(मुख्यवार्ता) शाङ्घाईसहकारसङ्घटनस्य (एससीओ) प्रथमस्य सभ्यताविषयकसंवादमञ्चस्य प्रधानमन्त्री उद्घाटनं करिष्यति
नवदिल्ली, 13 नवंबरमासः (हि.स.)। शाङ्घाईसहकारसङ्घटनस्य प्रथमस्य सभ्यताविषयकसंवादमञ्चस्य आयोजनं भारतं करिष्यति। अस्य आयोजनं नवम्बरमासस्य २० दिनाङ्कतः २३ दिनाङ्कपर्यन्तं देहलीनगरे स्थिते पुरानाकिलापरिसरे भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अस्य मञ्
केंद्रीय मंत्री गजेंद्र सिंह शेखावत


केंद्रीय मंत्री गजेंद्र सिंह शेखावत


नवदिल्ली, 13 नवंबरमासः (हि.स.)।

शाङ्घाईसहकारसङ्घटनस्य प्रथमस्य सभ्यताविषयकसंवादमञ्चस्य आयोजनं भारतं करिष्यति। अस्य आयोजनं नवम्बरमासस्य २० दिनाङ्कतः २३ दिनाङ्कपर्यन्तं देहलीनगरे स्थिते पुरानाकिलापरिसरे भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अस्य मञ्चस्य उद्घाटनं करिष्यति। सम्मेलने एससीओ-सङ्घटनस्य सर्वेषां दश सदस्यदेशानां प्रतिनिधिभिः सह पर्यवेक्षकदेशानां संवादसहभागिदेशानां च प्रतिनिधीनां सहभागितायाः सम्भावना अस्ति। अस्मिन् संवादे पाकिस्तानसहिताः सर्वे सदस्यदेशाः आमन्त्रिताः सन्ति।

केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंह शेखावतः शुक्रवासरे भारतमण्डपम् इत्यत्र आयोजितायां पत्रकारवार्तायाम् अस्य आयोजनस्य सूचनां प्रदत्तवान्। तेन उक्तं यत् अस्य मञ्चस्य प्रमुखम् उद्देश्यम् एससीओ-सदस्यदेशानां मध्ये साझा-सांस्कृतिकविरासतायाः, प्राचीनसभ्यतानाम्, कलायाः, साहित्यस्य, ऐतिहासिकपरम्पराणां च माध्यमेन परस्परसहकारं वर्धयितुं जनानां मध्ये सम्बन्धान् च सुदृढीकर्तुम् अस्ति।

तेन सूचितं यत् अस्य मञ्चस्य परिकल्पना प्रधानमन्त्री नरेन्द्रमोदिना सितम्बरमासे २०२५ तमे वर्षे चीनदेशस्य तियानजिननगरे आयोजिते एससीओ-शिखरसम्मेलने प्रस्तुता आसीत्। अस्य प्रस्तावस्य उद्देश्यम् सदस्यदेशेभ्यः तेषां सहस्रवर्षप्राचीनानां सभ्यतानां, सांस्कृतिकोपलब्धीनां, ऐतिहासिकविरासतायाश्च आदानप्रदानाय अन्तरराष्ट्रीयमञ्चं प्रदातुम् आसीत्। अनन्तरं सङ्घटनेन अयं प्रस्तावः स्वीकृतः।

शेखावतेन उक्तं यत् अस्मिन् संवादे अधुना यावत् पञ्चदशदेशानां प्रतिनिधिभिः संस्कृतिमन्त्रिभिश्च सहभागितायाः पुष्टिः कृता अस्ति। एतेषु चीन, रूस, कजाकिस्तान, किर्गिस्तान, ताजिकिस्तान, उजबेकिस्तान, बेलारूस, ईरान इत्यादयः देशाः अन्तर्भवन्ति। कुलम् पञ्चविंशतिदेशेभ्यः निमन्त्रणानि प्रेषितानि सन्ति।

अस्मिन् संवादे पाकिस्तानस्य सहभागितायाः विषये पृष्टे केन्द्रीयमन्त्री अवदत् यत् सर्वेभ्यः सदस्यदेशेभ्यः निमन्त्रणानि प्रेषितानि सन्ति। पाकिस्तानपक्षतः अधुना यावत् सहभागितायाः पुष्टिः न कृता अस्ति।

शेखावतेन सूचितं यत् अस्य आयोजनस्य व्यवस्थायां संस्कृतिमन्त्रालयः विदेशमन्त्रालयश्च संयुक्तरूपेण सहभागितां करिष्यतः। षोडशशताब्द्यां निर्मितं पुरानाकिलम् अस्य अन्तरराष्ट्रीयसांस्कृतिकसंवादस्य प्रमुखं केन्द्रं भविष्यति।

भारतस्य आतिथ्ये आयोज्यमानः अयं प्रथमः सभ्यताविषयकसंवादमञ्चः सदस्यदेशानां मध्ये ऐतिहासिकसम्बन्धान्, साझा-सांस्कृतिकमूल्यानि, सभ्यतासहकारं च नूतनां दिशां प्रदातुं महत्त्वपूर्णः प्रयासः अस्ति। अस्य माध्यमेन सदस्यदेशानां मध्ये सांस्कृतिककूटनीतेः परस्परावबोधस्य च सुदृढीकरणाय प्रयासः क्रियते।

-----------

Hindusthan Samachar / Dheeraj Maithani