‘नीतीशसेतुः’ बिहारस्य विकासाय सम्पर्कव्यवस्थायै च नूतनां गतिं प्रदास्यति : सञ्जयसरावगी
सेतोः ‘नीतीशसेतुः’ इति नामकरणे मुख्यमन्त्रिणे राजग-सर्वकाराय च भाजपाप्रदेशाध्यक्षेण कृतज्ञता प्रकटिता। नवम्बरमासस्य २१ दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी षट्पङ्क्तिमार्गीयसेतोः उद्घाटनं करिष्यति। पटना, १३ नवम्बरमासः (हि.स.)। बिहारस्य भारतीयजनताप
संजय सरावगी


सेतोः ‘नीतीशसेतुः’ इति नामकरणे मुख्यमन्त्रिणे राजग-सर्वकाराय च भाजपाप्रदेशाध्यक्षेण कृतज्ञता प्रकटिता।

नवम्बरमासस्य २१ दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी षट्पङ्क्तिमार्गीयसेतोः उद्घाटनं करिष्यति।

पटना, १३ नवम्बरमासः (हि.स.)। बिहारस्य भारतीयजनतापक्षस्य प्रदेशाध्यक्षः सञ्जय-सरावगी कच्चीदरगाह-राघोपुर-बिदुपुर षट्पङ्क्तिमार्गीयसेतोः ‘नीतीशसेतुः’ इति नामकरणं कृतमिति विषये मुख्यमन्त्रिणे सम्राट्चौधरीमहोदयाय राष्ट्रिय-जन-तान्त्रिक-गठबन्धनस्य सर्वकाराय च कृतज्ञतां प्रकटितवान्।

शुक्रवासरे सः अवदत् यत् एषः निर्णयः बिहारस्य विकासे महत्त्वपूर्णं योगदानं प्रददतः नेतृत्वं प्रति सम्मानस्य प्रतीकः अस्ति। ‘नीतीशसेतुः’ राज्यस्य विकास-यात्रायां नूतनं परिचयं स्थापयिष्यति तथा च आधुनिक-आधारभूतसंरचनायाः सुदृढा श्रृंखला सिद्धा भविष्यति।

सरावगी उक्तवान् यत् भाजपायाः राजग-सर्वकारस्य च प्राथमिकता बिहारं विकासस्य, उत्तम-सम्पर्कव्यवस्थायाः समृद्धेः च नूतनानि सोपानानि प्रापयितुम् अस्ति। कच्चीदरगाह-राघोपुर-बिदुपुर षट्पङ्क्तिमार्गीयसेतुः उत्तरबिहारस्य दक्षिणबिहारस्य च मध्ये आवागमनं सुगमं करिष्यति। अनेन न केवलं यात्रायाः समयः न्यूनः भविष्यति, अपितु व्यापारः, कृषिः, उद्योगाः, स्थानीय-आर्थिकक्रियाकलापाः च गतिं प्राप्स्यन्ति।

सः अवदत् यत् बिहारस्य विकासाय नूतनां गतिं समृद्धये च नूतनम् आयामं प्रदातुम् उद्दिश्य नवम्बरमासस्य २१ दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी बिहारम् आगमिष्यति। अस्मिन्नवसरे प्रधानमन्त्री अस्य महत्त्वाकाङ्क्षिणः षट्पङ्क्ति-मार्गीयस्य ‘नीतीशसेतोः’ बिहारवासिभ्यः समर्पणं करिष्यति। एषः राज्यस्य गौरवपूर्णः क्षणः भविष्यति।

भाजपाप्रदेशाध्यक्षः उक्तवान् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे मुख्यमन्त्रिणः सम्राट्चौधरी-महोदयस्य मार्गदर्शने च राजग-सर्वकारः बिहारं विकसितराज्यं कर्तुं सङ्कल्पेन निरन्तरं कार्यं कुर्वन् अस्ति। ‘नीतीशसेतुः’ एतस्यैव सङ्कल्पस्य, विकासप्रति प्रतिबद्धतायाः बिहारस्य उज्ज्वलभविष्यस्य च दिशि महत्त्वपूर्णा उपलब्धिः अस्ति।

Hindusthan Samachar / Divya Ranjan