अधुना एकयैव पंजिकया अमेरिकायाः सह यूरोपस्य सप्तसु प्रमुखासु शेयर-विपणिषु निवेशं कर्तुं शक्नुवन्ति भारतीयाः
नवदिल्ली, १३ नवम्बरमासः (हि.स.)। भारतीयनिवेशकानां कृते अधुना विदेशेषु निवेशस्य क्षेत्रम् अधिकं विस्तृतं जातम्। अद्यावधि केवलम् अमेरिकी-शेयर-विपण्ये निवेशं कुर्वन्तः भारतीयनिवेशकाः अधुना यूरोपस्य प्रमुखेषु विपणिषु अपि सरलतया धनं निवेशयितुं शक्नुवन्त
प्रतीकात्मक


नवदिल्ली, १३ नवम्बरमासः (हि.स.)। भारतीयनिवेशकानां कृते अधुना विदेशेषु निवेशस्य क्षेत्रम् अधिकं विस्तृतं जातम्। अद्यावधि केवलम् अमेरिकी-शेयर-विपण्ये निवेशं कुर्वन्तः भारतीयनिवेशकाः अधुना यूरोपस्य प्रमुखेषु विपणिषु अपि सरलतया धनं निवेशयितुं शक्नुवन्ति। नेशनल् स्टॉक् एक्सचेञ्ज् इत्यस्य गिफ्ट् सिटीस्थिता सहायकनिर्माणी एनएसई-आईएक्स ग्लोबल एक्सेस आईएफएससी लिमिटेड् इत्यनया स्वकीयासु अन्ताराष्ट्रिय-निवेशसेवासु महत्त्वपूर्णः विस्तारः कृतः।

अस्य नूतनविस्तारस्य अन्तर्गतं मञ्चेन यूरोपस्य सप्त प्रमुखदेशानां शेयर-विपण्याः संयोजिताः सन्ति। एतेषु फ्रान्स्, जर्मनी, आयर्लैण्ड्, इटली, नीदरलैण्ड्स्, स्विट्जरलैण्ड् तथा यूनाइटेड् किङ्गडम् इति देशाः अन्तर्भवन्ति। निर्माण्या कृतेन अस्याः घोषणायाः अनन्तरं भारतीयनिवेशकानां कृते वैश्विकस्तरे निवेशस्य नूतनाः अवसराः उद्घाटिताः सन्ति।

अस्याः नूतनव्यवस्थायाः माध्यमेन निवेशकाः ११,५०० तः अधिकासु अन्तरराष्ट्रीय-प्रतिभूतिषु प्रत्यक्षं निवेशस्य अवसरं प्राप्स्यन्ति। एतेषु उपलब्धेषु विकल्पेषु ८,२०० तः अधिकाः यूसीआईटीएस एक्सचेञ्ज् ट्रेडेड् फण्ड्स् अर्थात् ईटीएफ् अन्तर्भवन्ति। एतदतिरिक्तं निवेशकाः एतेषां सप्तदेशानां शेयर-विपण्येषु सूचीकृतानां प्रमुखानां यूरोपीय-निर्माणिनां शेयर इत्यादिनाम् अपि क्रय-विक्रयं कर्तुं शक्नुवन्ति।

एनएसईआईएक्सजीए इत्यस्य अनुसारं विगतेषु वर्षेषु भारतीयनिवेशकानां मध्ये वैश्विकविपणिषु निवेशं प्रति रुचिः अत्यन्तं तीव्रगत्या वर्धिता अस्ति। निवेशकाः अधुना स्वकीयम् निवेश-सञ्चयं केवलं गृहविपण्ये सीमितं स्थापयितुं न इच्छन्ति, अपितु विश्वस्य विभिन्नानां अर्थव्यवस्थानां निवेशं कृत्वा तस्य विस्तारं कर्तुम् इच्छन्ति। एतस्याः वर्धमानायाः आवश्यकतायाः दृष्ट्या गिफ्ट् सिटीस्थेन अनेन मञ्चेन यूरोपीय-विपण्याः स्वकीयव्यवस्थया सह संयोजयितुं निर्णयः कृतः। अस्याः सम्पूर्णस्य उपक्रमस्य प्रमुखं वैशिष्ट्यम् यूसीआईटीएस ईटीएफ इत्येषाम् उपलब्धता अस्ति। एते यूरोपीय-सङ्घस्य कठोरस्य पारदर्शिनः च नियामक-नमूनाया: अन्तर्गतं सञ्चालिताः एक्सचेञ्ज् ट्रेडेड् फण्ड्स् सन्ति। एतेषां कोषाणां माध्यमेन निवेशकाः विश्वस्य विभिन्नेषु सूचकाङ्केषु, क्षेत्रेषु, विषयेषु तथा सम्पत्तिवर्गेषु एकस्मिन्नेव समये निवेशं कर्तुं शक्नुवन्ति।

उदाहरणार्थं यदि कश्चित् निवेशकः यूरोपस्य कस्यचित् विशिष्टस्य औद्योगिकस्य अथवा प्रौद्योगिकीक्षेत्रस्य विकासस्य लाभं प्राप्तुम् इच्छति, तर्हि तेन प्रत्येकस्याः निर्माण्याः पृथक् शेयरं चयनं कर्तुं आवश्यकता न भविष्यति। सः तेन क्षेत्रेण सम्बद्धे ईटीएफ्-कोषे प्रत्यक्षं धनं निवेश्य सम्पूर्णस्य क्षेत्रस्य विकासस्य लाभं प्राप्तुं शक्नोति। अनेन निवेशकानां समस्या अपि न्यूनीभवति तथा च विभिन्नानां निर्माणिनां विषये अनुसन्धानाय अधिकः समयः अपि न व्ययितव्यः भवति।

विशेषज्ञानाम् अनुसारं भारतीय-निवेशकानां कृते यूसीआईटीएस ईटीएफ् इत्यस्य संरचना बहुभिः दृष्टिकोणैः अत्यन्तं लाभप्रदा सिद्ध्यति। अमेरिकी-विपण्ये सूचीकृतेषु ईटीएफ्-कोषेषु निवेशं कुर्वद्भिः भारतीयनिवेशकैर् लाभांशस्य उपरि २५ प्रतिशतपर्यन्तं विदहोल्डिङ्ग्-करः दातव्यः भवति। एतदतिरिक्तम् अमेरिकी-सम्पत्तिषु सम्पत्ति-करस्य समस्या अपि तिष्ठति।

अस्य विपरीतम् आयर्लैण्ड् अथवा लक्जमबर्ग् इत्यादिषु यूरोपीयदेशेषु पञ्जीकृतेषु यूसीआईटीएस ईटीएफ्-कोषेषु निवेशं कुर्वतां कृते करस्य दराः तुलनात्मकरूपेण न्यूनाः भवन्ति तथा च सम्पत्ति-करस्य भयम् अपि न भवति। एतदेव कारणं यत् विश्वस्य संस्थागताः व्यक्तिगताः च निवेशकाः अन्ताराष्ट्रिय-निवेशाय एतं माध्यमम् अधिकतया प्राधान्येन स्वीकुर्वन्ति।

अस्य मञ्चस्य अन्यदेकं महत्त्वपूर्णं वैशिष्ट्यम् अस्ति यत् निवेशकानां कृते विभिन्नदेशानां कृते पृथक्-पृथक् खातानि उद्घाटयितुं आवश्यकता न भविष्यति। एकस्य एकीकृतस्य अर्थात् समेकितस्य खातस्य माध्यमेन निवेशकाः अमेरिकायाः सह एतेषु सप्तसु यूरोपीय-विपणिषु अपि सरलतया वित्तीयव्यवहारान् कर्तुं शक्नुवन्ति। एषा सम्पूर्णा प्रक्रिया भारतीय-रिजर्व-बैङ्क इत्यस्य उदारीकृत-धनप्रेषण-योजनायाः तथा गिफ्ट् सिटी-नगरस्य नियामकनियमानां परिधौ एव सम्पादयिष्यते।

भारतीय-रिजर्व-बैङ्क इत्यस्य नियमानुसारं कोऽपि भारतीयनिवासी एकस्मिन् वित्तवर्षे द्विलक्षपञ्चाशत्-सहस्र-अमेरिकी-डॉलर्-परिमितां राशिं विदेशेषु निवेशाय प्रेषयितुं शक्नोति। गिफ्ट् सिटी-नगरस्य अयं मञ्चः निवेशकेभ्यः पूर्णतया वैधानिकं सुरक्षितं सुगमं च माध्यमं प्रददाति। अनेन विदेशीय-दलाल-संस्थासु प्रत्यक्षं पंजिकाम् उद्घाटयितुं तथा अन्ताराष्ट्रीय-धनान्तरणे उत्पद्यमानाभ्यः जटिलताभ्यः अपि मुक्तिः भविष्यति।

एनएसईआईएक्स ग्लोबल एक्सेस आईएफएससी लिमिटेड् नेशनल् स्टॉक् एक्सचेञ्ज् इत्यस्य अन्ताराष्ट्रिय-विनिमयस्य पूर्णस्वामित्वयुक्ता सहायक-निर्माणी अस्ति। एषा अन्ताराष्ट्रिय-वित्तीय-सेवा-केन्द्र-प्राधिकरणस्य नियमानाम् अन्तर्गतं ग्लोबल् एक्सेस् प्रोवाइडर् इति रूपेण पञ्जीकृता देशस्य प्रथमा संस्था अस्ति।

विपण्यविशेषज्ञानां मतम् अस्ति यत् अनेन पदक्षेपेण गृहनिवेशकाः स्वकीयेषु निवेशेषु भौगोलिक-विविधताम् आनेतुं महतीं सहायतां प्राप्स्यन्ति। यदा भारतीय-शेयर-विपण्ये आरोहणावरोहणस्य अथवा मन्दतायाः स्थितिः भवति, तदा यूरोपीय-अमेरिकी-विपण्येषु कृतः निवेशः निवेश-सञ्चयस्य सन्तुलनं स्थापयितुं शक्नोति। अग्रिमेषु दिनेषु अस्मिन् मञ्चे विश्वस्य कतिपयानि अन्यानि प्रमुख-विपण्याणि अपि संयोजयितुं सम्भावना अस्ति।

Hindusthan Samachar / Divya Ranjan