Enter your Email Address to subscribe to our newsletters

पौडीगढवालम्, १३ नवम्बरमास: (हि.स.)। पर्वतीयसंस्कृतेः, स्थानीयप्रतिभानां पर्यटनस्य च प्रोत्साहनस्य उद्देश्येन पौडी-नगरे नवम्बरमासस्य १६ तः १८ दिनाङ्कपर्यन्तं शरदोत्सवः-२०२६ आयो-जयिष्यते। अस्मिन् महोत्सवे क्रीडास्पर्धानां, सांस्कृतिककार्यक्रमाणां, विविधप्रति-योगितानां पर्यटनगतिविधिनां च माध्यमेन पौडी-नगरस्य परिचयं नवोन्नतिं नेतुं सज्जता प्रचलति। आयोजनस्य सज्जता-सम्बन्धे जनपदाधिकारी स्वाति एसभदौरिया सम्बन्धितविभागानां, नगर-पालिकायाः स्थानीयप्रतिनिधीनां च सह सभां कृत्वा आवश्यकनिर्देशान् दत्तवती।
नगरपालिकाध्यक्षया हिमानी नेगी इत्यनया उक्तं यत् शरदोत्सवस्य अन्तर्गतं पादकन्दुक-स्पर्धा नवम्बरमासस्य १४ दिनाङ्कात् आरभ्यते। मुख्यकार्यक्रमे छायाचित्र-कलायाः चित्रकलायाश्च प्रदर्शनी, शोभायात्राः, शिशुप्रदर्शनम्, रज्जुकर्षण-स्पर्धा, सङ्गीतमय-आसनक्रीडा, वाद-विवादस्पर्धा, सामान्यज्ञानस्पर्धा, मेहन्दी-प्रतियोगिता, रङ्गवल्लीप्रतियोगिता तथा विचित्रवेषभूषाप्रतियोगिता च आयोज-यिष्यन्ते। सांस्कृतिकप्रस्तुतिभिः सह नवम्बरमासस्य १६ दिनाङ्कस्य साय-ङ्काले रात्रिकालीनं वन्यजीवदर्शनम् अपि महोत्सवस्य विशेषाकर्षणं भविष्यति।
जनपदाधिकारिणी उक्तवती यत् शरदोत्सवः केवलं मनोरञ्जनपर्यन्तं सीमितः न भवेत्, अपितु पौडी-नगरस्य सांस्कृतिकवैभवस्य, स्थानीयप्रतिभानां पर्यटनस्य च प्रोत्साहनार्थं मञ्चरूपेण विकसितः भवेत्। अस्मिन् युवजनानां, कलाकाराणां, स्थानीयनागरिकाणां स्वयंसेवीसहायतासमूहानां च अधिकाधिकं सहभागिता सुनिश्चिता कार्या। तया रात्रिकालीनवन्यजीवदर्शनाय मार्गयोजनां, यातायातव्यवस्थां सुरक्षाव्यवस्थां च सुदृढां कर्तुं निर्देशाः दत्ताः। स्वास्थ्यविभागाय च एम्बुलेन्सयानानि चिकित्सासुविधाश्च सज्जाः स्थापयितुं निर्दिष्टम्।
हिमानी नेगी अवदत् यत् पौडी-नगरस्य पर्यटनाय नूतनां पहचानं प्रदातुं ‘पौडी एक पहल’ इत्यस्य अन्तर्गतं पर्यटनगोष्ठी अपि आयोजयिष्यते। सभायां विविधविभागेभ्यः आयोजनस्य दायित्वानि समर्पयन् स्वच्छतायाः, अलङ्करणस्य, विद्युत्व्य-वस्थायाः, मञ्चसञ्चालनस्य, विक्रयस्था-नकानां व्यवस्थायाश्च कार्याणि समये पूर्णानि कर्तुं निर्देशाः दत्ताः।
Hindusthan Samachar / Divya Ranjan