छठपर्वणः प्रथमवारम् अनुभवं प्राप्य भावविह्वलः अभवत् आयुष्मान् खुराना।
मुंबई, 13 नवंबरमासः (हि.स.)। अभिनेता आयुष्मान खुराना प्रथमवारं छठपूजायाः उत्सवेन परम्पराभिश्च सह सम्बद्धः अभवत्। सूरज बड़जात्या इत्यस्य आगामीचलचित्रस्य ‘ये प्रेम मोल लिया’ इत्यस्य ‘बुलाए छठी मां’ इति गीतस्य चित्राङ्कनावसरे तस्मै अस्य पर्वणः समीपत
आयुष्मान खुराना, शारवरी - फोटो सोर्स एक्स


मुंबई, 13 नवंबरमासः (हि.स.)।

अभिनेता आयुष्मान खुराना प्रथमवारं छठपूजायाः उत्सवेन परम्पराभिश्च सह सम्बद्धः अभवत्। सूरज बड़जात्या इत्यस्य आगामीचलचित्रस्य ‘ये प्रेम मोल लिया’ इत्यस्य ‘बुलाए छठी मां’ इति गीतस्य चित्राङ्कनावसरे तस्मै अस्य पर्वणः समीपतः परिचयं प्राप्तुं तस्य च अनुभवं कर्तुं अवसरः प्राप्तः।

पञ्जाबीपरिवारात् आगतः आयुष्मानः अवदत् यत् अस्मात् पूर्वं तेन कदापि छठपूजा न आयोजिता आसीत्। अतः अस्य उत्सवस्य अनुष्ठानानि, श्रद्धां भक्तिं च जनानां मध्ये तस्य भावनात्मकं महत्त्वं च अवगन्तुं तस्य कृते अतीव विशिष्टः अनुभवः आसीत्।

आयुष्मानः स्वानुभवं वर्णयन् अवदत् यत् छठपूजायाः प्रत्येकस्य अनुष्ठानस्य पृष्ठे गहनश्रद्धा भक्तिश्च निहिता अस्ति। अस्य पर्वणः सर्वाधिकं विशिष्टं वैशिष्ट्यं तेन एतत् अनुभूतं यत् एतत् जनान् परस्परं संयोजयति। अभिनेतुः मतानुसारं तस्य कृते एषः केवलं गीतस्य चित्राङ्कनस्य अवसरः नासीत्, अपितु तादृश्याः परम्परायाः अङ्गीभवनस्य अवसरः आसीत्, यस्याः विषये सः पूर्वं परिचितः नासीत्। तेन कथितं यत् छठपूजायाः विशेषदृश्यस्य चित्राङ्कनात् पूर्वं निर्देशकः सूरज बड़जात्या सम्पूर्णां कलाकारमण्डलीम् एकत्र आहूय छठपूजायाः गीतं श्रावितवान्। अयं क्षणः एतावान् भावुकः आसीत् यत् सर्वेषां नेत्राणि सजलानि अभवन्। अनेन अनुभवेण तस्य कृते सम्पूर्णं दृश्यम् अधिकं स्मरणीयम् अभवत्।

‘बुलाए छठी मां’ इति गीतस्य माध्यमेन चलचित्रे छठपूजायाः श्रद्धा, परम्पराः सामूहिकभावना च प्रदर्शिताः सन्ति। एतत् पर्व विशेषतः बिहार, झारखण्ड, उत्तरप्रदेशे छत्तीसगढे च श्रद्धया आचर्यते, तथापि देशस्य अन्येष्वपि बहुषु प्रदेशेषु अस्य व्यापकः प्रचलनः अस्ति। ‘ये प्रेम मोल लिया’ इति चलचित्रे आयुष्मानस्य सह शरवरी अपि दृश्यते। अस्य चलचित्रस्य माध्यमेन सः प्रथमवारं सूरज बड़जात्या इत्यस्य निर्देशनकार्ये कार्यं कुर्वन् अस्ति। बड़जात्या स्वचलचित्रेषु परिवाराय, सम्बन्धेभ्यः भारतीयपरम्पराभ्यश्च विशेषं स्थानं दातुं प्रसिद्धः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani