भगवत: बिरसामुण्डायाः बलिदानम् आदर्शाश्च शताब्दीपर्यन्तं देशवासिनः प्रेरयिष्यन्ति - मोहनयादवः
भोपालम्, १४ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् केवलं २५ वर्षाणाम् अल्पजीवने भगवान् बिरसामुण्डः संघर्षस्य, त्यागस्य, स्वाभिमानस्य, राष्ट्रभक्तेश्च एतादृशीम् आदर्शमयीं परम्परां स्थापितवान्, यां देशः कदापि विस्मर
जबलपुर में जनजातीय गौरव दिवस के राज्य स्तरीय समारोह को संबोधित करते हुए मुख्यमंत्री


भोपालम्, १४ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् केवलं २५ वर्षाणाम् अल्पजीवने भगवान् बिरसामुण्डः संघर्षस्य, त्यागस्य, स्वाभिमानस्य, राष्ट्रभक्तेश्च एतादृशीम् आदर्शमयीं परम्परां स्थापितवान्, यां देशः कदापि विस्मर्तुं न शक्नोति। सः जनजातीयास्मितायाः, स्वाभिमानस्य सुशासनस्य च अमरः प्रतीकः अस्ति। तस्य योगदानस्य स्मरणं यावदपि क्रियते, तत् न्यूनमेव भविष्यति।

मुख्यमन्त्री डॉ. यादवः शनिवासरे जबलपुरे राज्यस्तरीयस्य जनजातीयगौरवदिवसस्य उद्घाटनसमारोहं सम्बोधयति स्म। अस्मिन् अवसरे १३३ कोटि: ५ लक्षं ९७ सहस्ररूप्यकाणां कुलव्ययेन निर्मितानां विकासकार्याणां लोकार्पणं तथा च भूमिपूजनं कृतम्। समारोहस्य अवसरे मुख्यमन्त्रिणा विभिन्नेषु क्षेत्रेषु उल्लेखनीयकार्यं कृतवन्तः जनजातीय-समाजस्य प्रतिभाशालिनः जनाः सम्मानिताः।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारः देशस्य महत: जनजातीयनायकानां यथोचितं सम्मानं परिचयं च प्रदातुं कार्यं कुर्वन् अस्ति। जनजातीयसमाजस्य वीरनायकाः आङ्ग्लशासनस्य पूर्ववर्तिसत्तानां च विरुद्धं संघर्षं कुर्वन्तः देशस्य स्वातन्त्र्यस्य, संस्कृतेः, स्वाभिमानस्य च रक्षणार्थं सर्वस्वं समर्पितवन्तः। राणीदुर्गावती, राजा शङ्करशाहः, रघुनाथशाहः इत्यादिनां अनेकेषां महानायकानाम् इतिहासः अस्माकं गौरवशाली-धरोहरः अस्ति।

सः अवदत् यत् भगवान् बिरसामुण्डा जलस्य, वनस्य, भूमेः च अधिकारैः सह स्वसंस्कृतेः परम्पराणां च संरक्षणार्थं जनजातीयसमाजं जागरूकं सङ्गठितं च भवितुं सन्देशं दत्तवान्। तस्य विचारः आसीत् यत् स्वाभिमानात् श्रेष्ठं किमपि धनं नास्ति तथा संस्कृतेः श्रेष्ठम् अन्यदाभरणं नास्ति। आङ्ग्लशासनस्य अत्याचाराणां विरुद्धं तस्य संघर्षः अद्यापि अस्मान् अन्यायस्य विरुद्धं दृढतया स्थातुं प्रेरयति।

मुख्यमन्त्री उक्तवान् यत् भगवत: बिरसामुण्डाया: जीवनम् अस्मान् स्वसंस्कृतौ गौरवं कर्तुं, अन्यायस्य विरुद्धं संघर्षं कर्तुं, राष्ट्रहिताय समर्पितभावेन कार्यं कर्तुं च प्रेरयति। तस्य आदर्शानाम् आत्मसात्करणेन जनजातीयसमाजस्य सर्वाङ्गीणविकासाय प्रदेशस्य प्रगत्यै च निरन्तरं कार्यं करणमेव तस्मै सत्या श्रद्धाञ्जलिः भविष्यति।

सः अवदत् यत् जनजातीयनायकानां स्मृतीः चिरस्थायिनः कर्तुं प्रदेशसर्वकारः निरन्तरं प्रयासान् कुर्वन् अस्ति। राणीदुर्गावत्याः सम्मानार्थं जबलपुरे मन्त्रिमण्डलस्य सभा आयोजिता। राजा शङ्करशाहस्य रघुनाथशाहस्य च नाम्ना वैद्यकीयमहाविद्यालयस्य निर्माणं क्रियते। जनजातीयनायकस्य टंट्यामामायाः सम्मानार्थं खरगोने विश्वविद्यालयः स्थापितः। तथैव राजा भभूतसिंहस्य योगदानस्य स्मरणं कुर्वन् तस्य नाम्ना क्षेत्रस्य परिचयं स्थापयितुं प्रयासः कृतः। भीमानायकः, खाज्यानायकः, बादलभोई इत्यादीनां अनेकेषां जननायकानां योगदानम् अपि भाविवंशानां कृते प्रेरणास्रोतः अस्ति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् जनजातीयनायकानां सम्मानार्थं सम्पूर्णे सप्ताहे प्रदेशस्य सर्वेषु जनपदेषु, ९० विकासखण्डेषु, विद्यालयेषु, महाविद्यालयेषु, छात्रावासेषु च विविधाः कार्यक्रमाः आयोजयिष्यन्ते। एतेषां कार्यक्रमाणां माध्यमेन नववंश: स्वस्य गौरवशालिनम् इतिहासं महापुरुषाणां योगदानं च ज्ञातुं शक्नोति।

मुख्यमन्त्री उक्तवान् यत् जनजातीय-समाजस्य बालकेभ्यः उत्तमशिक्षां सुविधाश्च प्रदातुम् अस्मिन् अवसरे प्रायः १३३ कोटिरूप्यकाणां विकासकार्याणि समर्प्यन्ते। छिन्दवाडा, बालाघाट, डिण्डोरी इत्येतेषु स्थानेषु सान्दीपनि-विद्यालयानां माध्यमेन विद्यार्थिभ्यः आधुनिकाः शैक्षणिकसुविधाः प्रदीयन्ते। एतेषु विद्यालयेषु शिक्षया सह क्रीडायाः अन्यासां सहशैक्षणिकगति-विधिनां च विशेषं ध्यानं दास्यते।

सः अवदत् यत् प्रदेशे मण्डलायाम् अन्येषु च जनजातीयक्षेत्रेषु चिकित्सासुविधानां विस्तारार्थं वैद्यकीयमहाविद्यालयानां निर्माणं क्रियते। जनजातीयक्षेत्रेषु उद्योगानां स्थापनायै रोजगारस्य अवसराणां वर्धनाय च प्रयासाः अपि निरन्तरं प्रचलन्ति। सः लाडलीबहना-योजना, प्रधानमन्त्रीकृषक-सम्माननिधिः, सिकलसेल-रक्ताल्पतायाः उन्मूलनम्, जलजीवनमिशन इत्यादीनां योजनानां उल्लेखं कुर्वन् अवदत् यत् सर्वकारः जनजातीयसमाजसहितानां सर्वेषां वर्गाणां कल्याणाय कार्यं कुर्वन् अस्ति। विशेषरूपेण पृष्ठवर्गाणां बैगा, सहरिया, भारिया इत्यादीनां जनजातीनां विकासाय अपि विशेषप्रयत्नाः क्रियन्ते।

सः अवदत् यत् जनजातीयक्षेत्रेषु आवासस्य आधारभूतसुविधानां च विस्तारार्थं धरतीआबा-जनजातीयग्रामोत्कर्ष-अभियानस्य अन्तर्गतं कार्याणि अपि क्रियन्ते। प्रदेशे विभिन्नाभिः उपजातिभिः सह ९३ प्रकाराणां जनजातयः निवसन्ति। सर्वकारस्य प्राथमिकता अस्ति यत् जनजातीयक्षेत्रेषु विकासस्य किमपि कार्यम् अपूर्णं न तिष्ठेत्। जनजातीयक्षेत्रेषु मुख्यमन्त्री-सुगमबससेवा अपि प्रारप्स्यते।

मुख्यमन्त्री उक्तवान् यत् सर्वकारः पशुपालनस्य प्रोत्साहनाय अपि प्रयत्नशीलः अस्ति। कृषकाः पशुपालकाश्च गोपालनाय महिषपालनाय च प्रोत्साह्यन्ते, येन दुग्धोत्पादनस्य वृद्धिः भवेत् तथा ग्रामीणपरिवाराणां आयवर्धनाय अति-रिक्तानि स्रोतांसि विकसितानि भवेयुः। एतदर्थं सर्वकारेण आवश्यकं सहयोगं प्रदीयते। सः अवदत् यत् भगवत: बिरसामुण्डाया: जयन्त्याः आयोजनम् अस्माकं सर्वेषां कृते गौरवस्य आनन्दस्य च अवसरः अस्ति। सः सर्वेभ्यः जनजातीयगौरवदिवसस्य शुभकामनाः दत्त्वा आयोजनार्थं जबलपुरजनपद-प्रशासनस्य, विभिन्नानां सामाजिक-सङ्घटनानां जनप्रतिनिधीनां च अभिनन्दनं कृतवान्।

मुख्यमन्त्री उक्तवान् यत् जनजातीय-गौरवदिवसस्य एतादृशानि आयोजनानि केवलं बृहन्नगरेषु एव सीमितानि न भवेयुः, अपितु जनपदस्य प्रत्येकस्मिन् लघु-बृहद्स्थाने अपि पूर्णोत्साहेन गौरवेण च आयोजनीयाः। येन भगवान् बिरसामुण्डसहितानां सर्वेषां महानां जनजातीयनायकानां योगदानं जन-सामान्यं यावत् प्राप्नुयात् तथा भाविवंशा: तेभ्यः प्रेरणां प्राप्नुयुः।

Hindusthan Samachar / Divya Ranjan