Enter your Email Address to subscribe to our newsletters


गुजरातम्, १४ नवम्बरमासः (हि.स.)। लोकश्रद्धायाः महापर्वणः छठपूजायाः कृते गुजरातस्य प्रमुखेषु अहमदाबाद-सूरत-वडोदरा-नगरेषु सज्जताः अन्तिमचरणं प्राप्ताः। पूजाघाटानां परिष्करणं शृङ्गारकरणं च सह तत्र सर्वासाम् आवश्यकसुविधानां व्यवस्था क्रियते। सूरतनगरे २२ तः अधिकेषु स्थानेषु आयोजनानि क्रियन्ते।
बिहार-झारखण्ड-उत्तरप्रदेशादिभ्यः विभिन्नराज्येभ्यः आगत्य गुजरातप्रदेशे निवसतां परिवाराणां मध्ये अस्य पर्वणः विषये विशेषोत्साहः दृश्यते। १५ नवम्बरमासे अस्ताचलगामिने सूर्याय अर्घ्यं प्रदास्यते, १६ नवम्बरमासस्य प्रातःकाले च उदयमानाय सूर्याय अर्घ्यं प्रदाय चतुर्दिवसीयस्य महापर्वणः समापनं भविष्यति। पूजार्थं नदीनां, सरोवराणां, कृत्रिमघाटानां च स्वच्छतायै, प्रकाशव्यवस्थायै, अलङ्करणाय श्रद्धालूनां सुविधायै च विशेषव्यवस्थाः क्रियन्ते।
अहमदाबादे साबरमतीनद्याः तटे विशेषघाटस्य व्यवस्था
छठपूजासमित्याः अध्यक्षः महादेवभाई झा अवदत् यत् प्रतिवर्षमिव अस्मिन् वर्षेऽपि छठपूजायाः सर्वाः सज्जताः पूर्णाः कृताः। अस्मिन् वर्षे विशेषतया सुखदः विषयः अस्ति यत् येषां श्रद्धालूनां पूर्वं घाटेषु असुविधाः भवन्ति स्म, तेभ्यः अधुना तादृश्याः समस्याः न भविष्यन्ति। नगरे अनेके नवीनघाटाः निर्मिताः, येन पूजाकरणं सुकरं भविष्यति।
सः अवदत् यत् सर्वकारस्य नगरनिगमस्य च पक्षतः अपि आयोजने पूर्ण: सहयोगः प्राप्यते। रात्रौ घाटेषु निवसतां श्रद्धालूनां कृते कृशर-तेमन-भोजनस्य व्यवस्था अपि कृता अस्ति।
अहमदाबादनगरे छठपूजायै साबरमतीनद्याः तीरे इन्दिरासेतोः समीपे विशेषघाटः सज्जीकृतः अस्ति। तदतिरिक्तम् अमराईवाडी, सरसपुर, मेघाणीनगर, हाटकेश्वर इत्यादिषु विभिन्नक्षेत्रेषु अपि कृत्रिमघाटाः निर्मिताः सन्ति। दूरस्थेभ्यः आगच्छतां श्रद्धालूनां कृते घाटेषु निवासस्य व्यवस्था क्रियते। समीपस्थेषु क्षेत्रेषु निवसन्तः परिवाराः प्रातःकाले पूजार्थं घाटेषु आगमिष्यन्ति।
श्रद्धालूनां सुविधां सुरक्षां च दृष्ट्वा घाटानां स्वच्छता, प्रकाशव्यवस्था, अलङ्करणम् अन्याश्च आवश्यकव्यवस्थाः क्रियन्ते। प्रशासनस्य प्राथमिकता अस्ति यत् श्रद्धालवः सुरक्षितरूपेण पूजां कर्तुं सूर्याय अर्घ्यं च प्रदातुं शक्नुयुः।
वडोदरायां महीसागरनद्याः तीरे भविष्यति भव्यः समारोहः
वडोदरायाः फाजलपुरे हिन्दीविकासमञ्चस्य तत्त्वावधाने महीसागरनद्याः तीरे छठीमातुः पूजनस्य आयोजनं क्रियते। विगतैः २८ वर्षैः निरन्तरम् आयोज्यमानस्य अस्य पारम्परिकमहोत्सवस्य कृते आयोजकैः विशेषसज्जताः कृताः। आयोजनं भव्यं कर्तुं मुम्बईनगरस्य प्रसिद्धाः कलाकाराः अपि महीनद्याः तीरे आगत्य भक्तिसङ्गीतस्य प्रस्तुतिं करिष्यन्ति। एतेन छठपूजायाः अवसरे सम्पूर्णं वातावरणं भक्तिमयं कर्तुं सज्जता क्रियते।
सूरतनगरे २२ तः अधिकेषु स्थानेषु छठपूजायाः आयोजनम्
सूरतनगरे छठमहापर्वणः विषये विशेषोत्साहः दृश्यते। नगरे २२ तः अधिकेषु स्थानेषु छठपूजायाः आयोजनानि क्रियन्ते। डिण्डोली, भेस्तान, वेडरोड, कतारगाम, सचिन, पाण्डेसरा, नवावाडा, पार्ले-पॉइण्ट, रान्देर, अडाजण, कडोदरा इत्यादिषु अनेकेषु क्षेत्रेषु पूजार्थं घाटाः सज्जीक्रियन्ते।
एतेषु डिण्डोली-छठसरोवरं तथा वियर-कम-कॉजवे इत्यत्र सर्वाधिकाः श्रद्धालवः आगमिष्यन्तीति सम्भावना अस्ति। अनुमानम् अस्ति यत् केवलं डिण्डोली-छठसरोवरे एव प्रायः एकलक्षं श्रद्धालवः पूजार्चनार्थम् एकत्रिताः भविष्यन्ति। सम्पूर्णे सूरतनगरे विभिन्नेषु घाटेषु प्रायः पञ्चलक्षं श्रद्धालवः आगमिष्यन्तीति अनुमानम् अस्ति।
१९८८ तमे वर्षे डिण्डोलीनगरे आरब्धा छठपूजायाः परम्परा
डिण्डोली-छठसरोवरे बहुवर्षेभ्यः आयोजनं कुर्वतः श्रीछठमानवसेवाट्रस्ट् इत्यस्य संस्थापकः प्रमुखश्च राजेन्द्र उपाध्यायः अवदत् यत् १९८८ तमे वर्षे यदा सः श्रमिक-अनुबन्धकत्वेन कार्यं करोति स्म, तदा तेन दृष्टं यत् अनेकाः श्रमिकपरिवाराः आर्थिककारणैः कार्यसम्बद्धाभिः विवशता-भिश्च छठपूजां कर्तुं स्वग्रामं गन्तुं न शक्नुवन्ति स्म। एतेन ते अत्यन्तं निराशाः भवन्ति स्म।
श्रमिकपरिवाराणाम् एतां समस्यां दृष्ट्वा तेन सर्वप्रथमं गोडादरायां नहरस्य तटे छठपूजायाः आयोजनम् आरब्धम्। अनन्तरं नहरस्य पूरणानन्तरं डिण्डोलीग्रामस्य सरोवरे पूजायाः परम्परा प्रारब्धा। अधुना अत्र बहुसङ्ख्यकाः श्रद्धालवः छठीमातुः पूजार्थम् आगच्छन्ति। सः अवदत् यत् अधुना श्रीछठमानवसेवाट्रस्ट् इत्यनेन सह महानगरपालिकया अपि आयोजने सहयोगः क्रियते। अत्र ३०० प्रकाशदीपानां व्यवस्था, अग्निशमनविभागस्य त्रयः नौकाः, महानगरपालिकायाः ५० कर्मचारिणः, ट्रस्ट्-सङ्घटनस्य ३०० तः अधिकाः स्वयंसेवकाश्च सुरक्षाव्यवस्थायै नियोजिताः भविष्यन्ति।
वेडरोड-वियर-कम-कॉजवे इत्यत्र आयोज्यमानस्य छठमहोत्सवस्य विषये बिहारविकासमण्डलस्य प्रमुखः प्रभुनाथ-यादवः अवदत् यत् सूरतमहानगर-पालिकया अस्माभिश्च स्वयंसेवकैः उत्तमाः सज्जताः कृताः सन्ति, यतः प्रतिवर्षम् अत्र श्रद्धालूनां सङ्ख्या वर्धमाना अस्ति।
Hindusthan Samachar / Divya Ranjan