दिल्लीस्थाः षट्शतं उद्यमाः ई-कॉमर्स-मञ्चेन सह संयोजिताः : सिरसा।
नव दिल्ली, 14 नवंबरमासः (हि.स.)।दिल्लीसर्वकारेण लघुसूक्ष्मोद्यमान् सशक्तान् कर्तुं सञ्चालितस्य प्रशिक्षणाभियानस्य अन्तर्गतं पञ्चमासेभ्यः न्यूनकाले एव ४५० प्रशिक्षणकार्यशालाः आयोजिताः। अस्य माध्यमेन दिल्लीप्रदेशस्य ६०० उद्यमाः विभिन्नैः ई-कॉमर्स-मञ्
दिल्ली के उद्योग मंत्री मनजिंदर सिंह सिरसा डीएसआईआईडीसी के प्रमुख कार्यों की समीक्षा करते हुए


नव दिल्ली, 14 नवंबरमासः (हि.स.)।दिल्लीसर्वकारेण लघुसूक्ष्मोद्यमान् सशक्तान् कर्तुं सञ्चालितस्य प्रशिक्षणाभियानस्य अन्तर्गतं पञ्चमासेभ्यः न्यूनकाले एव ४५० प्रशिक्षणकार्यशालाः आयोजिताः। अस्य माध्यमेन दिल्लीप्रदेशस्य ६०० उद्यमाः विभिन्नैः ई-कॉमर्स-मञ्चैः सह अपि संयोजिताः। दिल्लीप्रदेशस्य उद्योगमन्त्री मनजिन्दरसिंहसिरसा इत्यनेन विभागस्य अधीनस्थस्य दिल्लीप्रदेशीयस्य औद्योगिकमूलसंरचनाविकासनिगमस्य (डीएसआईआईडीसी) प्रमुखकार्याणां समीक्षायाः समये अस्य कार्यक्रमस्य प्रगतेः अवलोकनं कृतम्।

मन्त्री सिरसा शनिवासरे एकस्मिन् वक्तव्ये अवदत् यत् बवाना अथवा सङ्गमविहारे एकस्मिन् कक्षे स्वव्यवसायं सञ्चालयतः व्यक्तेः कृते अपि विपण्याः, ऋणस्य, व्यावसायिकमार्गदर्शनस्य च तादृशाः अवसराः उपलब्धाः भवेयुः, यादृशाः कस्यचित् बृहदुद्यमस्य कृते उपलभ्यन्ते। अस्माकं प्रयासः अस्ति यत् एताः सुविधाः लघूद्यमिभ्यः तेषां कार्यस्थले एव प्राप्येरन्। अस्माकम् उद्देश्यं केवलं प्रशिक्षणप्रदानं न, अपितु तेभ्यः व्यवसायविस्तारस्य नवीनविपणीभिः सह संयोजनस्य च अवसरान् उपलब्धान् कर्तुम् अस्ति।

तेन सूचितं यत् एताः प्रशिक्षणकार्यशालाः केन्द्रसर्वकारस्य ‘राइजिङ्ग एण्ड एक्सेलरेटिङ्ग एमएसएमई परफॉर्मेन्स’ (आरएएमपी) योजनायाः अन्तर्गतं आयोजिताः भवन्ति। जूनमासस्य २५ दिनाङ्कात् नवम्बरमासस्य १३ दिनाङ्कपर्यन्तं दिल्लीप्रदेशस्य २८ स्थानेषु आयोजितासु एतासु कार्यशालासु कुलम् १९,९३१ प्रतिभागिनः भागं गृहीतवन्तः। एते सर्वे प्रतिभागिनः लघुसूक्ष्मोद्यमैः सम्बद्धाः आसन्। प्रशिक्षणकार्यक्रमाः बवाना, नरेला, ओखला, मुंडका, नाङ्गलोई, जहांगीरपुरी, सङ्गमविहारः इत्यादिषु विभिन्नेषु औद्योगिकेषु आवासीयक्षेत्रेषु च आयोजिताः।

कार्यशालासु भागं गृहीतवत्सु प्रतिभागिषु ३,९०६ महिलानेतृत्वयुक्तोद्यमैः सम्बद्धाः आसन्। एतदतिरिक्तं अनुसूचितजातिवर्गीयोद्यमेभ्यः २,१९१, अनुसूचितजनजातिवर्गीयोद्यमेभ्यः २७३ तथा दिव्याङ्गजनैः सञ्चालितोद्यमेभ्यः ३३४ प्रतिभागिनः प्रशिक्षणं प्राप्तवन्तः।

मन्त्री सिरसा अवदत् यत् एतासु कार्यशालासु वित्तीयप्रबन्धनम्, आपूर्तिशृङ्खलाप्रबन्धनम्, साइबरसुरक्षा, पर्यावरणसम्बद्धाः, सामाजिकाः, प्रशासनिकाः मानदण्डाः, महिलानाम् उद्यमिता तथा डिजिटलमञ्चानां माध्यमेन उत्पादविक्रयः इत्यादिषु महत्त्वपूर्णविषयेषु प्रशिक्षणं प्रदीयते।

तेन सूचितं यत् अधुना यावत् कुलम् ६०० उद्यमाः ई-कॉमर्स-मञ्चेषु पञ्जीकृताः। एतेषु २४४ उद्यमाः केन्द्रसर्वकारसमर्थितेन ‘ओपन नेटवर्क फॉर डिजिटल कॉमर्स’ (ओएनडीसी) तथा १७ उद्यमाः ‘गवर्नमेण्ट ई-मार्केटप्लेस’ (जैम) इत्यनेन सह सम्बद्धाः सन्ति। एतदतिरिक्तं ४४ उद्यमाः फ्लिपकार्ट्-मञ्चेन, १० उद्यमाः अमेजन-मञ्चेन तथा २८५ उद्यमाः मीशो, जियोमार्ट्, इंस्टामार्ट्, ब्लिङ्किट् इत्यादिभिः निजी-डिजिटल-मञ्चैः सह स्वकीयां उपस्थितिं पञ्जीकृतवन्तः।

मन्त्री सिरसायाः विशेषः आग्रहः प्रशिक्षणं प्राप्तवद्भिः उद्यमिभिः व्यापकविपण्याः प्राप्तव्याः इति अस्ति, येन ते केवलं प्रशिक्षणपर्यन्तं सीमिताः न तिष्ठेयुः, अपितु डिजिटलविक्रयमञ्चानां माध्यमेन स्वोत्पादान् स्थानीयविपण्येभ्यः परं देशव्यापिनः ग्राहकान् यावत् प्रापयितुं शक्नुयुः।

तेन सूचितं यत् अस्याः पहलस्य माध्यमेन उद्यमिभिः प्राप्तलाभानां उदाहरणानि अपि समक्षम् आगतानि सन्ति। ‘हनीवाली’ इति ब्राण्ड्-नाम्ना शुद्धं प्राकृतिकं मधु विक्रीणती प्रवीणगोला अवदत् यत् पूर्वं सा मुख्यतया सामाजिकमाध्यमानां माध्यमेन स्वोत्पादान् विक्रीणाति स्म। प्रशिक्षणकाले प्राप्तस्य मार्गदर्शनस्य साहाय्येन तया अतिरिक्तेषु डिजिटलमञ्चेषु स्वव्यवसायस्य पञ्जीकरणं कारितम् तथा च एका बृहती थोकविक्रयसम्बद्धा क्रयादेशः अपि प्राप्तः।

एवमेव मिलेट्-आधारितानि कुकीजानि सत्तूलड्डुकानि च निर्मात्री तराशाकौरः अवदत् यत् वित्तीयप्रबन्धनस्य लेखाङ्कनस्य च प्रशिक्षणेन तस्यै बृहदादेशानां सम्यक् प्रबन्धने सहायता प्राप्ता। तया स्वोत्पादानां प्रदर्शनं दिल्लीसचिवालये अपि कृतम्।

अपरतः गृहे एव आचारं, पापडं, नमकीनं च निर्माय व्यवसायं सञ्चालयन्ती ‘नवकम एण्टरप्राइज’ इत्यस्य कामिनीपाठकः अवदत् यत् प्रशिक्षणेन तस्यै स्वव्यवसायं ऑनलाइन-माध्यमेन सञ्चालयितुं प्रेरणा प्राप्ता। अधुना सा प्रशिक्षणकाले अधीताः सूचनाः अन्याभिः महिलाभिः उद्यमिभिः सह अपि संविभजति।

मन्त्री सिरसा अवदत् यत् कार्यशालासु उद्यमिभिः ऋणयोजनानां सीमितसूचना, औपचारिकवित्तीयसहायतायाः प्राप्तौ कठिनता, स्थानीयविपण्येषु निर्भरता तथा अनुज्ञापत्राणां, प्रमाणीकरणस्य, अन्यनियामकप्रक्रियाणां च विषये मार्गदर्शनस्य अभावः इत्यादयः समस्याः प्रस्तुताः। एतासां चुनौतीनां दृष्ट्या कार्यक्रमस्य अन्तर्गतं वित्तीयानुशासनस्य लेखाङ्कनस्य च, व्यवसायाय नवीनविपण्येषु प्रवेशस्य तथा केन्द्रराज्यसर्वकारयोः विविधयोजनानां सूचनाप्रदानस्य च विषये विशेषं ध्यानं दीयते। प्रशिक्षकैः उद्यमिभ्यः आवश्यकप्रक्रियाणां उपलब्धसर्वकारीयसुविधानां च विषये मार्गदर्शनमपि प्रदीयते।

अस्य कार्यक्रमस्य अन्तर्गतं कुलम् ८२४ प्रशिक्षणकार्यशालानाम् आयोजनस्य लक्ष्यं निर्धारितम् अस्ति। उद्योगमन्त्रिणा जनवरीमासस्य २०२७ पर्यन्तं सर्वासां प्रशिक्षणकार्यशालानां समापनस्य लक्ष्यं निर्धारितम्।

उल्लेखनीयं यत् दिल्लीप्रदेशे उद्यम-पटले इति जालस्थले पञ्जीकृतानाम् उद्यमानां सङ्ख्या १२.६४ लक्षम् अस्ति।

------------

Hindusthan Samachar / Dheeraj Maithani