आसियान-भारतविकाससहकारप्रतिवेदनं प्रकाशितम्, आर्थिकसामरिकसहभागितायाः सुदृढीकरणे बलम् ।
नव दिल्ली, 13 नवंबरमासः (हि.स.)। विकासशीलदेशानां कृते अनुसन्धानसूचनाप्रणाल्याः (आरआईएस) अन्तर्गतं कार्यरतः आसियान-भारतकेन्द्रम् (एआईसी) आसियान-भारतविकाससहकारप्रतिवेदनस्य (एआईडीसीआर) तृतीयसंस्करणस्य विमोचनम् अकरोत्। विदेशमन्त्रालयस्य पूर्वविभागस्य
विदेश मंत्रालय के सचिव (पूर्व) राजदूत रुद्रेंद्र टंडन आसियान–भारत विकास एवं सहयोग रिपोर्ट के तीसरे संस्करण का विमोचन करते हुए।


नव दिल्ली, 13 नवंबरमासः (हि.स.)।

विकासशीलदेशानां कृते अनुसन्धानसूचनाप्रणाल्याः (आरआईएस) अन्तर्गतं कार्यरतः आसियान-भारतकेन्द्रम् (एआईसी) आसियान-भारतविकाससहकारप्रतिवेदनस्य (एआईडीसीआर) तृतीयसंस्करणस्य विमोचनम् अकरोत्। विदेशमन्त्रालयस्य पूर्वविभागस्य सचिवः राजदूतः रुद्रेन्द्र टण्डनः शुक्रवासरे इण्डिया हैबिटेट सेण्टर इत्यत्र आयोजिते उच्चस्तरीये कूटनीतिकनीतिविषयकसंवादकार्यक्रमे प्रतिवेदनमिदं विमोचितवान्।

‘वैश्विकानिश्चिततासु मार्गान्वेषणं सहभागितानां च सुदृढीकरणम्’ इति शीर्षकयुक्ते अस्मिन् प्रतिवेदने भारतस्य आसियानदेशानां च मध्ये आर्थिकसामरिकविकासात्मकसहकारस्य नूतनदिशां प्रदातुं महत्त्वपूर्णाः सुझावाः प्रस्तुताः सन्ति। त्रयोविंशतितमे आसियान-भारतशिखरसम्मेलने आयोज्यमाने सति अस्य विमोचनं विशेषमहत्त्वपूर्णं मन्यते।

प्रतिवेदनस्य विमोचनावसरे राजदूतः रुद्रेन्द्र टण्डनः आरआईएस-संस्थायाः आसियान-भारतकेन्द्रस्य च प्रयासानां प्रशंसाम् अकरोत्। सः अवदत् यत् वर्तमानवैश्विकपरिस्थितिषु प्रतिवेदनमिदं प्रासङ्गिकम् अस्ति तथा च भारत-आसियानसहभागितायाः अग्रे विकासाय उपयोगिनः नीतिविषयकसुझावान् प्रस्तौति। सः भारतस्य ‘एक्ट ईस्ट’ इति पूर्वाभिमुखनीतौ आसियानस्य केन्द्रीयभूमिकां रेखाङ्कयन् सुदृढस्य, एकीकृतस्य समृद्धस्य च आसियानस्य निर्माणे भारतस्य प्रतिबद्धतां पुनरुद्घोषितवान्।

टण्डनः समुद्रीसुरक्षां, आपदासहायतां, दूरसञ्चारं, ऊर्जासम्पर्कं, अङ्कीयसार्वजनिकाधारभूतसंरचनां च सहकारस्य प्रमुखान् उदयमानान् क्षेत्रान् अवदत्। तेन उक्तं यत् भारतस्य स्वदेशीयप्रौद्योगिक्या विकसितायाः चतुर्थपीढ्याः (४जी) दूरसञ्चारप्रणाल्याः, विद्युद्ग्रीडायाः एकीकरणस्य तथा अङ्कीयसार्वजनिकाधारभूतसंरचनायाः अनुभवः आसियानदेशानां आर्थिकैक्यस्य क्षेत्रीयमूल्यशृङ्खलानां च विकासे महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति।

आरआईएस-संस्थायाः महानिदेशकः प्रो. सचिनकुमारशर्मा अवदत् यत् भारतस्य आसियानदेशानां च आर्थिकसामरिकसम्बन्धानां सम्भावनाः ठोसपरिणामेषु परिणमयितुं आवश्यकता वर्तते। द्विपक्षीयव्यापारे वृद्धौ सत्यामपि क्षेत्रीयोत्पादनजालेषु अपेक्षितम् एकीकरणं नाभवत्। अतः औद्योगिकसहकारस्य, नियामकानुकूलतायाः, व्यापारसौकर्यस्य तथा क्षेत्रीयमूल्यशृङ्खलासु सूक्ष्मलघुमध्यमोद्यमानां सहभागितायाः वर्धनाय विशेषं बलं दातव्यम्।

कार्यक्रमे भारतस्थः फिलिपीन्सदेशस्य राजदूतः जोसेल एफ्. इग्नासियो व्यापकसामरिकसहभागितायाः सुदृढीकरणाय आसियान-भारतकार्ययोजनायाः २०२६-२०३० इत्यस्य निर्धारितसमयसीमायां क्रियान्वयनस्य आवश्यकता प्रतिपादितवान्। तेन आसियान-भारतवस्तुव्यापारसम्झौते (एआईटीआईजीए) शीघ्रं पुनरीक्षणं सम्पूर्णं कर्तुं तथा अङ्कीयप्रौद्योगिक्यां, नवीकरणीयोर्जायां, सम्पर्कव्यवस्थायां, सूक्ष्मलघुमध्यमोद्यमानां विकासे च सहयोगवर्धनस्य आवश्यकता उक्ता।

भारतस्थाः कम्बोडियादेशस्य राजदूता रथ मनी समावेशिन्याः विकासोन्मुख्याः च सहभागितायाः आवश्यकतायाः उपरि बलं दत्तवती। सा औद्योगिकविकासस्य, कृषेः आधुनिकीकरणस्य, कौशलविकासस्य, लघुमध्यमोद्यमानां सहभागितायाश्च वर्धनस्य आवश्यकताम् अवदत्। तया मेकाङ्ग-गङ्गासहकारस्य आसियान-भारतसहभागितायाश्च मध्ये उत्तमसमन्वयस्थापनस्य सुझावः अपि प्रदत्तः।

प्रतिवेदने आसियान-भारतसहभागितायाः चतुर्षु प्रमुखक्षेत्रेषु मूल्याङ्कनं कृतम् अस्ति। एतेषु सामरिकसहकारः समुद्रीसुरक्षा च, आर्थिकसम्बन्धाः क्षेत्रीयोत्पादनजालानि च, नीलार्थव्यवस्था सम्पर्कव्यवस्था च तथा अङ्कीयपरिवर्तनं सततविकासः क्षेत्रीयसुदृढता च अन्तर्भवन्ति।

प्रतिवेदने समुद्रीसहकारस्य सूचनाविनिमयस्य च सुदृढीकरणाय आसियान-भारतसमुद्रीसुरक्षाकार्यदलस्य गठनस्य प्रस्तावः प्रस्तुतः। तदतिरिक्तं क्षेत्रीयमूल्यशृङ्खलानां सुदृढीकरणाय आपूर्तिव्यवस्थायाः च अधिकप्रभावशीलतायै आसियान-भारतसमुद्रीमार्गपरियोजनायाः अनुशंसा कृता।

प्रतिवेदने अङ्कीयसार्वजनिकाधारभूतसंरचनायां, उत्तरदायित्वपूर्णकृत्रिमबुद्धिमत्तायां, नवीकरणीयोर्जायां, हरितहाइड्रोजने, जलवाय्वनुकूलने च सहकारवर्धनस्य आवश्यकता प्रतिपादिता। जलवायुसम्बद्धानाम् आँकडानां विनिमयाय आपदासज्जतायै च हिन्द-प्रशान्तसीमापारसूचनामञ्चस्य स्थापनायाः सुझावः अपि प्रदत्तः।

प्रतिवेदनविमोचनानन्तरं ‘वैश्विकानिश्चिततासु मार्गान्वेषणं सुदृढतायाः निर्माणं च’ इति विषये विचारगोष्ठी आयोजिता। अस्याः अध्यक्षता विदेशमन्त्रालयस्य पूर्वसचिवा राजदूता रीवा गाङ्गुली दासः कृतवती। आरआईएस-संस्थायाः प्राध्यापकः तथा एआईडीसीआर-प्रतिवेदनस्य विभिन्नसंस्करणानां प्रमुखसम्पादकः डॉ. प्रबीर डे प्रतिवेदनस्य प्रमुखानां सुझावानां निष्कर्षाणां च विषये सूचनाः प्रदत्तवान्। चर्चायां भारतस्य आसियानदेशानां च विशेषज्ञैः क्षेत्रीयपरिस्थितीनां सहकारस्य नूतनसम्भावनानां च विषये विचाराः प्रस्तुताः।

कार्यक्रमे फिलिपीन्स, कम्बोडिया, ब्रुनेई दारुस्सलाम, तिमोर-लेस्ते, म्यान्मारदेशानां राजदूतैः सह मलेशियादेशस्य कार्यवाहककूटनीतिज्ञेन तथा सिङ्गापुर, इण्डोनेशिया, थाईलैण्ड, वियतनामदेशानां वरिष्ठकूटनीतिज्ञैः सहभागिता कृता। तदतिरिक्तं नीतिनिर्मातारः, शिक्षाविदः, क्षेत्रीयविशेषज्ञाश्च उपस्थिताः आसन्।

अयं संवादः वर्षे २०२७ तमे आसियान-भारतसंवादसम्बन्धानां स्थापनायाः पञ्चत्रिंशत्तमवर्षगंथेः पूर्वं महत्त्वपूर्णस्य नीतिविषयकस्य मञ्चस्य रूपेण समुपस्थितः। प्रतिवेदने स्पष्टं कृतं यत् परिवर्तमानवैश्विकपरिस्थितिषु भारतस्य आसियानदेशानां च सामरिकसहभागितां व्यावहारिकोपक्रमेषु परिणमयितुं, आर्थिकैक्यं वर्धयितुं, साझा समृद्धये च परस्परं मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।

--------

Hindusthan Samachar / Dheeraj Maithani