काशीपुरस्य रुद्रपुरस्य च स्वच्छतासाधनाय मुख्यमन्त्रिणा प्रदत्तम् अभिनन्दनम्
देहरादूनम्, नवम्बरमासः १२ दिनाङ्कः (हि.स.)। स्वच्छसर्वेक्षणे २०२५-२६ मध्ये रुद्रपुरनगरे हिमालयीयराज्यानां श्रेण्यां प्रथमपुरस्कारः तथा काशीपुरनगरे उत्तराखण्डप्रदेशे प्रथमपुरस्कारः प्राप्तः। एतदुपलक्ष्ये मुख्यमन्त्री पुष्करसिंहधामी उभयोः नगरनिकाययोः
मुख्यमंत्री आवास में काशीपुर के महापौर दीपक बाली और रुद्रपुर के महापौर विकास शर्मा के नेतृत्व में प्रतिनिधिमंडल  मुख्यमंत्री से मुलाकात करते हुए।


देहरादूनम्, नवम्बरमासः १२ दिनाङ्कः (हि.स.)। स्वच्छसर्वेक्षणे २०२५-२६ मध्ये रुद्रपुरनगरे हिमालयीयराज्यानां श्रेण्यां प्रथमपुरस्कारः तथा काशीपुरनगरे उत्तराखण्डप्रदेशे प्रथमपुरस्कारः प्राप्तः। एतदुपलक्ष्ये मुख्यमन्त्री पुष्करसिंहधामी उभयोः नगरनिकाययोः जनप्रतिनिधीन्, अधिकारिणः स्वच्छताकर्मिणश्च अभिनन्दितवान्।

सः अवदत् यत् स्वच्छताक्षेत्रे उत्तराखण्डस्य नगराणाम् एषा उपलब्धिः सम्पूर्णस्य प्रदेशस्य गौरवस्य विषयः अस्ति।

मुख्यमन्त्रिणः आवासे गुरुवासरे काशीपुरस्य महापौरः दीपकबाली तथा रुद्रपुरस्य महापौरः विकासशर्मा इत्येतयोः नेतृत्वे प्रतिनिधिमण्डलेन मुख्यमन्त्रिणा सह मेलनं कृत्वा उभयोः नगरयोः प्राप्तानां उपलब्धीनां विषये सूचितम्।

उल्लेखनीयं यत् नवदिल्ल्यां बुधवासरे आयोजिते कार्यक्रमे केन्द्रीय-आवास-नगरकार्य-मन्त्रालयेन स्वच्छसर्वेक्षणस्य २०२५-२६ इत्यस्य अन्तर्गतं काशीपुरनगराय उत्तराखण्डप्रदेशे प्रथमस्थानस्य पुरस्कारः तथा रुद्रपुरनगराय हिमालयीयराज्यानां श्रेण्यां प्रथमस्थानस्य पुरस्कारः प्रदत्तः। नगरस्वच्छतायां स्वच्छताप्रबन्धने च कृतेषु सुधारेषु एतं सम्मानं प्रदत्तम्।

मुख्यमन्त्री अवदत् यत् एषा उपलब्धिः जनप्रतिनिधीनाम्, प्रशासनस्य, कर्मचारिणां सामान्यनागरिकाणां च सामूहिकप्रयासानां परिणामः अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शने स्वच्छभारताभियानेन देशे स्वच्छतायाः जनान्दोलनस्य स्वरूपं प्रदत्तम्। राज्यसर्वकारः अपि स्वच्छाणां, स्वस्थाणां सुन्दराणां च नगराणां निर्माणाय प्रयत्नशीलः अस्ति।

सः अवदत् यत् स्वच्छता केवलं सर्वकारीययोजनासु एव सीमिता नास्ति, अपितु प्रत्येकं नागरिकस्य दायित्वं जीवनशैल्याश्च अभिन्नः भागः भवितव्या। नगरीयक्षेत्रेषु अपशिष्टस्य वैज्ञानिकरीत्या निस्तारणम्, प्रभाविणः अपशिष्टप्रबन्धनस्य व्यवस्था सार्वजनिकस्थानानां नियमितं स्वच्छीकरणं च आवश्यकम् अस्ति।

मुख्यमन्त्री प्रदेशस्य अन्येभ्यः नगरनिकायेभ्यः काशीपुर-रुद्रपुरनगराभ्यां प्रेरणां गृहीत्वा स्वच्छताक्षेत्रे श्रेष्ठं प्रदर्शनं कर्तुम् आह्वानं कृतवान्।

अस्मिन् अवसरे नगरविकासविभागस्य निदेशकः विनोदगोस्वामी, काशीपुरस्य नगरायुक्तः रवीन्द्रबिष्टः, रुद्रपुरस्य नगरायुक्ता शिप्राजोशी, स्वच्छभारताभियानस्य २.० इत्यस्य राज्य-मिशन-प्रबन्धकः मनोजपाण्डेयः तथा सचिवः नीतेशझा च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan