अथवा शासकः राष्ट्रधर्मस्य निर्वहणं करोति, तेन प्रजा प्रसन्ना भवति। विष्णुगार
स्वामी विज्ञानानंद जी महाराज


हरिद्वारम्, 12 नवंबरमासः (हि.स.)।

श्रीगीताविज्ञानाश्रमस्य परमाध्यक्षः महामण्डलेश्वरः स्वामी विज्ञानानन्दसरस्वतीमहाराजः अवदत् यत् राष्ट्रं धर्मश्च सर्वोपरि स्तः। यः राजा अथवा शासकः राष्ट्रधर्मस्य निर्वहणं करोति, तेन प्रजा प्रसन्ना भवति।

विष्णुगार्डनस्थिते गीताविज्ञानाश्रमे धर्मग्रन्थानां मानवजीवनस्य च विषये आयोजितां कार्यशालां सम्बोधयन् ते अवदन् यत् मर्यादापुरुषोत्तमः भगवान् श्रीरामः अवतारीपुरुषत्वेन सह उत्तमशासकः अपि आसीत्। अत एव सः राजा रामचन्द्रः इति नाम्ना सम्बोध्यते।

उत्तमशासकस्य गुणानां व्याख्यानं कुर्वन् स्वामी विज्ञानानन्दः अवदत् यत् सनातनधर्मस्य सर्वे देवदेवताः किञ्चित् न किञ्चित् अस्त्रशस्त्रं धारयन्ति एव। राज्ञा मालां भालं च उभयं स्वजीवने आत्मसात् करणीयम्।

भगवतः श्रीरामस्य गुणानां वर्णनं कुर्वन् ते अवदन् यत् मधुरभाषित्वम्, बलवत्त्वम्, निर्मलता, मर्मज्ञता, दूरदर्शिता, सहनशीलता, धर्मज्ञता तथा राजनीतिज्ञता इत्यादयः सर्वे गुणाः भगवति श्रीरामे विद्यमानाः आसन्। स्वस्य जनहानिं धनहानिं च विना वन्यजीवानां सेनां निर्माय लङ्कायाः विजयः इत्यादीनां बहूनां प्रसङ्गानां विस्तरेण वर्णनं कुर्वन् ते अवदन् यत् यदा धर्मस्य हानिः भवति, तदा भगवान् कस्यचित् न कस्यचित् रूपेण अवतीर्य जनसामान्यस्य कल्याणं करोति।

ते अवदन् यत् अधुना सः समयः समागच्छति, यदा दुष्प्रवृत्तीनां शमनं भविष्यति तथा सत्पुरुषाणां कल्याणं भविष्यति। अस्मिन्नवसरे अनेके सन्तः, विद्वांसः, कथावाचकाः आचार्याश्च स्वविचारान् प्रस्तुतवन्तः। कार्यक्रमस्य सञ्चालनं हरिकेशब्रह्मचारिणा कृतम्।

Hindusthan Samachar / Dheeraj Maithani