Enter your Email Address to subscribe to our newsletters


विशाखापत्तनम्, नवम्बरमास: १२ दिनाङ्कः (हि.स.)। आन्ध्रप्रदेशस्य मुख्यमन्त्री एन. चन्द्रबाबू नायडुः गुरुवासरे घोषणां कुर्वन् अवदत् यत् राज्यसर्वकारः राजनैतिकप्रतिशोधात् निवेशकानां रक्षणार्थं ‘निवेशसंरक्षणविधेयकम्’ आनेष्यति। सः केन्द्रसर्वकारम् अपि आग्रहं कृतवान् यत् देशस्य सर्वेषु भागेषु निवेशकेभ्यः अधिकं संरक्षणं विश्वासं च प्रदातुं राष्ट्रियस्तरे एतादृशः अधिनियमः आनेतव्यः।
चन्द्रबाबू नायडुः अवदत् यत् २०२४ तमस्य वर्षस्य जूनमासात् अद्यावधि आन्ध्रप्रदेशाय २२.६ लक्षकोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः सन्ति। एतेभ्यः अपि महत्त्वपूर्णं तथ्यम् अस्ति यत् एतेषु ७३ प्रतिशतं प्रतिबद्धताः अनुमोदितासु परियोजनासु परिणताः सन्ति। एतासां परियोजनानां व्ययः १७.२ लक्षकोटिरूप्यकाणि अस्ति तथा च एताभिः १२.७ लक्षजनानां कृते रोजगारस्य अवसराः सृजिताः भविष्यन्ति इति अपेक्षा अस्ति।
सः अवदत् यत् एतासु ५१ प्रतिशतं परियोजनाः धरातले कार्यान्वयनस्य अवस्थां प्राप्तवत्यः सन्ति। ५.९ लक्षकोटिरूप्यकाणां व्यययुक्तानां परियोजनानां निर्माणकार्यम् आरब्धम् अस्ति।
एतासु परियोजनासु ७.४ लक्षजनानां कृते रोजगारस्य अवसरान् सृजनस्य क्षमता अस्ति।
अस्याः घटनायाः पूर्वं केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः, मुख्यमन्त्री एन. चन्द्रबाबू नायडुः तथा उपमुख्यमन्त्री पवनकल्याणः च अत्र आरब्धस्य एकत्रिंशत्तमस्य भारतीय-उद्योग-सङ्घस्य सहभागिता-शिखरसम्मेलनस्य उद्घाटनावसरे नगारा-वादनं कृतवन्तः।
एते त्रयः नेतारः सम्मेलनस्य आयोजनस्थलस्य आन्ध्रविश्वविद्यालयस्य अभियांत्रिकीमहाविद्यालयस्य क्रीडाङ्गणस्य भ्रमणं कृतवन्तः तथा च विभिन्नानां सांस्कृतिकदलानां प्रस्तुतयः अपि दृष्टवन्तः।
Hindusthan Samachar / Divya Ranjan