Enter your Email Address to subscribe to our newsletters

केन्द्रीय-उपभोक्ता-संरक्षण-प्राधिकरणेन एतां प्रथां समापयितुं मञ्चाय निर्देशः प्रदत्तः
नवदिल्ली, १३ नवम्बरमासः (हि.स.)। देशस्य प्रमुखस्य वाहन-यात्रा-सेवाप्रदातुः ओला-मञ्चस्य कृते यात्रायाः आरम्भात् पूर्वं ग्राहकेभ्यः अतिरिक्तधनस्य याचनं महत् व्ययसाध्यम् अभवत्। केन्द्रीय-उपभोक्ता-संरक्षण-प्राधिकरणेन ओला-मञ्चस्य सञ्चालकाय एएनआई टेक्नोलॉजीज् प्राइवेट् लिमिटेड् इत्यस्मै १० लक्षरूप्यकाणां दण्डः आरोपितः। तेन सह एतां प्रथां समापयितुमपि निर्देशः प्रदत्तः।
उपभोक्ता-कार्यार्थं खाद्य-सार्वजनिक-वितरण-मन्त्रालयस्य अनुसारं मुख्या-युक्तायाः निधिखरेमहोदयायाः आयुक्तस्य अनुपममिश्रमहोदयस्य च अध्यक्षतायां स्थितेन प्राधिकरणेन एषः आदेशः तस्याः सुविधायाः परीक्षणानन्तरं पारितः, या चालकस्य अन्वेषणसमये ग्राहकान् अर्थात् उपभोक्तॄन् अतिरिक्त-धनस्य भुक्त्यर्थं प्रेरयति स्म। अस्याः सुविधायाः माध्यमेन अतिरिक्तभुक्त्या शीघ्रं यात्रासेवा प्राप्तुं सम्भावना वर्धते इति सूच्यते स्म। यद्यपि ओला-मञ्चेन अनन्तरं ‘टिप्’ इति नाम परिवर्त्य ‘ऐड्-ऑन्’ इति कृतम्, तथापि तस्याः पृष्ठतः स्थिता मूलप्रथा अपरिवर्तितैव आसीत्।
मन्त्रालयेन उक्तं यत् केन्द्रीय-उपभोक्ता-संरक्षण-प्राधिकरणेन एतत् उपभोक्तॄन् भ्रमयन्तम् अनुचितं व्यापारिकाचरणम् इति मन्यते, येन भ्रमः उत्पद्यते। प्राधिकरणेन निर्माणीं यात्रायाः पूर्वं ‘टिप्’ अर्थात् ‘ऐड्-ऑन्’ सुविधायाः माध्यमेन ग्राहकाणाम् अतिरिक्तधनस्य याचन-प्रक्रियां तत्कालं समापयितुं निर्देशः प्रदत्तः। मन्त्रालयस्य कथनानुसारं सीसीपीए इत्यस्य मते एषा पद्धतिः उपभोक्तॄन् भ्रमयति तथा च अनुचितव्यापाराचरणस्य ‘डार्क् पैटर्न्’ इत्यस्य च श्रेण्याम् अन्तर्भवति।
केन्द्रीय-उपभोक्तृकार्य-खाद्य-सार्वजनिक-वितरणमन्त्री प्रल्हादजोशी उक्तवान् यत् यात्रायाः पूर्वं भुक्त्यर्थं भ्रामक-सन्देशानां प्रदर्शनकारणेन अयं दण्डः आरोपितः तथा च प्राधिकरणेन एतां सुविधां निरोद्धुमपि निर्देशः प्रदत्तः। सः अवदत् यत् ‘डार्क् पैटर्न्’ इत्यादिनाम् अनुचितप्रथानां भ्रामककथनानां च विरुद्धं मन्त्रालयस्य एषः कठोरः उपायः अस्ति। अनेन उपभोक्तॄणाम् अधिकाराणां संरक्षणस्य पारदर्शितायाः सुनिश्चिती-करणस्य च प्रतिबद्धता पुनः दृढीक्रियते।
Hindusthan Samachar / Divya Ranjan