बेङ्गलूरुमहानगरस्य मेट्रोरैलजालं शतं किलोमीटर् अतिक्रान्तम्, गुलाबीमार्गस्य विस्तारितखण्डस्य प्रधानमन्त्रिणा उद्घाटनम्
बेङ्गलूरुमहानगरस्य मेट्रोजालं शतं किलोमीटरतः अधिकं विस्तृतम्, गुलाबीमार्गस्य विस्तारितखण्डस्य प्रधानमन्त्रिणा उद्घाटनम् - प्रायः ३,४७० कोटिरूप्यकाणां व्ययेन निर्मितः ७.५ किलोमीटरदीर्घः खण्डः, प्रत्येकस्मिन् अष्टमिनिटे मेट्रोर्यानस्य सुविधा। बेङ्ग
ಪ್ರಧಾನಿ ನರೇಂದ್ರ ಮೋದಿ ಮೆಟ್ರೊ ರೈಲಿನಲ್ಲಿ ಪ್ರಯಾಣಿಸುವ ಮೂಲಕ ಮಾರ್ಗವನ್ನು ಲೋಕಾರ್ಪಣೆ ಮಾಡಿದರು. ಈ ಸಂದರ್ಭದಲ್ಲಿ ರಾಜ್ಯಪಾಲೆ ಸುಧಾ ಯಾದವ್, ಮುಖ್ಯಮಂತ್ರಿ ಡಿ.ಕೆ.ಶಿವಕುಮಾರ್, ಬೆಂಗಳೂರು ನಗರಾಭಿವೃದ್ಧಿ ಸಚಿವ ಕೃಷ್ಣ ಬೈರೇಗೌಡ ಹಾಗೂ ಸಂಸದ ತೇಜಸ್ವಿ ಸೂರ್ಯ ಉಪಸ್ಥಿತರಿದ್ದರು.


ಬೆಂಗಳೂರು ಮೆಟ್ರೋ ವಿಸ್ತರಿತ ಗುಲಾಬಿ ಮಾರ್ಗಕ್ಕೆ ಪ್ರಧಾನಿ ಮೋದಿ ಚಾಲನೆ


बेङ्गलूरुमहानगरस्य मेट्रोजालं शतं किलोमीटरतः अधिकं विस्तृतम्, गुलाबीमार्गस्य विस्तारितखण्डस्य प्रधानमन्त्रिणा उद्घाटनम्

- प्रायः ३,४७० कोटिरूप्यकाणां व्ययेन निर्मितः ७.५ किलोमीटरदीर्घः खण्डः, प्रत्येकस्मिन् अष्टमिनिटे मेट्रोर्यानस्य सुविधा।

बेङ्गलूरुः, १३ नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् कस्यापि राष्ट्रस्य विकासयात्रायां आधारभूतसंरचनायाः महत्त्वपूर्णा भूमिका भवति। उत्तमसम्पर्कव्यवस्थया विकासस्य, रोजगारस्य, औद्योगिकानां च नूतनावसराणां सृजनं भवति। यदा एतेषाम् अवसराणां लाभः समाजस्य प्रत्येकं वर्गं प्राप्नोति, तदा निर्धनतायाः विरुद्धं सङ्घर्षः अपि सुदृढः भवति। एतदेव कारणं यत् विगतेषु कतिपयेषु वर्षेषु देशस्य प्रायः पञ्चाशत्कोटिनागरिकाः अतिदारिद्र्यात् बहिर्निर्गताः।

प्रधानमन्त्री शुक्रवासरे बेङ्गलूरुनगरे नम्मा मेट्रो इत्यस्य गुलाबीमार्गस्य कालेन अग्रहारा-तः तावरेकेरे-पर्यन्तं विस्तारितखण्डस्य उद्घाटनं कृत्वा एतदुक्तवान्। अस्य विस्तारस्य अनन्तरं बेङ्गलूरुनगरस्य मेट्रोजालं शतं किलोमीटरतः अधिकं विस्तृतम् अभवत्। दिल्ली-राष्ट्रीयराजधानीक्षेत्रस्य मुम्बईनगरस्य च अनन्तरम् एताम् उपलब्धिं प्राप्तुं बेङ्गलूरु देशस्य तृतीयं नगरम् अभवत्।

प्रधानमन्त्री स्वसम्बोधने अवदत् यत् एषा उपलब्धिः केवलं परिवहनपरियोजनायाः विस्तारः नास्ति, अपितु नगरवासिनां जीवनं सरलतरं कर्तुं नगरीययातायातं च सुविधाजनकं कर्तुं महत्त्वपूर्णं सोपानम् अस्ति।

तेनोक्तं यत् कतिपयदिनपूर्वमेव कर्नाटकाय राज्यस्य प्रथमा वन्देभारतशयनयानसेवा प्राप्ता आसीत् तथा च अधुना गोवां संयोजयन्ती वन्देभारतरेलयानसेवा अपि प्राप्ता। भारतं चिपनिर्माणात् पोतनिर्माणपर्यन्तं तथा कृत्रिमबुद्धिमत्ता (एआई), दत्तांशकेन्द्राणि, क्वाण्टमसङ्गणनम् इत्यादिषु आधुनिकप्रौद्योगिकीक्षेत्रेषु वैश्विकनेतृत्वं प्राप्तुं लक्ष्येण अग्रे सरति।

कालेन अग्रहारा-तः तावरेकेरे-पर्यन्तं गुलाबीमार्गस्य विस्तारितखण्डः प्रायः ३,४७० कोटिरूप्यकाणां व्ययेन निर्मितः। अस्य दीर्घता ७.५ किलोमीटर् अस्ति। अस्मिन् खण्डे षट् स्थानकानि निर्मितानि सन्ति। तेषु कालेन अग्रहारा, हुलिमावु, आईआईएमबी, जेपी नगरचतुर्थचरणम्, जयदेवचिकित्सालयः तथा तावरेकेरे इति स्थानकानि सन्ति।

प्रधानमन्त्री मोदी तावरेकेरेस्थानकात् बिलेकेनहल्लीस्थं भारतीयप्रबन्धनसंस्थानस्य बेङ्गलूरु (आईआईएमबी) स्थानकपर्यन्तं मेट्रोरयानेन यात्राम् अपि अकरोत्। अस्मिन् समये तेन नूतनमार्गस्य सुविधानां सञ्चालनव्यवस्थायाश्च निरीक्षणं कृतम्।

गुलाबीमार्गस्य विस्तारितखण्डस्य यात्रिसेवायै उद्घाटनेन नम्मा मेट्रो इत्यस्य कुलं सञ्चालितं जालं ९६.१० किलोमीटरतः वर्धित्वा १०३.६० किलोमीटर् अभवत्। अनेन सह बेङ्गलूरु देशस्य तृतीयं नगरम् अभवत्, यत्र मेट्रोजालं शतं किलोमीटरतः अधिकं विस्तृतम् अस्ति। अनेन नगरस्य विभिन्नक्षेत्राणां मध्ये सार्वजनिकपरिवहनसम्पर्कः अधिकं सुदृढः भविष्यति।

प्रारम्भिकचरणे अस्मिन् मार्गे पञ्च समर्पितानि मेट्रोरयानानि सञ्चालयिष्यन्ते। यात्रिभ्यः प्रत्येकस्मिन् अष्टमिनिटे मेट्रोरयानस्य सुविधा प्राप्स्यते। यात्रिणां सङ्ख्यां सङ्केतनव्यवस्थायाः स्थिरतां च दृष्ट्वा आगामिषु दिनेषु रयाणानां मध्यवर्तिसमयं न्यूनं कर्तुं योजना अस्ति।

नूतनमार्गस्य प्रारम्भेण नगरस्य विभिन्नक्षेत्राणां मध्ये आवागमनं सुगमं भविष्यति। अनेन दैनिकयात्रिकाणां समयस्य बचतिः भविष्यति तथा मार्गेषु यातायातस्य भारं न्यूनीकर्तुं साहाय्यं मिलिष्यति। गुलाबीमार्गस्य विस्तारः बेङ्गलूरुनगरस्य सार्वजनिकपरिवहनव्यवस्थां सुदृढीकुर्वन् नगरस्य आर्थिकक्रियाकलापानाम् अपि गतिं वर्धयिष्यति।

कार्यक्रमे राज्यपाला सुधा यादवः, मुख्यमन्त्री डी.के. शिवकुमारः, बेङ्गलूरुनगरविकासमन्त्री कृष्णा बायरेगौडा तथा सांसदः तेजस्वी सूर्या इत्यादयः जनप्रतिनिधयः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani