माइक्रोसॉफ्ट्-संस्थायाः सेवासु द्वितीयदिनेऽपि व्यवधानः, षड्यन्त्रस्य आशङ्का नास्ति इति निर्माणी
नवदिल्ली, १३ नवम्बरमासः (हि.स.)। सॉफ्टवेयर-निर्माणी माइक्रोसॉफ्ट् इत्यस्य वैश्विकसेवासु उत्पन्नं व्यवधानं नवम्बरमासस्य १३ दिनाङ्के द्वितीय-दिनेऽपि निरन्तरम् अभवत्। विश्वस्य बृहत्तमायाः सॉफ्टवेयर-निर्माण्याः अनुसारं अस्य व्यवधानस्य पृष्ठतः दुर्भावना
माइक्रोसॉफ्ट के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, १३ नवम्बरमासः (हि.स.)। सॉफ्टवेयर-निर्माणी माइक्रोसॉफ्ट् इत्यस्य वैश्विकसेवासु उत्पन्नं व्यवधानं नवम्बरमासस्य १३ दिनाङ्के द्वितीय-दिनेऽपि निरन्तरम् अभवत्। विश्वस्य बृहत्तमायाः सॉफ्टवेयर-निर्माण्याः अनुसारं अस्य व्यवधानस्य पृष्ठतः दुर्भावना-पूर्णक्रियाकलापस्य अथवा साइबर-आक्रमणस्य किमपि सङ्केतः न प्राप्तः। सॉफ्टवेयर-निर्माण्याः सेवासु उत्पन्नेन व्यवधानेन ७४ देशेषु लक्षशः व्यावसायिकाः व्यक्तिगताः च उपयोक्तारः प्रभाविताः अभवन्।

कम्पनी समस्यायाः कारणानि अन्वेषयति। सम्प्रति तस्याः दुर्भावनापूर्णक्रिया-कलापस्य कापि सूचना नास्ति। कम्पनीस्य आउटलुक् तथा टीम्स इत्यादिनां बहूनां सेवासु द्वितीयदिनेऽपि व्यवधानः निरन्तरम् आसीत्, येन भारतसहितं विश्वस्य विभिन्नदेशानां उपयोक्तारः कष्टम् अनुभूतवन्तः। माइक्रोसॉफ्ट् इत्यस्य वैश्विकसेवासु एषः व्यवधानः भारतीयसमयानुसारं शुक्रवासरे पूर्वाह्णे ११ वादनात् १६ निमेषेषु अभवत्। माइक्रोसॉफ्ट् ३६५ इत्यस्य व्यावसायिक-उद्यम-ग्राहकेभ्यः तथा च उपभोक्तृभ्यः प्रदत्तासु सेवासु ‘सेवायाः अवनतिः’ इति सन्देशः प्रदर्शितः।

निर्माणी उक्तवती यत् सा सहसा वर्धितस्य ‘ट्रैफिक्’ इत्यस्य मूलकारणं ज्ञातुं तथा च स्वस्य पृष्ठभागीय-सर्वर-यन्त्राणि पुनः प्रवर्तयितुं बहुस्तरीयेषु प्रयासेषु संलग्ना अस्ति। माइक्रोसॉफ्ट् उक्तवती यत् सम्प्रति अस्या: घटनायाः पृष्ठतः कस्यापि दुर्भावनापूर्णक्रियाकलापस्य सूचना नास्ति। समस्या दूरीकृत्य अनन्तरं घटनायाः विस्तृतविवरणं मूलकारण-सम्बद्धे प्रतिवेदने प्रकाशितं करिष्यते।

भारते विमानसेवाप्रदात्री इण्डिगो उक्तवती यत् माइक्रोसॉफ्ट् इत्यस्य वैश्विकसेवासु व्यवधानकारणात् तस्याः ई-मेल्-सहायतासेवाः प्रभाविता: अभवन् तथा च सा ग्राहकाणां ई-मेल्-सन्देशान् प्राप्तुं न शक्नोति। विमानसेवाप्रदात्र्या ‘एक्स्’ इति सामाजिकमाध्यमे लिखितं यत् सहायतायाः अन्ये सर्वे माध्यमाः उपलब्धाः सन्ति।

एयर् इण्डिया उक्तवती यत् वैश्विक-माइक्रोसॉफ्ट्-सेवाव्यवधानस्य तस्याः विमानानां सञ्चालनस्य उपरि किमपि प्रभावः न अभवत् तथा च सर्वाणि सञ्चालनकार्याणि सामान्यरूपेण प्रचलन्ति।

भारते उपयोक्तारः गुरुवासरे रात्रौ प्रायः ११ वादनात् समस्याविषये शिकायताः पञ्जीकर्तुम् आरब्धवन्तः। जालपुटेषु सेवाव्यवधानसम्बद्धानां सूचनानां सङ्ख्या रात्रौ न्यूना अभवत्, किन्तु शुक्रवासरे प्रातः षड्वादनानन्तरं तासु पुनः तीव्रवृद्धिः अभवत्।

Hindusthan Samachar / Divya Ranjan