राष्ट्रस्य समुचितविकासाय सन्तानां राजनीतिकसहभागिता आवश्यकी : डॉ. सन्तोषानन्दः
हरिद्वारम्, 12 नवंबरमासः (हि.स.)। राष्ट्रस्य उत्थाने, सामाजिकसमरसतायां समग्रविकासे च सन्तसमाजस्य सक्रियः सहभागः आवश्यकः अस्ति। अतः राजनैतिकदलैः सन्तबहुलक्षेत्रेभ्यः योग्येभ्यः अनुभवीभ्यश्च सन्तेभ्यः निर्वाचनक्षेत्रे प्रत्याशित्वेन अवतरणस्य अवसरः
स्वामी संतोष आनंद जी महाराज


हरिद्वारम्, 12 नवंबरमासः (हि.स.)।

राष्ट्रस्य उत्थाने, सामाजिकसमरसतायां समग्रविकासे च सन्तसमाजस्य सक्रियः सहभागः आवश्यकः अस्ति। अतः राजनैतिकदलैः सन्तबहुलक्षेत्रेभ्यः योग्येभ्यः अनुभवीभ्यश्च सन्तेभ्यः निर्वाचनक्षेत्रे प्रत्याशित्वेन अवतरणस्य अवसरः प्रदातव्यः। इति विचारं श्रीअवधूतमण्डलाश्रमस्य बाबा हीरादासहनुमानमन्दिरस्य पीठाधीश्वरः महन्तः डॉ. स्वामी सन्तोषानन्ददेवमहाराजः पत्रकाराणां कृते प्रसारिते वक्तव्ये व्यक्तवान्।

ते अवदन् यत् उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अस्य सशक्तम् उदाहरणम् अस्ति। तस्य नेतृत्वे उत्तरप्रदेशेन विकासस्य विधिव्यवस्थायाश्च क्षेत्रयोः उल्लेखनीया प्रगतिः प्राप्ता। एतेन सिद्धं भवति यत् सन्तसमाजस्य जनाः राजनीतेः प्रशासनस्य च माध्यमेन अपि जनकल्याणे राष्ट्रनिर्माणे च महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति।

ते अवदन् यत् यदि देशस्य अन्येषु राज्येष्वपि सन्तेभ्यः राजनैतिकप्रतिनिधित्वस्य अवसरः प्राप्येत, तर्हि राष्ट्रस्य समुचितविकासाय नूतना दिशा प्राप्तुं शक्यते। ते सर्वेभ्यः राजनैतिकदलेभ्यः आग्रहं कृतवन्तः यत् सम्पूर्णे भारते सन्तबहुलक्षेत्राणां परिचयं कृत्वा योग्येभ्यः सन्तेभ्यः निर्वाचनाय दलस्य प्रत्याशित्वं प्रदीयेत, येन राष्ट्रनिर्माणे सन्तसमाजस्य सहभागिता अधिकं प्रभावशालिनी भवेत्।

Hindusthan Samachar / Dheeraj Maithani