१६ तः १८ नवम्बरपर्यन्तं भविष्यति पौडी-शरदोत्सवः, सांस्कृतिकसन्ध्यासु हेमा नेगी करासी तथा किशनमहिपालः प्रस्तुतिं दास्यतः
पौडीगढवालम्, १३ नवम्बरमासः (हि.स.)। नगरपालिकया नवम्बरमासस्य १६ तः १८ दिनाङ्कपर्यन्तम् आयोज्यमाने शरदोत्सवे क्रीडायाः, सांस्कृतिककार्यक्रमाणां सृज-नात्मकप्रतियोगितानां च आयोजनं भविष्यति। शुक्रवासरे नगरपालिकायाः सभागारे पत्रकारसम्मेलनं सम्बोधयन्ती नग
पौड़ी में नगर पालिका सभागार में शरदोत्सव को लेकर प्रेस वार्ता करती नगर पालिका अध्यक्ष हिमानी नेगी


पौडीगढवालम्, १३ नवम्बरमासः (हि.स.)। नगरपालिकया नवम्बरमासस्य १६ तः १८ दिनाङ्कपर्यन्तम् आयोज्यमाने शरदोत्सवे क्रीडायाः, सांस्कृतिककार्यक्रमाणां सृज-नात्मकप्रतियोगितानां च आयोजनं भविष्यति। शुक्रवासरे नगरपालिकायाः सभागारे पत्रकारसम्मेलनं सम्बोधयन्ती नगरपालिकाध्यक्षया हिमानीनेगी इत्यनया उक्तं यत् शरदोत्सवस्य अन्तर्गतं पादकन्दुकस्पर्धा नवम्बरमासस्य १४ दिनाङ्कात् आरभ्यते।

सा अवदत् यत् नवम्बरमासस्य १६ दिनाङ्के मार्गसञ्चलनेन शोभायात्राभिश्च शरदोत्सवस्य शुभारम्भः भविष्यति। अस्मिन् अवसरे छायाचित्रकलायाः चित्रकलायाश्च प्रदर्शिनी तथा स्थानीय-शैक्षणिकसंस्थानानां सांस्कृतिकप्रस्तुतयः भविष्यन्ति। नवम्बरमासस्य १७ दिनाङ्के धावनस्पर्धा, सामान्यज्ञानप्रतियोगिता तथा पौडी-नगरस्य पर्यटनक्षेत्राय नूतनं परिचयं प्रदातुम् ‘पौडी एक पहल’ इत्यस्य अन्तर्गतं पर्यटनगोष्ठी आयोजयिष्यते। सायङ्काले उत्तराखण्डस्य लोकनृत्यानां प्रस्तुतयः भविष्यन्ति।

अपरतः नवम्बरमासस्य १८ दिनाङ्के वादविवादस्पर्धा, रज्जुकर्षणस्पर्धा, रङ्ग-वल्लीप्रतियोगिता तथा विचित्रवेषभूषा-प्रतियोगिताभिः सह सांस्कृतिकसन्ध्यायाः आयोजनं भविष्यति। अस्यां लोकगायिका हेमानेगी करासी, किशनमहिपालः, रेशमाशाह: तथा अमितसागरः स्वप्रस्तुतीः दास्यन्ति। एतदतिरिक्तं शिशुप्रदर्शनम्, सङ्गीतमय-आसनक्रीडा, मेहन्दी-प्रतियोगिता इत्यादयः विविधाः प्रतियोगिताः अपि आकर्षणस्य केन्द्रं भविष्यन्ति।

पत्रकारसम्मेलने कार्यपालकाधिकारी सञ्जयकुमारः, सभासदाः दिनेशबिष्टः, सुमित्रा नेगी, सुमन इत्यादयः अन्ये च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan