छठमहापर्वणि श्रद्धालूनां सुविधार्थं पटनाजनपदप्रशासनेन डिजिटल् वेब् ऐप् प्रारब्धम्।
*छठमहापर्वणि श्रद्धालूनां सुविधार्थं पटनाजनपदप्रशासनेन डिजिटल् वेब् ऐप् प्रारब्धम्** पटना, १४ नवम्बरमासः।बिहारस्य मुख्यमन्त्रिणः सम्राट् चौधरी इत्यस्य प्रयासेन पटनाजनपदप्रशासनेन छठमहापर्वणः २०२६ तमस्य आयोजनकाले श्रद्धालूनां सुविधायै सुरक्षायै च व
छठ पूजा की फोटो


**छठमहापर्वणि श्रद्धालूनां सुविधार्थं पटनाजनपदप्रशासनेन डिजिटल् वेब् ऐप् प्रारब्धम्**

पटना, १४ नवम्बरमासः।बिहारस्य मुख्यमन्त्रिणः सम्राट् चौधरी इत्यस्य प्रयासेन पटनाजनपदप्रशासनेन छठमहापर्वणः २०२६ तमस्य आयोजनकाले श्रद्धालूनां सुविधायै सुरक्षायै च विशेषा डिजिटलव्यवस्था निर्मिता अस्ति। अस्याः अन्तर्गतं ‘छठ पूजा पटना डॉट कॉम’ (chhathpujapatna.com) इति नाम्ना आधिकारिकं वेब् ऐप् विकसितम् अस्ति। अस्य ऐप् माध्यमेन श्रद्धालुभ्यः छठघाटानां स्थितेः, शौचालयानां, वस्त्रपरिवर्तनकक्षाणां, पेयजलस्य, वाहनस्थानकानां सुरक्षाप्रबन्धानां च सर्वाः आवश्यकसूचनाः एकेन क्लिक्-माध्यमेन उपलब्धाः भविष्यन्ति।

अस्य ऐप् इत्यस्य सर्वप्रमुखं वैशिष्ट्यम् अस्ति यत् अन्तर्जालसञ्जालस्य अनुपलब्धतायाम् अपि एतत् कार्यं करिष्यति। अनेन घाटेषु अन्तर्जालसञ्जालस्य समस्यायाः सत्त्वे अपि श्रद्धालवः आवश्यकसूचनाः प्राप्तुं शक्नुवन्ति। डिजिटलप्रौद्योगिक्याः माध्यमेन छठमहापर्व सुरक्षितं, सुगमं सुविधाजनकं च कर्तुं दिशि एषा जनपदप्रशासनस्य महत्त्वपूर्णा पहलः मन्यते।

जनपदप्रशासनेन अस्मिन् वर्षे छठपर्वणः अवसरे श्रद्धालूनां सुविधायै ६०७ अस्थायिशौचालयाः, ५६० मूत्रालयाः, ४५३ वस्त्रपरिवर्तनकक्षाः तथा ३२१ नौकाः नौकाचालकाश्च व्यवस्थापिताः सन्ति। सुरक्षायै ४३२ गोताखोरैः सह राष्ट्रियापदाप्रतिक्रियाबलस्य (एनडीआरएफ) नव दलानि तथा राज्यापदाप्रतिक्रियाबलस्य (एसडीआरएफ) अष्ट दलानि नियोजितानि भविष्यन्ति।

वेब् ऐप् उद्घाटितमात्रेण श्रद्धालुभ्यः पटनानगरस्य छठघाटानां मानचित्रं दृश्यते। अस्य माध्यमेन ते स्वसमीपस्थानां घाटानां स्थितिं तत्र उपलब्धानां सुविधानां च सूचनां प्राप्तुं शक्नुवन्ति। ऐप् मध्ये नवतिः सुरक्षितघाटाः, अष्टौ संकटापन्नघाटाः तथा सप्त अनुपयुक्तघाटाः चिह्निताः सन्ति। एतदतिरिक्तं नव प्राथमिकचिकित्साकेन्द्राणि, एकोनविंशतिः सहायताकेन्द्राणि, पञ्चविंशतिः शौचालयस्थानानि, सप्तविंशतिः वस्त्रपरिवर्तनकक्षाः, चतुर्दश पेयजलकेन्द्राणि तथा षट्चत्वारिंशत् वाहनस्थानकानि च सूचितानि सन्ति।

अस्य ऐप् इत्यस्य अन्यद् महत्त्वपूर्णं वैशिष्ट्यम् अस्ति यत् एतत् श्रद्धालून् सुरक्षितघाटान् प्रति गन्तुं मार्गदर्शनं करिष्यति। संकटापन्नाः अनुपयुक्ताश्च घोषिताः घाटाः प्रति गमनाय ऐप् मध्ये मार्गमानचित्रं उपलब्धं न भविष्यति, येन श्रद्धालवः अनवधानतया जोखिमयुक्तस्थानेषु न प्राप्नुयुः।

श्रद्धालवः स्वकीयाम् आवश्यकताम् अनुसृत्य ऐप् मध्ये उपलब्धेषु विभिन्नविकल्पेषु क्लिक् कृत्वा सम्बन्धितसुविधानां व्यवस्थायाश्च सूचनाः प्राप्तुं शक्नुवन्ति।

उल्लेखनीयं यत् छठमहापर्व आस्था-विश्वासस्य सूर्योपासनायाश्च प्रमुखं पर्व अस्ति। अस्मिन् अवसरे लक्षशः श्रद्धालवः गङ्गायाः सहितानां विभिन्ननदीनां जलाशयानां च तटेषु स्थितेषु घाटेषु भगवान् सूर्याय अर्घ्यं समर्पयन्ति। एतावतीनां विशालसंख्यकानां श्रद्धालूनां सुविधां सुरक्षां च सुनिश्चितं कर्तुं प्रशासनाय महती चुनौती भवति। जनपदप्रशासनस्य अस्याः डिजिटलपहलस्य माध्यमेन श्रद्धालुभ्यः घाटेषु गमनात् पूर्वमेव आवश्यकसूचनाः प्राप्स्यन्ते तथा च सुविधानां अन्वेषणाय इतस्ततः भ्रमणस्य आवश्यकता न भविष्यति।

Hindusthan Samachar / Dheeraj Maithani