Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, १३ नवम्बरमासः (हि.स.)। जनगणना-२०२७ इत्यस्य द्वितीयचरणस्य सज्जतां दृष्ट्वा जनपदाधिकारी मयूरदीक्षितः शुक्रवासरे समाहरणालयस्य सभागारे सम्बन्धिताधिकारिभिः सह सभां कृतवान्। सः जनगणनायाः सर्वाणि कार्याणि निर्धारितसमयसीमायां सम्पादयितुं तथा जनपदाय निर्धारितं लक्ष्यं शीघ्रं प्राप्तुं च निर्देशान् दत्तवान्। सः अवदत् यत् जनगणना महत्त्वपूर्णं राष्ट्रियकार्यम् अस्ति। तस्य सफलसम्पादनाय सर्वैः अधिकारिभिः परस्परसमन्वयेन उत्तर-दायित्वेन च कार्यं करणीयम्।
सभायां सूचितं यत् जनगणना-२०२७ इत्यस्य द्वितीयचरणस्य अन्तर्गतं नवम्बरमासस्य १६ तः ३० दिनाङ्कपर्यन्तं स्वगणनाप्रक्रिया सञ्चालयिष्यते। अस्मिन् काले नागरिकैः स्वपरिवारसम्बद्धानां ४० प्रश्नानाम् उत्तराणि स्वयमेव अङ्कितव्यानि भविष्यन्ति। विशेषता इयं यत् स्वगणनायां पृष्टाः एते एव ४० प्रश्नाः पश्चात् गणकाः गृहे गृहे गत्वा अपि प्रक्ष्यन्ति।
अधिकारिभिः सूचितं यत् जनगणनायाः प्रथमचरणे गृहसूचीकरणस्य गृहगण-नायाश्च समये स्वगणनासुविधायाः लाभं स्वीकृत्य जनपदस्य प्रायः नवसहस्र-नागरिकैः स्वविवरणानि स्वयमेव अङ्कितानि आसन्। अस्मिन् समये द्वितीयचरणे ३० सहस्राधिकनागरिकाणां सहभागितां सुनिश्चितुं लक्ष्यं निर्धारितम् अस्ति।
जनपदाधिकारी अवदत् यत् स्वगणनया नागरिकाः स्वसुविधानुसारं परिवारस्य विवरणानि स्वयमेव अङ्कयितुं शक्नुवन्ति। अनेन गणकानां कृते गृहं गृहं गत्वा विवरणानां सङ्कलने यः समयः व्ययितः भवति, सः रक्षितः भविष्यति। येषां परिवाराणां स्वगणना सम्पन्ना भविष्यति, तेषां विषये गणकाः मुख्यतया अङ्कितविवरणानां सत्यापनं पुष्टिकरणं च करिष्यन्ति। अनेन जनगणनाप्रक्रिया अधिका सरला, सुव्यवस्थिता समयबद्धा च भविष्यति।
कार्यालयेभ्यः विद्यालयेभ्यः यावत् जागरूकताभियानं सञ्चालयिष्यते
स्वगणनायाः निर्धारितं लक्ष्यं प्राप्तुं जनपदप्रशासनेन व्यापकं जनजाग-रूकताभियानं सञ्चालयिष्यते। समाहरणा-लये, सर्वकारीयकार्यालयेषु, आरक्षकेन्द्रेषु, तहसीलेषु, चिकित्सालयेषु, बसस्थानकेषु रेलस्थानकेषु च विज्ञापनपट्टाः विज्ञापन-पट्टिकाः च स्थापयिष्यन्ते। विद्यालयेषु महाविद्यालयेषु च प्रभातशोभायात्राणां जागरूकता-कार्यक्रमाणां च आयोजनं भविष्यति।
एतदतिरिक्तं जनपदप्रशासनस्य आधि-कारिकेषु सामाजिकमाध्यमेषु, व्हाट्सएप्-प्रसारणवाहिनीद्वारा अन्येषु च अङ्कीय-माध्यमेषु प्रचारसन्देशाः, चलच्चित्रदृश्यानां माध्यमेन आह्वानानि जागरूकतासामग्री च प्रसारयिष्यन्ते। नगरनिगमस्य दृढाव-शिष्टसङ्ग्रहणयानैः सह अन्यैः नागरिकोपयोगियानैः ध्वनिविस्तारक-यन्त्राणां माध्यमेन अपि जनाः स्वगणनायै प्रेरिताः करिष्यन्ते। चलचित्रगृहेषु चलचित्रप्रदर्शनात् पूर्वं जनगणनासम्बद्धाः जागरूकतासन्देशाः अपि प्रदर्शयिष्यन्ते।
नागरिकेभ्यः स्वगणनां कर्तुं समाह्वानम्
जनपदाधिकारी मयूरदीक्षितः जनपद-वासिभ्यः आह्वानं कृतवान् यत् ते नवम्बरमासस्य १६ तः ३० दिनाङ्कपर्यन्तं स्वगणनां अवश्यं कुर्युः तथा स्वपरिवारजनान्, मित्राणि, समीपस्थान् च अस्यै कृते प्रेरयेयुः। सः अधिकारिभ्यः जागरूकतागतिविधीनां गतिं वर्धयितुं तथा ३० सहस्राधिकनागरिकाणां सहभागितायाः लक्ष्यं प्राप्तुं प्रभाविण्या कार्ययोजनया सह कार्यं कर्तुं निर्देशान् दत्तवान्। सः अवदत् यत् नागरिकाणां सक्रियसहभागितया जनगणनाप्रक्रियां सरलीकर्तुं शीघ्रं च सम्पादयितुं शक्यते।
अधिकाधिकजनान् स्वगणनाप्रक्रियया सह योजयित्वा जनगणना-२०२७ इत्यस्य सफलतां सुनिश्चितुं प्रशासनस्य उद्देश्यम् अस्ति।
सभायां मुख्यनगरायुक्तः नन्दनकुमारः, मुख्यविकासाधिकारी डॉ. ललितनारायण-मिश्रः, अपरजनपदाधिकारी वैभवगुप्तः, जनपदविकासाधिकारी कमलेशकुमार-पन्तः, जनपदपञ्चायतराजाधिकारी अतुलप्रतापसिंहः, जनपदशिक्षाधिकारी (माध्यमिकः) अभिषेकशुक्लः, तहसील-दारः सचिनकुमारः, रुडकीनगरस्य उपनगरायुक्ता अमरजीतकौरः, नारसन-खण्डस्य विकासखण्डाधिकारी पवनसिंह-सैनी, खानपुरस्य आलोकगार्गेयः तथा रुडकीनगरस्य सुमनकोठियालः इत्यादयः विभिन्नविभागानाम् अधिकारिणः उपस्थिताः आसन्। नगरपालिकानां नगरपञ्चायतानां च कार्यपाल-काधिकारिणः अपि सभायां सम्मिलिताः अभवन्। अनेके अधिकारिणः आभासीय-माध्यमेन सभायाम् अस्मिलन्।
Hindusthan Samachar / Divya Ranjan