मध्यप्रदेशस्य भोपालनगरस्य हॉकीक्रीडाङ्गणाय एफआईएच-संस्थायाः प्रथमश्रेण्याः प्रमाणपत्रं प्राप्तम्, देशे हैदराबादनगरानन्तरं द्वितीयं नगरम् अभवत्।
भोपालनगरस्य हॉकीक्रीडाङ्गणाय एफआईएच-संस्थायाः प्रथमश्रेण्याः प्रमाणपत्रं प्राप्तम्, देशे हैदराबादानन्तरं द्वितीयं नगरम् अभवत् १९ नवम्बरतः महिलानां एशियाई-हॉकी-चैम्पियन्स-ट्रॉफी-क्रीडायाः आयोजनं भविष्यति भोपालम्, १३ नवम्बरमासः (हि.स.)। मध्यप्रदेशे
मीडिया से बातचीत करते हुए खेल मंत्री विश्वास सारंग


नाथू बरखेड़ा स्थित अंतर्राष्ट्रीय खेल परिसर


भोपालनगरस्य हॉकीक्रीडाङ्गणाय एफआईएच-संस्थायाः प्रथमश्रेण्याः प्रमाणपत्रं प्राप्तम्, देशे हैदराबादानन्तरं द्वितीयं नगरम् अभवत्

१९ नवम्बरतः महिलानां एशियाई-हॉकी-चैम्पियन्स-ट्रॉफी-क्रीडायाः आयोजनं भविष्यति

भोपालम्, १३ नवम्बरमासः (हि.स.)। मध्यप्रदेशेन क्रीडाधोसंरचनायाः विकासस्य दिशायाम् एका महत्त्वपूर्णा उपलब्धिः प्राप्ता। राज्यस्य राजधानी भोपालनगरस्य नाथू बरखेड़ा-स्थितस्य अन्ताराष्ट्रीयक्रीडापरिसरस्य हॉकीक्रीडाङ्गणाय अन्ताराष्ट्रीयहॉकीमहासंघेन (एफआईएच) प्रथमश्रेण्याः प्रमाणपत्रं प्रदत्तम्। एतया मान्यतया भोपालनगरं देशे हैदराबादनगरानन्तरं द्वितीयं नगरम् अभवत्, यत्र एतादृशं अन्ताराष्ट्रियमानकयुक्तं हॉकीक्रीडाङ्गणम् अस्ति। मध्यप्रदेशे तु प्रथमवारं कस्मिंश्चित् हॉकीक्रीडाङ्गणे एफआईएच-संस्थायाः प्रथमश्रेण्याः मान्यता प्राप्ता अस्ति।

राज्यस्य क्रीडायुवकल्याणमन्त्री विश्वाससारङ्गः शुक्रवासरे अवदत् यत् अन्ताराष्ट्रियहॉकीमहासंघेन २०२६ तमस्य वर्षस्य नवम्बरमासस्य ६ दिनाङ्के क्रीडाङ्गणस्य तान्त्रिकपरीक्षणं कृतम् आसीत्। निरीक्षणकाले क्रीडाङ्गणं प्रथमश्रेण्याः निर्धारितमानदण्डानुसारं योग्यं प्राप्तम्। ततः महासंघेन प्रमाणपत्रं निर्गतम्, यस्य वैधता २०२९ तमस्य वर्षस्य नवम्बरमासस्य ६ दिनाङ्कपर्यन्तं भविष्यति। अनेन राज्यस्य बृहदन्ताराष्ट्रियक्रीडायोजनानां आयोजनाय दावेदारी सुदृढा भविष्यति। अपि च उदयमानानां हॉकीक्रीडकानां विश्वस्तरीयसुविधानां मध्ये अभ्यासं कृत्वा स्वप्रतिभायाः विकासस्य अवसरः प्राप्स्यते। अस्याः उपलब्धेः कृते सः क्रीडाविभागाय, निर्माणकार्यदायिसंस्थायै तथा सम्बद्धेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च अभिनन्दनं प्रदत्तवान्।

सः अवदत् यत्, “मुख्यमन्त्री डॉ. मोहनयादवस्य नेतृत्वे मध्यप्रदेशः क्रीडाक्षेत्रे निरन्तरम् अग्रे सरति। अस्मिन् क्रमे प्रदेशेन एका अन्यसफलता प्राप्ता। अस्याः उपलब्धेः माध्यमेन निश्चयेन भोपालनगरं मध्यप्रदेशश्च विश्वस्य हॉकीक्रीडायाः मानचित्रे समङ्कितौ अभवताम्। एषा महती प्रसन्नतायाः वार्ता अस्ति यत् देशे हैदराबादानन्तरं द्वितीयक्रमे अस्माभिः इदं प्रमाणपत्रं प्राप्तम्। क्रीडा, क्रीडकाः, क्रीडाङ्गणानां च उन्नयनम् इति अस्माकं लक्ष्यम् अस्ति। वयं सार्थकतया पूर्णशक्त्या च अग्रे सरामः।”

१९ नवम्बरतः अन्तरराष्ट्रीयस्पर्धानां रोमाञ्चः

उल्लेखनीयं यत् एफआईएच-संस्थायाः प्रमाणपत्रप्राप्त्यनन्तरं भोपालनगरस्य अस्मिन् क्रीडाङ्गणे प्रथमं बृहदन्तरराष्ट्रीयायोजनं महिलानाम् एशियाई-हॉकी-चैम्पियन्स-ट्रॉफी-२०२६ इति भविष्यति। प्रतियोगितायाः प्रारम्भः नवम्बरमासस्य १९ दिनाङ्कात् भविष्यति, यस्मिन् एशियामहाद्वीपस्य प्रमुखाः महिलाहॉकीदलाः भागं ग्रहीष्यन्ति। अस्य आयोजनस्य माध्यमेन भोपालनगराय अन्तरराष्ट्रीयहॉकीमञ्चे स्वकीयाः क्रीडासुविधाः प्रदर्शयितुम् अवसरः प्राप्स्यते।

प्रथमश्रेण्याः प्रमाणपत्रप्राप्त्या क्रीडाङ्गणस्य अन्तरराष्ट्रीयस्तरे परिचितिः सुदृढा अभवत्। अनेन भविष्ये भोपालनगरे उच्चस्तरीयाणां हॉकीप्रतियोगितानाम् आयोजनस्य सम्भावनाः अपि वर्धिष्यन्ते। तथापि कस्याश्चित् प्रतियोगितायाः आयोजनाय प्रमाणपत्रातिरिक्तं सम्बद्धायाः आयोजकसंस्थायाः अन्येषां शर्तानां अनुमोदनानां च पूर्तिरपि आवश्यकी भविष्यति।

किम् अस्ति एफआईएच-प्रथमश्रेण्याः प्रमाणनम्?

उल्लेखनीयं यत् अन्ताराष्ट्रियहॉकीमहासंघः अर्थात् एफआईएच हॉकीक्रीडायाः वैश्विकनियमानां क्रीडाङ्गणानां च तान्त्रिकमानदण्डानां निर्धारणं करोति। प्रथमश्रेण्याः प्रमाणनं क्रीडाङ्गणानां कृते निर्धारितः उच्चस्तरीयः तान्त्रिकवर्गः अस्ति। अस्य अन्तर्गतं क्रीडाङ्गणस्य धरातलस्य, एस्ट्रोटर्फस्य गुणवत्तायाः, समतलतायाः, कन्दुकस्य गतिः उच्छलनक्षमता च, जलनिकासव्यवस्थायाः, क्रीडाक्षेत्रस्य निर्धारितपरिमाणानां तथा सुरक्षासम्बद्धानाम् अन्येषां मानदण्डानां परीक्षणं क्रियते।

अस्य प्रमाणपत्रस्य तात्पर्यम् अस्ति यत् सम्बद्धं क्रीडाङ्गणं एफआईएच-संस्थया निर्धारितान् अन्ताराष्ट्रियतान्त्रिकमानदण्डान् पूरयति तथा उच्चस्तरीयप्रतियोगितानाम् आयोजनाय योग्यं वर्तते। भोपालनगरस्य क्रीडाङ्गणाय एतादृशायाः मान्यतायाः प्राप्तिः प्रदेशे हॉकीसुविधानां विस्तारस्य अन्ताराष्ट्रियक्रीडायोजनानाम् आयोजनस्य च दिशायां महत्त्वपूर्णं सोपानं मन्यते।

Hindusthan Samachar / Dheeraj Maithani