अडाणी एनर्जी सॉल्यूशंस इत्यनया ३,०५० कोटिरूप्यकैः इंटेलीस्मार्ट-संस्थायाः अधिग्रहणं कृतम्
नवदिल्ली, १३ नवम्बरमासः (हि.स.)। अडाणी-समूहस्य निर्माण्या अडाणी एनर्जी सॉल्यूशंस् लिमिटेड् इत्यनया राष्ट्रिय-निवेश-अवसंरचना-कोषात् तथा एनर्जी एफिशिएन्सी सर्विसेज लिमिटेड् इत्याभ्यां ३,०५० कोटिरूप्यकैः इंटेलीस्मार्ट इन्फ्रास्ट्रक्चर प्राइवेट लिमिटेड
अडाणी एनर्जी सॉल्यूशंस लिमिटेड के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, १३ नवम्बरमासः (हि.स.)। अडाणी-समूहस्य निर्माण्या अडाणी एनर्जी सॉल्यूशंस् लिमिटेड् इत्यनया राष्ट्रिय-निवेश-अवसंरचना-कोषात् तथा एनर्जी एफिशिएन्सी सर्विसेज लिमिटेड् इत्याभ्यां ३,०५० कोटिरूप्यकैः इंटेलीस्मार्ट इन्फ्रास्ट्रक्चर प्राइवेट लिमिटेड् इत्यस्याः निर्माण्याः अधिग्रहणं कृतम्।

शेयर-विपण्यै प्रदत्तायां सूचनायाम् अडाणी एनर्जी सॉल्यूशंस लिमिटेड् उक्तवती यत् तया एनआईआईएफ तथा ईईएसएल इत्याभ्यां इंटेलीस्मार्ट-संस्थायाः शत-प्रतिशत-शेयरपूञ्ज्याः अधिग्रहणं सम्पूर्णं कृतम्। तेन सह एनआईआईएफ-संस्थायाः स्वामित्वे विद्यमानानां इंटेलीस्मार्ट-संस्थायाः वैकल्पिकरूपेण परिवर्तनीय-ऋणपत्राणाम् अपि भुक्तिः कृता। अस्मिन् ३,०५० कोटिरूप्यकाणां व्यवहारे इंटेलीस्मार्ट-संस्थायाः शत-प्रतिशत-शेयरपूञ्ज्याः अधिग्रहणम् तथा एनआईआईएफ-संस्थायाः स्वामित्वे विद्यमानानां वैकल्पिकरूपेण परिवर्तनीय-ऋणपत्राणां भुक्तिः च अन्तर्भवति। निर्माण्या उक्तं यत् अनेन व्यवहारेण अडाणी-समूहस्य स्मार्ट-मीटरिङ्ग्-क्षेत्रे उपस्थितिः वर्धिष्यते।

अडाणी-समूहेन उक्तं यत् अस्मात् पूर्वं ३० अक्टोबर् दिनाङ्के निष्पक्ष-व्यापार-नियामकेन भारतीय-प्रतिस्पर्धा-आयोगेन अडाणी एनर्जी सॉल्यूशंस् इत्यस्य इंटेलीस्मार्ट इन्फ्रास्ट्रक्चर-संस्थायाः अधिग्रहणप्रस्तावाय अनुमतिः प्रदत्ता आसीत्। इंटेलीस्मार्ट इन्फ्रास्ट्रक्चर विद्युत्सम्बद्धायाः उन्नत-मीटरिङ्ग्-अवसंरचनायाः व्यवस्था करोति तथा च देशे कतिपयानि स्मार्ट-गैस-मीटराणि अपि स्थापयति। एनआईआईएफ भारतस्य सार्वभौम-समर्थनप्राप्तः वैकल्पिक-सम्पत्ति-प्रबन्धकः अस्ति, यदा तु ईईएसएल विद्युत्-मन्त्रालयस्य अधीन-स्थानां प्रमुखाणां सार्वजनिकक्षेत्रीय-उपक्रमाणां संयुक्तोपक्रमः अस्ति।

अडाणी एनर्जी सॉल्यूशंस् लिमिटेड् देशे विद्युत्-पारेषणस्य वितरणस्य च तथा उन्नत-मीटरिङ्ग्-अवसंरचनायाः स्थापनायाः व्यवसाये संलग्ना अस्ति। एषा उद्योगपतिना गौतम-अडाणी-महोदयेन नेतृत्वं क्रियमाणस्य अडाणी-समूहस्य भागः अस्ति।

Hindusthan Samachar / Divya Ranjan