Enter your Email Address to subscribe to our newsletters

चण्डीगढम्, १३ नवम्बरमासः (हि.स.)। पञ्जाबस्य राज्यपालः केन्द्रशासित-प्रदेशस्य चण्डीगढस्य प्रशासकः गुलाबचन्दकटारिया श्रीगुरुनानकदेवं विश्वस्य महानतमेषु आध्यात्मिकेषु सामाजिकक्रान्तिकारिषु च अन्यतमम् अवर्णयत्। तेन उक्तं यत् गुरुदेवेन शताब्देभ्यः प्रचलितानाम् अन्धविश्वासानां, कर्मकाण्डानां, जातिगतभेदभावस्य सामाजिकविषमतानां च विरोधः कृतः तथा मानवतायै सत्यस्य, समानतायाः, करुणायाः सार्वभौमिक-भ्रातृत्वस्य च शाश्वतसन्देशः प्रदत्तः।
राज्यपालः पञ्जाबलोकभवनस्थिते गुरुनानकदेवसभागारे श्रीगुरुनानक-देवस्य ५५७ तमस्य प्रकाशपर्वणः उपलक्ष्ये आयोजिते शब्दकीर्तनकार्यक्रमे सम्बोधनं कुर्वन् आसीत्। अस्मिन् अवसरे गुरुद्वाराश्रीबेरसाहिब-सुल्तानपुरलोधी इत्यस्य हजूरीरागीभ्राता दिलबागसिंहः स्वीयेन कीर्तनदलेन सह भावपूर्णं शब्दकीर्तनम् अकरोत्, येन सम्पूर्णं वातावरणम् आध्यात्मिकश्रद्धया भक्तिभावेन च परिपूर्णम् अभवत्।
अस्मिन्नवसरे राज्यपालेन पञ्जाब-राज्यस्य सूचनायुक्तेन हरप्रीतसिंहसन्धुना सङ्कलितायाः पुस्तकायाः लोकार्पणमपि कृतम्। अस्मिन् प्रकाशने सुल्तान-पुरलोधी-नगरस्य गुरुद्वाराश्रीबेरसाहिबस्य च ऐतिहासिकं सांस्कृतिकम् आध्यात्मिकं च महत्त्वं प्रतिपादितम् अस्ति। अस्मिन् पवित्रस्थले श्रीगुरुनानकदेवः स्वजीवनस्य प्रायः १४ महत्त्वपूर्णानि वर्षाणि व्यतीतवान्।
सुल्तानपुरलोधी-नगरस्य आध्यात्मिकमहत्त्वं प्रतिपादयन् कटारियः अवदत् यत् श्रीगुरुनानकदेवस्य जीवने अस्याः पवित्रभूमेः विशेषं स्थानम् अस्ति। पवित्रकालिबेईनद्याः तटे एव गुरुसाहिबाय गहनम् आध्यात्मिकम् अनुभूतम् अभवत्। तस्य दिव्यसन्देशः ‘इक ओङ्कार’ इत्यनेन एकपरमात्मनः अवधारणायाः समस्त-मानवजात्याः समानतायाश्च आधारेण परिवर्तनकारिण्याः आध्यात्मिक-विचार-धारायाः आधारः स्थापितः। एषः सन्देशः जातिधर्मयोः सीमाभ्यः उपरि उत्थातुं प्रेरयति।
राज्यपालः अवदत् यत् गुरुसाहिबेन समाजः अन्धविश्वासात्, निरर्थककर्म-काण्डेभ्यः भेदभावाच्च उपरि उत्थाय सत्यनिष्ठजीवनं, तार्किकचिन्तनं, ईमानदारपरिश्रमं परमात्मनि च सच्चां भक्तिं स्वीकर्तुं प्रेरितः। तस्याः शाश्वताः शिक्षाः आदर्शजीवनं च पञ्चशताब्देभ्यः अनन्तरमपि मानवतायाः मार्गदर्शनं कुर्वन्ति।
कटारिया अवदत् यत् गुरुसाहिबस्य दिव्यशिक्षाः ‘किरत करो, नाम जपो, वण्ड छको’ अद्यतने कालेऽपि समानरूपेण प्रासङ्गिकाः सन्ति। तेन ‘सरबत दा भला’ इत्यस्य सामूहिककल्याणं, करुणां भ्रातृत्वं च आधारितं सार्वभौमिकम् आध्यात्मिक-दर्शनम् इति वर्णितम्। एतत् दर्शनं समस्तमानवजात्याः कल्याणाय समर्पिताः भवितुं प्रेरयति।
Hindusthan Samachar / Divya Ranjan