जन्मशताब्दीविशेषः : हिन्दूसमाजस्य आत्मबोधस्य, सांस्कृतिकपुनर्जागरणस्य भारतीय-राष्ट्रचेतनायाश्च सशक्तः विचारस्तम्भः
डॉ. मयङ्कचतुर्वेदी किं कश्चित् व्यक्तिः स्वजीवनस्य सम्पूर्णां शक्तिं तादृशस्य उद्देश्यस्य कृते समर्पयितुं शक्नोति, यस्य प्रतिफलरूपेण तस्मै कदापि व्यक्तिगतप्रतिष्ठा, सत्ता अथवा सम्पत्तिः न प्राप्यते? किं कश्चित् स्वविद्वत्तां, प्रतिभां, लेखनकौशलं स
एच.वी. शेषाद्रि


डॉ. मयङ्कचतुर्वेदी

किं कश्चित् व्यक्तिः स्वजीवनस्य सम्पूर्णां शक्तिं तादृशस्य उद्देश्यस्य कृते समर्पयितुं शक्नोति, यस्य प्रतिफलरूपेण तस्मै कदापि व्यक्तिगतप्रतिष्ठा, सत्ता अथवा सम्पत्तिः न प्राप्यते? किं कश्चित् स्वविद्वत्तां, प्रतिभां, लेखनकौशलं सङ्गठनक्षमतां च व्यापकस्य राष्ट्रियसङ्कल्पस्य माध्यमं कर्तुं शक्नोति?

एतेषां प्रश्नानाम् उत्तरं प्राप्तुं होङ्गसन्द्रवेङ्कटरमैयरूपेण प्रसिद्धस्य एच.वी. शेषाद्रिमहोदयस्य जीवनस्य अध्ययनम् आवश्यकम्। सहस्रशः स्वयंसेवकाः स्नेहेन सम्मानेन च यं शेषाद्रिजी इति सम्बोधयन्ति स्म। तस्य जीवनं बोधयति यत् राष्ट्राय समर्पणं जीवनस्य एका तादृशी साधना अस्ति, यस्यां व्यक्तिः स्वकीयसुखानि, महत्त्वाकाङ्क्षाः, सुविधाश्च अतिक्रम्य समाजस्य भविष्याय स्वात्मानं समर्पयति।

बेङ्गलूरुनगरे जातस्य शेषाद्रिमहोदयस्य जन्मशताब्दी (२०२६ तमवर्षे) अस्मिन् वर्षे आचर्यते। एषः अवसरः तस्य विचार-साधनायाः, बौद्धिकपरिश्रमस्य सङ्गठनात्मकतपस्यायाश्च अवगमनस्य अवसरः अस्ति, यया भारतीयसांस्कृतिक-चेतनायाः, हिन्दूसमाजस्य सङ्गठनस्य, राष्ट्रियास्मितायाश्च सम्बद्धेषु प्रश्नेषु अनेकदशकानि यावत् विमर्शः प्रभावितः अभवत्।

शेषाद्रिजी प्रायः एकं वाक्यं कथयति स्म—कस्यापि राष्ट्रस्य पुनरुत्थानं तस्य समाजस्य आत्मबोधेन आरभते। तस्य वैचारिकदृष्ट्या भारतस्य परिचयः तस्याः सनातनसांस्कृतिकपरम्परायाः, आध्यात्मिकचेतनायाः, हिन्दूजीवनदृष्ट्या च सह गभीरतया सम्बद्धः अस्ति। एतद्विचारम् अवगन्तुं हिन्दूजीवनेन सह तस्य साहित्यस्य अध्ययनमपि आवश्यकम्।

शेषाद्रिमहोदयस्य प्रतिभायाः परिचयः तस्य छात्रजीवनादेव प्राप्यते। तेन मैसूर-विश्वविद्यालयात् रसायनविज्ञाने स्नातको-त्तरपदवी स्वर्णपदकेन सह प्राप्ता। सामान्यपरिस्थितौ तस्य पुरतः विश्वविद्यालये, अनुसन्धानक्षेत्रे, प्रतिष्ठित-व्यावसायिकजीवने च अनेके अवसराः आसन्, किन्तु तेन स्वजीवनस्य मार्गः भिन्नः चयनितः। १९४६ तमे वर्षे सः राष्ट्रीयस्वयंसेवकसङ्घस्य पूर्णकालिकः प्रचारकः अभवत्। एतेन निर्णयेन तस्य व्यक्तिगतं जीवनं राष्ट्रकार्यस्य साधनायां समाहितम् अभवत्।

एतं निर्णयम् अवगन्तुं तत्समयस्य भारतम् अवगन्तव्यम्। देशः स्वातन्त्र्यस्य दिशि अग्रे सरति स्म। विभाजनस्य आशङ्काः गभीराः भवन्ति स्म। समाजः जाति-भाषा-क्षेत्र-धार्मिकपरिचयादीनाम् आधारेण अनेकैः अन्तर्विरोधैः पीडितः आसीत्। औपनिवेशिकशासनेन भारतीयेतिहासस्य, शिक्षायाः, सांस्कृतिकपरम्पराणां च व्याख्यायामपि प्रभावः कृतः आसीत्। एतादृशे वातावरणे शेषाद्रिजी सङ्गठनं सामाजिकजागरणस्य सांस्कृतिका-त्मविश्वासस्य च माध्यमरूपेण अपश्यत्।

तस्य दृष्ट्या भारतस्य राष्ट्रियत्वस्य आधारः केवलं भौगोलिकसीमाभिः न, अपितु सहस्रवर्षेषु विकसितया सांस्कृतिकैका-त्म्यभावनयापि निर्मितः आसीत्। अत एव हिन्दूसमाजस्य सङ्गठनं सः भारतस्य सांस्कृतिकनिरन्तरतायाः राष्ट्रियजीवनस्य च सुदृढतया सह सम्बद्धं पश्यति स्म। तस्य जीवनम् एकं महत्त्वपूर्णं प्रश्नम् उपस्थापयति—प्रतिभायाः सर्वोत्तमः उपयोगः कस्मिन् अस्ति? व्यक्तिगतो-पलब्धिषु उत समाजस्य राष्ट्रस्य च हिताय स्वक्षमतानां समर्पणे? शेषाद्रिजी स्वाचरणेन अस्य प्रश्नस्य उत्तरं प्रदत्तवान्।

कर्नाटके सङ्गठनस्य विस्तारः : द्विदशकानां तपस्या

१९६० तः १९८० तमवर्षपर्यन्तं सः अविभक्तकर्नाटकस्य प्रान्तप्रचारकरूपेण दायित्वं निर्वहति स्म। एषः कालखण्डः सङ्घस्य कृते सङ्गठनात्मकविस्तारस्य सामाजिकसमस्याया: च दृष्ट्या महत्त्वपूर्णः आसीत्। आपत्कालस्य समये लोकतान्त्रिकाधिकाराणां प्रतिबन्धः, सङ्घस्य उपरि प्रतिबन्धः, कार्यकर्तॄणां च ग्रहणानि सङ्गठनस्य पुरतः गम्भीराः परिस्थितीः उत्पन्नवन्ति। शेषाद्रिजी कठिनपरिस्थितिषु सङ्गठनात्मकसम्पर्कं, कार्यकर्तॄणां मनोबलं, सामाजिकसंवादं च अक्षुण्णं स्थापयितुं प्रयत्नम् अकरोत्। तस्य व्यक्तित्वस्य विशेषता आसीत् यत् सः सङ्गठनात्मककार्यं बौद्धिकसज्जतया सह संयोजयति स्म। सः जानाति स्म यत् कञ्चन समाजं दीर्घकालपर्यन्तं प्रभावितुं शाखायाः, सम्पर्कस्य, सेवाकार्याणां च सह विचारस्य साहित्यस्य च आवश्यकता भवति।

तस्य कृते लेखनं सामाजिकसंवादस्य माध्यमम् आसीत्। कन्नडभाषायां तस्य लेखन्या स्थानीयसमाजे भारतीयेति-हासस्य, सांस्कृतिकपरम्परायाः, सम-कालीनसमस्याया: च विषये विमर्शः अग्रे नीतः। तस्य विचाराः आङ्ग्लभाषायाः हिन्दीभाषायाश्च पाठकेभ्यः अपि प्राप्तवन्तः।

१९८० तमे वर्षे सः दक्षिणक्षेत्रस्य क्षेत्रप्रचारकः नियुक्तः। अस्य दायित्वस्य अन्तर्गतं कर्नाटक-आन्ध्रप्रदेश-तमिलनाडु-केरलेषु सङ्गठनात्मक-समन्वयस्य कार्यं तस्मै प्राप्तम्। १९८७ तमे वर्षे सः सङ्घस्य अखिलभारतीय-सरकार्यवाहः अभवत्। प्रायः नववर्षाणि यावत् सः एतद् दायित्वं निर्वुढवान्। ततः स्वास्थ्यसम्बद्धासु परिस्थितिषु अखिलभारतीयप्रचारक-प्रमुखरूपेण कार्यम् अकरोत्। २००५ तमवर्षस्य अगस्तमासस्य १४ दिनाङ्के बेङ्गलूरुनगरस्थिते केशवकृपे तस्य निधनम् अभवत्।

विभाजनस्य त्रासदी तथा इतिहासस्य अवलोकनस्य भिन्ना दृष्टिः

शेषाद्रिमहोदयस्य बौद्धिकयोगदानम् अवगन्तुं तस्य ‘द ट्रैजिक स्टोरी ऑफ पार्टिशन’ इति पुस्तकस्य उल्लेखः आवश्यकः। भारतविभाजनम् आधृत्य लिखितम् एतत् पुस्तकम् तस्य ऐतिहासिकचिन्तनस्य महत्त्वपूर्णं तथ्यम् अस्ति। अस्य प्रथमम् आङ्ग्लसंस्करणं १९८२ तमे वर्षे बेङ्गलूरुनगरस्य जागरणप्रकाशनेन प्रकाशितम्। पुस्तके १९४७ तमे वर्षे भारतविभाजनपर्यन्तं नीतानां राजनैतिकघटनानां, मुस्लिम-लीगस्पर्धाया: पृथक्तावादीराजनीतेः, काङ्ग्रेसस्य निर्णयानां, तत्समयस्य सामाजिक-राजनीतिकवातावरणस्य च विश्लेषणं कृतम् अस्ति। प्रथमसंस्करणे अस्य पुस्तकस्य २७८ पृष्ठानि सन्ति।

अस्य पुस्तकस्य प्रारम्भिकपृष्ठेषु शेषाद्रिजी भारतस्य ऐतिहासिकैकतां सांस्कृतिक-सङ्कल्पनारूपेण प्रस्तुतवान्। तस्य विचारः आसीत् यत् भारतस्य एकता तस्य प्रकृत्या राष्ट्रियात्मना च अभिन्नरूपेण सम्बद्धा अस्ति। अस्मिन् विषये सः लिखति—“भारतस्य एकता तस्य प्रकृतौ एतावती मूलभूता अस्ति, तस्य गभीरेषु च एतावती उदात्ता अस्ति यत् सा तस्य राष्ट्रियात्मनः अविभाज्यम् अङ्गं भवति।” (एच.वी. शेषाद्रिः, द ट्रैजिक स्टोरी ऑफ पार्टिशन, पृष्ठम् ९, जागरण-प्रकाशनम्, बेङ्गलूरु, १९८२)

वस्तुतः एषः विचारः तस्य राष्ट्रबोधस्य आधारम् अवगन्तुं साहाय्यं करोति। तस्य कृते भारतस्य परिचयः सत्तापरिवर्तनेन निर्मिता काचित् सङ्कल्पना नासीत्। सः तु एका तादृशी सांस्कृतिकयात्रा आसीत्, यस्यां वंशानाम् अनुभवाः, तीर्थपरम्पराः, दर्शनानि, साहित्यं, भाषाः, जीवनमूल्यानि च परस्परं सम्बद्धानि आसन्।

पुस्तकस्य द्वादशे पृष्ठे विभाजनस्य विषये सः लिखति यत् १९४७ तमे वर्षे देशस्य विभाजनेन मातृभूमेः कतिपयभागेषु पृथक् राजनीतिकाधिकारं स्वीकरणीयं जातम्। तस्य विश्लेषणे विभाजनं स्वातन्त्र्येण सह सम्बद्धा एका ऐतिहासिकत्रासदी आसीत्, यस्याः राजनीतिकपरिणामानां सांस्कृतिकपरिणामानां च विषये गम्भीरविमर्शः आवश्यकः आसीत्।

तस्य अस्मिन् निष्कर्षे सहमतिः अथवा असहमतिः स्वकीयेन ऐतिहासिकाधारेण भवितुं शक्नोति। महत्त्वपूर्णम् एतदस्ति यत् तेन विभाजनं केवलं घटनाक्रमेण न दृष्टम्, अपितु राष्ट्रियमनोविज्ञानस्य, नेतृत्वस्य निर्णयानां, समाजस्य सङ्गठनात्मकदौर्बल्यस्य च सन्दर्भे अवगन्तुं प्रयासः कृतः।

पुस्तकस्य एकपञ्चाशत्तमे पृष्ठे तत्कालीनकाङ्ग्रेसस्य राजनैतिकदिशायाः आलोचनां कुर्वन् सः लिखति यत् कस्यापि राष्ट्रियसङ्गठनस्य दायित्वं समग्रराष्ट्रस्य हितानाम् अखण्डतायाश्च प्रति दृढं स्थातुम् अस्ति। कस्यापि वर्गस्य दबावस्य सम्मुखे तेन स्वकीयात् राष्ट्रियदायित्वात् विचलितं न भवितव्यम्। (द ट्रैजिक स्टोरी ऑफ पार्टिशन, पृष्ठम् ५१, जागरणप्रकाशनम्, १९८२)। अत्र शेषाद्रिमहोदयस्य लेखनशैल्याः एकः पक्षः प्रकटः भवति। सः केवलं घटनायाः वर्णनं कृत्वा अग्रे न गच्छति, अपितु तस्याः पृष्ठतः क्रियमाणायाः राजनीतिकमानसिकतायाः वैचारिकप्रवृत्तिनां च अन्वेषणं करोति।

धर्मान्तरणम्, सामाजिकसमरसता, सांस्कृतिकपरिचयश्च

शेषाद्रिजीमहोदयस्य लेखनस्य एकः महत्त्वपूर्णः विषयः धार्मिकपरिचयः धर्मान्तरणसम्बद्धाः प्रश्नाश्च आसन्। १९८१ तमे वर्षे तमिलनाडुराज्यस्य मीनाक्षीपुरे सम्पन्नेन सामूहिकधर्मान्तरणेन देशव्यापी चर्चा उत्पन्ना आसीत्। अस्याः घटनायाः अनन्तरं तेन ‘वार्निंग ऑफ मीनाक्षीपुरम्’ इति पुस्तकस्य माध्यमेन स्वविचाराः प्रस्तुताः। प्रिन्सटनविश्वविद्यालयस्य अङ्कीयसङ्ग्रहे अस्य पुस्तकस्य अभिलेखः उपलब्धः अस्ति। तस्मिन् लेखकत्वेन एच.वी. शेषाद्रिमहोदयस्य, प्रकाशकत्वेन च बेङ्गलूरुस्थितस्य जागरणप्रकाशनस्य उल्लेखः अस्ति।

तस्य चिन्तायाः केन्द्रे हिन्दूसमाजे विद्यमाना सामाजिकविषमता, तया उत्पन्ना सामाजिकदूरी च आसीत्। तस्य दृष्ट्या जातिगतभेदभावः सामाजिक-विषमता च समाजस्य एकतां दुर्बलां कुरुतः। अतः हिन्दूसमाजस्य सङ्गठनस्य चर्चायां सामाजिकसमरसतायाः प्रमुखं स्थानं भवितव्यम्। वस्तुतः अत्र तस्य विचारस्य एकः महत्त्वपूर्णः पक्षः प्रकाशते। सांस्कृतिकपरिचयस्य रक्षणस्य आग्रहः तदैव सार्थकं सामाजिकपरिणामं दातुं शक्नोति, यदा समाजः स्वान्तरे सम्मानस्य, समानतायाः, आत्मीयतायाश्च वातावरणं निर्माति। मठानां, सन्तानां, सामाजिकसङ्गठनानां, शिक्षणसंस्थानां च भूमिकां सः एतस्य व्यापकदायित्वस्य सन्दर्भे पश्यति स्म। धर्मान्तरणस्य विषये तेन सम्बद्धं मन्यमानं ‘धर्मपरिवर्तनं राष्ट्रियत्वपरिवर्तनम् अस्ति’ इति वाक्यांशं तस्य विचाराणां व्याख्यायां प्रायः उद्ध्रियते।

आपत्कालः लोकतन्त्रं च : लेखन्या प्रतिरोधस्य तथ्यम्

शेषाद्रिमहोदयस्य जीवनस्य एकः महत्त्वपूर्णः अध्यायः आपत्कालेन सह सम्बद्धः अस्ति। १९७५ तमवर्षस्य जूनमासस्य २५ दिनाङ्के तत्कालीन-प्रधानमन्त्रिण्या इन्दिरागान्धी इत्यनया आपत्कालस्य घोषणायाः अनन्तरं देशे नागरिकस्वातन्त्र्ये, वार्तापत्रस्वातन्त्र्ये, राजनैतिकगतिविधिषु च कठोराः प्रतिबन्धाः आरोपिताः। राष्ट्रीयस्वयं-सेवकसङ्घस्य उपरि प्रतिबन्धः आरोपितः, सहस्रशः स्वयंसेवकाः च निगृहीताः। अस्य कालखण्डस्य घटनानां कर्गदीकरणे शेषाद्रिजीमहोदयस्य ‘भुगिलु’ इति पुस्तकस्य विशेषः उल्लेखः प्राप्यते। एतत् कन्नडभाषायां लिखितं पुस्तकम् अस्ति, यस्मिन् आपत्कालस्य परिस्थितिनां तत्सम्बद्धघटनाक्रमस्य च सङ्कलनं कृतम्।

वस्तुतः तस्य लेखनस्य महत्त्वम् एतदर्थमपि अस्ति यत् तेन तत्कालीनराजनीतिकघटनाः लोकतन्त्रस्य, सङ्गठनस्य, नागरिक-चेतनायाश्च व्यापकसन्दर्भे दृष्टाः। तस्य कृते स्वातन्त्र्यस्य अर्थः केवलं विदेशिशासनात् मुक्तिः नासीत्, अपितु समाजे विचाराभिव्यक्तेः, सांस्कृतिक-परम्पराणाम् अग्रे नयनस्य, राष्ट्रियजीवने स्वकीयां भूमिकां निर्वोढुं च स्वातन्त्र्यम् अपि आसीत्। अतः शेषाद्रिमहोदयस्य लेखनस्य विस्तारः विभाजनम् आपत्कालं च अतिक्रम्य आसीत्। तेन भारतीयेतिहासस्य तादृशानां व्यक्तित्वानां प्रसङ्गानां च लेखनं कृतम्, येषां योगदानेन राष्ट्रियस्वाभिमानाय सांस्कृतिकचेतनायै च दिशा प्राप्ता।

छत्रपतिशिवाजीमहाराजस्य जीवनम् आधृत्य तस्य ‘युगावतार’ इति कृतिः विशेषरूपेण उल्लेखनीया अस्ति। शिवाजीमहाराजस्य व्यक्तित्वे तेन सङ्गठनक्षमतायाः, अदम्यसाहसस्य, सांस्कृतिकात्मविश्वासस्य, राष्ट्रहिते प्रतिबद्धतायाश्च गुणाः रेखाङ्किताः। तस्य अन्यत् महत्त्वपूर्णं पुस्तकं ‘आरएसएस : ए विजन इन एक्शन’ इति अस्ति। अस्य प्रथमं संस्करणं १९८८ तमे वर्षे बेङ्गलूरुनगरस्य जागरणप्रकाशनेन प्रकाशितम्। पुस्तकस्य अभिलेखानुसारं प्रथमसंस्करणे ३२६ पृष्ठानि सन्ति। अस्मिन् पुस्तके सङ्घस्य स्थापना, तस्य विचाराः, सङ्गठनात्मक-विकासः, सामाजिकजीवनस्य विभिन्नक्षेत्रेषु तस्य गतिविधयश्च परिचायिताः सन्ति। अस्य पुस्तकस्य माध्यमेन शेषाद्रिजी सङ्घस्य कार्यपद्धतिं सामाजिकविस्तारं च व्यापकपाठकवर्गं प्रति नेतुम् प्रयासम् अकरोत्।

अस्याः कृतेः केन्द्रीयभावः एषः अस्ति यत् डॉ. केशवबलिरामहेडगेवारमहोदयेन प्रारब्धा सङ्गठनात्मकप्रक्रिया समाज-जीवनस्य विभिन्नक्षेत्रेषु कथम् अग्रे नीतवती। सङ्घस्य स्वयंसेवकैः माध्यमेन शिक्षायां, सेवायां, सामाजिकजागरणे, राष्ट्रनिर्माणे च कृतेषु प्रयासेषु सः व्यापकसांस्कृतिकपुनरुत्थानस्य प्रक्रियां पश्यति स्म। अत्र तस्य व्यक्तित्वस्य अन्यः पक्षः अपि प्रकटः भवति। सः विचाराणां पुस्तकानां माध्यमेन संरक्षणं यथा महत्त्वपूर्णं मन्यते स्म, तथैव तेषां व्यवहारे कार्यान्वयनस्य सङ्गठनात्मक-प्रक्रियामपि महत्त्वपूर्णां मन्यते स्म।

राष्ट्रीयस्वयंसेवकसङ्घस्य द्वितीयस्य सरसङ्घचालकस्य माधवसदाशिव-गोलवलकरस्य, अर्थात् गुरुजीमहोदयस्य विचाराणां सुव्यवस्थितसङ्कलने प्रस्तुतौ च शेषाद्रिजीमहोदयस्य महत्त्वपूर्णा भूमिका आसीत्। अस्मिन् सन्दर्भे तस्य ‘श्रीगुरुजी’ इति पुस्तकं विशेषरूपेण उल्लेखनीयम्। अस्य आङ्ग्लसंस्करणं १९९९ तमे वर्षे नवदिल्लीस्थेन सुरुचिप्रकाशनेन प्रकाशितम् आसीत्। अस्य कार्यस्य पृष्ठतः तस्य एका स्पष्टा विचारधारा दृश्यते। विचारपरम्परायाः संरक्षणं तदैव सम्भवं भवति, यदा एका पीढी स्वानुभवान्, चिन्तनं, वैचारिकसम्पदं च अग्रिमपीढ्यै समर्पयति। शेषाद्रिजी एतद् दायित्वं गम्भीरतया निर्वुढवान्।

पदप्रतिष्ठायाः अपेक्षया दायित्वम् आसीत् महत्तरम्

१९८७ तमे वर्षे यदा शेषाद्रिजी अखिलभारतीयसरकार्यवाहः अभवत्, तदा तस्य पुरतः देशव्यापिसङ्गठनात्मक-गतिविधीनां समन्वयस्य व्यापकं दायित्वम् आसीत्। प्रायः नववर्षाणि यावत् सः एतस्य दायित्वस्य निर्वहनम् अकरोत्। अस्मिन् अवधौ सङ्घस्य विस्तारः, सामाजिक-सम्पर्कः, विभिन्नक्षेत्रेषु सङ्गठनात्मक-समन्वयश्च तस्य कार्यस्य महत्त्वपूर्णम् अङ्गम् आसीत्। तस्य व्यक्तित्वस्य विशेषता एषा आसीत् यत् सः पदं व्यक्तिगतप्रतिष्ठारूपेण न पश्यति स्म, अपितु कार्यस्य दायित्वरूपेण स्वीकरोति स्म। सङ्घस्य सङ्गठनात्मकपरम्परायां दायित्वपरिवर्तनस्य सामूहिकनेतृत्वस्य च या व्यवस्था अस्ति, शेषाद्रिजीमहोदयस्य जीवनं तस्याः उदाहरणं प्रस्तुतं करोति।

जीवनस्य अन्तिमवर्षेष्वपि सः प्रचारकप्रमुखरूपेण स्वयोगदानम् अनुवर्तितवान्। आयुःस्वास्थ्यसम्बद्ध-कठिनतासु अपि सङ्घेन सह तस्य सम्बन्धः अक्षुण्णः आसीत्। किन्तु २००५ तमवर्षस्य अगस्तमासस्य १४ दिनाङ्के तस्य निधनस्य समाचारः सङ्घपरिवारे तेन सह सम्बद्धेषु सामाजिकक्षेत्रेषु च शोकलहरिम् उत्पन्नवान्। बेङ्गलूरुनगरस्थिते केशवकृपे तेन अन्तिमः श्वासः गृहीतः। तस्य निधनानन्तरं पूर्वप्रधानमन्त्री अटल-बिहारीवाजपेयी, लालकृष्णआडवाणी च सहितैः अनेकेषु राष्ट्रियनेतृषु श्रद्धाञ्जलिः समर्पिता।

अद्यतनभारताय विचाराणाम् अभिप्रायः

अधुना प्रश्नः उदेति यत् २०२६ तमे वर्षे तस्य जन्मशताब्द्याः अवसरे शेषाद्रिजीमहोदयस्य स्मरणम् आवश्यकं किमर्थम्? किं तस्य जीवनं अद्यतनवंशाय अपि कञ्चन सन्देशं ददाति? वस्तुतः अस्य उत्तरं तस्य जीवनस्य त्रिषु प्रमुखेषु पक्षेषु प्राप्यते।

प्रथमः—सांस्कृतिकात्मबोधः। कस्यापि समाजस्य दीर्घकालीनं सामर्थ्यं तस्य इतिहासेन, परम्पराभिः, भाषाभिः, सांस्कृतिकसम्पदः च विषये जागरूकतया सम्बद्धम् अस्ति। शेषाद्रिजी स्वलेखने अस्य विषयस्य पुनः पुनः उल्लेखम् अकरोत्। तस्य विचारानुसारं भारतस्य परिचयः तस्य सनातनसांस्कृतिकपरम्परया गभीरतया सम्बद्धः अस्ति। हिन्दूजीवनदृष्ट्या अस्य भूमेः दर्शनस्य, कलायाः, साहित्यस्य, उत्सवानां, सामाजिकव्यवहारस्य, आध्यात्मिकचिन्तनस्य च स्वरूपं निर्मितम्।

द्वितीयः—सामाजिकसमरसता। हिन्दूसमाजस्य एकतायाः तस्य आग्रहः जातिगतविभाजनानि अतिक्रम्य गन्तव्यतायाः आवश्यकतां प्रतिपादयति। समाजे परस्परविश्वासस्य, सम्मानस्य, सहभागितायाश्च अभावे सांस्कृतिक-पुनरुत्थानस्य कल्पना अपूर्णा भविष्यति। नववंशस्य कृते एषः सन्देशः विशेषमहत्त्वपूर्णः अस्ति यत् स्वपरम्परायाः गौरवेण सह सामाजिकदायित्वमपि सम्बद्धम् अस्ति।

तृतीयः—राष्ट्राय व्यक्तिगतसमर्पणम्। शेषाद्रिजी स्वजीवनेन प्रदर्शितवान् यत् शिक्षायाः, प्रतिभायाः, बौद्धिकक्षमतायाश्च उपयोगः व्यापकसामाजिकहिताय कर्तुं शक्यते। अद्य यदा युवापीढिः वृत्तिजीवनस्य, उपलब्धिनां, व्यक्तिगतसफलतायाश्च दिशि अग्रे गच्छति, तदा तस्य जीवनस्य अयं पक्षः प्रेरणां ददाति यत् व्यक्तिः स्वकार्यक्षेत्रे स्थित्वा अपि समाजाय राष्ट्राय च महत्त्वपूर्णं योगदानं दातुं शक्नोति।

तस्य वैचारिकदृष्ट्या हिन्दुत्वं भारतस्य सांस्कृतिकपरिचयस्य मूलाधारः अस्ति। एतं विचारं सः सनातनपरम्परायाः, जीवनदर्शनस्य, ऐतिहासिकनिरन्तरतायाश्च सन्दर्भे प्रस्तुतवान्। अस्मिन् दृष्टिकोणे भारतीयबौद्धिकजगति विभिन्नाः मतभेदाः सन्ति, तथापि भारतीयसंस्कृतेः राष्ट्रबोधस्य च विषये तस्य लेखनस्य अध्ययनं सङ्घस्य विचारपरम्पराम् अवगन्तुं महत्त्वपूर्णम् अस्ति।

एकस्य व्यक्तेः जीवनम्, अनेकेषां वंशानां कृते प्रेरणा

शेषाद्रिमहोदयस्य जन्मशताब्द्याः अवसरे एस्-व्यासविश्वविद्यालयस्य आयोजनम् एकं विशेषं सन्दर्भं प्रस्तुतं करोति। प्रधानमन्त्रिण: नरेन्द्रमोदीमहोदयस्य राष्ट्रीयस्वयंसेवकसङ्घस्य सरकार्यवाहस्य दत्तात्रेयहोसबालेमहोदयस्य च उपस्थितिः एतदायोजनं सङ्घपरिवाराय अधिकं विशेषं करोति। २०२६ तमवर्षस्य नवम्बरमासस्य १३ दिनाङ्के बेङ्गलूरुनगरे विश्वविद्यालयस्य स्वर्णजयन्तीसमारोहे सहभागिता वस्तुतः सङ्घस्य तेषां समर्पितानां प्रचारकाणां जीवनस्य कार्यशैल्याश्च स्मरणस्य माध्यमम् अस्ति, ये भारतस्य सांस्कृतिकचेतनायाः, आध्यात्मिकचेतनायाः, सामाजिक-चेतनायाश्च पुनर्जागरणाय स्वजीवनस्य सम्पूर्णं समयं समर्पितवन्तः।

होसबालेमहोदयः स्वयम् कर्नाटकस्य पृष्ठभूमेः आगतः अस्ति तथा च शेषाद्रिजीमहोदयस्य सान्निध्ये दीर्घकालपर्यन्तं सङ्गठनात्मककार्यं कृतवान्। अस्मिन् मञ्चे दत्तात्रेय-होसबालेमहोदयस्य सम्बोधनं मुख्यतः शेषाद्रिमहोदयस्य व्यक्तित्वे, राष्ट्रनिर्माणे तस्य अनुपमयोगदाने, सामाजिक-समरसतायाः प्रति तस्य प्रतिबद्धतायां, भारतीयज्ञानपरम्परां आधुनिकसन्दर्भेषु प्रतिष्ठापयितुं तस्य दृष्टिकोणे च केन्द्रितम् आसीत्। सङ्घस्य कार्यपद्धत्यां सर्वदा व्यक्तिनिर्माणेन सह समाजस्य विभिन्नक्षेत्रेषु रचनात्मक-सेवाकार्याणां प्रोत्साहने बलं दीयते। प्रशान्तिकुटीरम् तथा स्वामीविवेकानन्द-योगानुसन्धानसंस्थानम् इत्येतयोः स्थापना विकासश्च अपि एतस्य व्यापकदृष्टिकोणस्य परिणामः अस्ति।

१९७५ तमे वर्षे स्थापितम् एतत् संस्थानं विगतपञ्चाशद्वर्षेभ्यः भारतीययोगविद्यायाः आधुनिकविज्ञानस्य मानदण्डैः परीक्षणं कृत्वा तां वैश्विकस्तरे प्रमाणिकरूपेण प्रस्तोतुं कार्यं कुर्वदस्ति। एच.वी. शेषाद्रिमहोदयस्य अस्य संस्थानस्य वैचारिकाधारस्य निर्माणे, तस्य निरन्तरमार्गदर्शने च गभीरं योगदानम् आसीत्। वस्तुतः एषः प्रसङ्गः तादृशस्य व्यक्तेः स्मृतिं राष्ट्रियस्तरे प्रतिष्ठापयति, येन स्वजीवनस्य सम्पूर्णः कालः सङ्गठनाय, साहित्याय, सांस्कृतिक-चिन्तनाय च समर्पितः।

अद्य तस्य जन्मशताब्द्याः वास्तविकं महत्त्वमपि अस्मिन्नेव अस्ति यत् तस्य पुस्तकानि पुनः पठ्येरन्, तस्य विचाराणाम् अध्ययनं क्रियेत, भारतीयसमाजः च स्वसांस्कृतिकसम्पदः प्रश्नेषु गम्भीरं विमर्शं कुर्यात्। एकः व्यक्तिः किं कर्तुं शक्नोति? सः स्वजीवनेन सहस्रशः जनान् प्रेरयितुं शक्नोति। स्वलेखन्या इतिहासस्य अनवलोकितान् प्रसङ्गान् प्रकाशयितुं शक्नोति। सङ्गठनस्य माध्यमेन समाजस्य विभिन्नवर्गान् संयोजयितुं प्रयतितुं शक्नोति। स्वाचरणेन त्यागस्य, अनुशासनस्य, समर्पणस्य च परिभाषां निर्मातुं शक्नोति। एच.वी. शेषाद्रिमहोदयस्य जीवनम् एतासां सम्भावनानां परिचायकम् अस्ति। तेन स्वर्णपदकप्राप्तां शैक्षणिकप्रतिभां राष्ट्रकार्ये विनियोजितम्, प्रचारकरूपेण जीवनं यापितम्, सरकार्यवाहस्य दायित्वं निर्वहितम्, साहित्यस्य माध्यमेन स्वविचाराश्च भाविवंशानां कृते सुरक्षिताः कृताः।

तस्य जन्मशताब्द्यां सार्थिका श्रद्धाञ्जलिः एषैव भविष्यति यत् तस्य पुस्तकानि पुस्तकालयेषु विश्वविद्यालयेषु च प्राप्येरन्, युवावंश: तस्य जीवनपरिचयं प्राप्नुयात्, भारतीयेतिहासस्य, संस्कृतेः, राष्ट्रियास्मितायाश्च सम्बद्धेषु प्रश्नेषु अध्ययनस्य संवादस्य च परम्परा विकसितुं शक्नुयात्। यतः राष्ट्रनिर्माणं कस्याश्चित् एकस्य वंशस्य कार्यं न भवति। एषा तु पीढीनां समर्पणेन, विचारेण, कर्मणा च अग्रे वर्धमाना सततयात्रा अस्ति। शेषाद्रिजी अस्यां यात्रायां स्वजीवनस्य सम्पूर्णं समयं समर्पितवान्। तस्य जीवनम् अस्मान् प्रेरयति यत् यदा व्यक्तेः लक्ष्यं स्वस्मात् महत्तरं भवति, तदा तस्य जीवनं तस्य देहावसानानन्तरमपि समाजाय प्रेरणायाः स्रोतः भवति।

(लेखकः हिन्दुस्थानसमाचारसंस्थया सम्बद्धः अस्ति।)

Hindusthan Samachar / Divya Ranjan