Enter your Email Address to subscribe to our newsletters

पञ्चसु जनपदेषु ७४ ग्रामाणां प्रायः ७२ सहस्रजनाः लाभान्विताः भविष्यन्ति, पेयजलापूर्तिः भूजलपुनर्भरणं च प्रोत्साहनं प्राप्स्यति
भुवनेश्वरम्, १३ नवम्बरमासः (हि.स.)। ओडिशासर्वकारेण राज्ये जलसुरक्षायाः तथा जलवायुपरिवर्तनस्य प्रभावानां सम्मुखीकरणक्षमतायाः च सुदृढीकरणाय महत्त्वपूर्णं पदक्षेपं स्वीकृतम्। सर्वकारेण एकमासाभ्यन्तरे ६२५.४७ कोटिरूप्यकाणां व्ययेन निर्मीयमाणानां पञ्च अन्तः-प्रवाहीजलसञ्चयसंरचनापरियोजनानां प्रशासनिकस्वीकृतिः प्रदत्ता। एताभिः परियोजनाभिः रायगडा, कालाहाण्डी, गञ्जाम्, बलाङ्गीर तथा सोनपुर-जनपदानां ७४ ग्रामाणां प्रायः ७२ सहस्रजनाः लाभान्विताः भविष्यन्ति इति अपेक्षा अस्ति। जलसंसाधनविभागेन एतत् सूचितम्।
एतासां परियोजनानां मुख्योद्देश्यं जलोपलब्धेः वर्धनम्, भूजलपुनर्भरणस्य प्रोत्साहनम्, पेयजलापूर्तेः सुदृढीकरणं तथा ग्रामीणजीविकायाः साधनानां विकासः अस्ति।
स्वीकृतासु पञ्चसु परियोजनासु रायगडाजनपदे वंशधारानद्यां धुआंपदर-नाम्नी तथा नागावलीनद्यां रेवतीगुडा-नाम्नी अन्तःप्रवाहीजलसञ्चयसंरचना अन्तर्भवतः। एतदतिरिक्तं गञ्जामजनपदे बहुदानद्यां भीमपुर-नाम्नी जलसञ्चय-संरचना, कालाहाण्डीजनपदस्य भवानी-पटना-खण्डस्य निजहरिडारा-ग्रामस्य समीपे मुरलीजोर-परियोजना तथा महानद्याः प्रमुखायां उपनद्याम् ओङ्गनद्यां कुटासिङ्गा-जलरोधकबन्धस्य निर्माणं करिष्यते। कुटासिङ्गा-जल-रोधकबन्धेन बलाङ्गीर-सोनपुर-जनपदयोः ग्रामीणक्षेत्राणि लाभान्वितानि भविष्यन्ति।
एताभिः संरचनाभिः वर्षाकाले नदीनां प्रवाहे उपलब्धस्य जलस्य सञ्चयः क्रियते, येन ग्रीष्मकाले न्यूनवृष्टिकाले च जलस्य उपलब्धता सुनिश्चितुं सहायता भविष्यति। एतदतिरिक्तं सञ्चितजलेन भूजलस्तरस्य उन्नतिः भविष्यति तथा कूपेषु नलकूपेषु च जलस्य उपलब्धता अधिककालपर्यन्तं स्थायिनी भविष्यति। अनेन जलसङ्कटस्य सम्मुखीभवन्तः ग्रामीणसमुदायाः अपि सहायतां प्राप्स्यन्ति इति अपेक्षा अस्ति।
सिञ्चनस्य ग्रामीणजीविकायाश्च प्रोत्साहनं भविष्यति
एताभिः परियोजनाभिः गृहजलावश्यक-तानां पूर्त्या सह सिञ्चनम्, पशुपालनम् अन्याः ग्रामीणजीविका-सम्बद्धाः गति-विधयः च प्रोत्साहनं प्राप्स्यन्ति। धुआंपदर, मुरलीजोर तथा रेवतीगुडा-परियोजनाभिः मत्स्य-पालनाय तत्सम्बद्धानां च अन्यासां गतिविधिनां कृते नूतनाः अवसराः उत्पद्यन्ते इति अपेक्षा अस्ति। अनेन ग्रामीणपरिवाराणां आयवर्धने सहायता भविष्यति।
राज्यसर्वकारः २०२४ तमवर्षात् अन्तः-प्रवाहीजलसञ्चयसंरचनाकार्यक्रमं अभियानरूपेण अग्रे नयति। अस्य अन्तर्गतं जलसंरक्षणे, जलसंसाधनानां सतत-प्रबन्धने तथा जलवायुपरिवर्तनस्य प्रभावानामनुरूपं आधारभूतसंरचनानां विकासे विशेषं ध्यानं दीयते।
विभागानुसारम्, एताभिः परियोजनाभिः जलोपलब्धेः सुधारणेन सह नदी-पारिस्थितिकीतन्त्रस्य संरक्षणे अपि सहायता भविष्यति। अनेन राज्ये दीर्घकालीनजलसुरक्षायाः पर्यावरण-सन्तुलनस्य च सुदृढीकरणे सहायता भविष्यति।
Hindusthan Samachar / Divya Ranjan