मर्यादानां पालनं सन्तानां कृते सर्वोपरि – सुमितानन्दः
हरिद्वारम्, १२ नवम्बरमासः (हि.स.)। श्रीमहामण्डलेश्वरस्य इन्द्रदेवमहाराजस्य यौनशोषणसम्बद्धैः आरोपैः प्रसरितस्य अनन्तरं सन्तसमाजे वक्तव्यप्रतिवक्तव्य-क्रमः तीव्रः अभवत्। एतस्मिन्नेव मध्ये अग्निअखाडायाः सचिवः स्वामी सुमितानन्दमहाराजः एकं वक्तव्यं दत्त
सुमितानंद


हरिद्वारम्, १२ नवम्बरमासः (हि.स.)। श्रीमहामण्डलेश्वरस्य इन्द्रदेवमहाराजस्य यौनशोषणसम्बद्धैः आरोपैः प्रसरितस्य अनन्तरं सन्तसमाजे वक्तव्यप्रतिवक्तव्य-क्रमः तीव्रः अभवत्। एतस्मिन्नेव मध्ये अग्निअखाडायाः सचिवः स्वामी सुमितानन्दमहाराजः एकं वक्तव्यं दत्तवान्, येन सन्तसमाजे नूतना चर्चा प्रारब्धा। तेन साधुत्वग्रहणात् पूर्वं नसबन्दी अनिवार्यां कर्तुं याचना उत्थापिता। स्वामी सुमितानन्दस्य कथनम् अस्ति यत् विगतेषु कतिपयेषु कालेषु सन्तानां कथावाचकानां च विरुद्धं यौनशोषणादिसम्बद्धाः गम्भीराः आरोपाः भवन्ति।

एतेन न केवलं सम्बन्धितस्य सन्तस्य छविः मलिना भवति, अपितु सम्पूर्णस्य सन्तसमाजस्य सनातनपरम्परायाः च प्रतिष्ठायामपि प्रश्नाः उत्थाप्यन्ते। एतादृशानां घटनानां निवारणाय दृढपदानि स्वीकर्तुम् आवश्यकता अस्ति। तेन सुझावः दत्तः यत् यः कोऽपि साधुसन्तः भवितुम् इच्छति, तेन संन्यासग्रहणात् पूर्वं नसबन्दी कारयितव्या अनिवार्या भवेत्। अपि च साधुत्वग्रहणस्य प्रक्रियायां नसबन्द्याः प्रमाणपत्रं प्रस्तुतं कर्तुं व्यवस्था अपि प्रवर्तनीया। तस्य मतेन एतेन सन्तानां विरुद्धं क्रियमाणानाम् आरोपाणां नियन्त्रणं सम्भविष्यति।

स्वामी सुमितानन्दः संन्यासस्य प्राचीन-परम्परायाः उल्लेखं कुर्वन् अवदत् यत् पूर्वं संन्यासग्रहणसमये नाडीनिग्रहस्य परम्परा आसीत्, या अधुना प्रायः समाप्ता अस्ति। तस्याः परम्परायाः स्थाने अधुना नसबन्दीं अनिवार्यां कर्तुं विचारः करणीयः। सः अवदत् यत् सन्तस्य जीवनं त्यागस्य, तपस्यायाः, संयमस्य, ब्रह्मचर्यस्य च आधारेण भवति।

सन्तत्वं स्वीक्रियमाणेन एतासां मर्यादानां पालनं सर्वोपरि कर्तव्यम्। यौनशोषणस्य आरोपाः पुनः पुनः उद्भवन्ति चेत् समाजे अनुचितः सन्देशः प्रसारितः भवति। अतः सन्तसमाजेन आत्मचिन्तनं कृत्वा एतादृशी व्यवस्था निर्मातव्या, येन भविष्ये एतादृशेभ्यः विवादेभ्यः परिहर्तुं शक्यते।

Hindusthan Samachar / Divya Ranjan