काङ्ग्रेसनेतारः राजीवभवने पण्डितनेहरुमहोदयं श्रद्धासुमनैः समर्चितवन्तः
नवदिल्ली, १४ नवम्बरमासः (हि.स.)। भारतस्य प्रथमप्रधानमन्त्रिणः पण्डित-जवाहरलालनेहरुमहोदयस्य १२६ तम्यां जन्मजयन्त्यां दिल्लीप्रदेशकाङ्ग्रेस-समितेः अध्यक्षः देवेन्द्रयादवः प्रदेश-कार्यालये राजीवभवने तस्य चित्रपटे पुष्पाञ्जलिम् अर्पयित्वा श्रद्धाञ्जलिम
राजीव भवन में  देश के प्रथम प्रधानमंत्री पंडित जवाहरलाल नेहरु की 126वीं जन्म जयंती पर दिल्ली प्रदेश कांग्रेस कमेटी के अध्यक्ष देवेंद्र यादव उनकी तस्वीर पर पुष्पाजंलि अर्पित  करते हुए


नवदिल्ली, १४ नवम्बरमासः (हि.स.)। भारतस्य प्रथमप्रधानमन्त्रिणः पण्डित-जवाहरलालनेहरुमहोदयस्य १२६ तम्यां जन्मजयन्त्यां दिल्लीप्रदेशकाङ्ग्रेस-समितेः अध्यक्षः देवेन्द्रयादवः प्रदेश-कार्यालये राजीवभवने तस्य चित्रपटे पुष्पाञ्जलिम् अर्पयित्वा श्रद्धाञ्जलिम् अर्पितवान्।

पुष्पाञ्जलिसमर्पणकार्यक्रमे देवेन्द्रयादवेन सह अखिलभारतीयकाङ्ग्रेससमितेः दिल्लीप्रभारी काजी निजामुद्दीनः, सचिव-प्रभारी दानिश अबरारः, प्रदेशमहासचिवाः धर्मपालचन्देलः, प्रमोदजयन्तः, जयप्रकाशः, दिल्लीप्रदेश-महिला-काङ्ग्रेसस्य अध्यक्षा पुष्पासिंहः, जनपदाध्यक्षौ राजेशयादवः महेन्द्र-मङ्गलश्च, पूर्वजनपदाध्यक्षः सतबीरशर्मा, अनुसूचितजातिविभागस्य अध्यक्षः सञ्जयनीरजः, नरेशशर्मा नीतू, पङ्कज-गुप्तः तथा योगेशजैनः प्रमुखरूपेण उपस्थिताः आसन्।

देवेन्द्रयादवः अवदत् यत् स्वातन्त्र्यप्राप्तेः अनन्तरं पण्डितनेहरुमहोदयेन यथा देशे लोकतान्त्रिकव्यवस्था स्थापिता तथा दूरदर्शितया सर्वेषां वर्गाणां विकासाय, कल्याणाय समानतायाश्च स्थापनायै कार्यं कृतम्। युवानां शिक्षायै रोजगाराय च तेन ये मार्गाः निर्मिताः, तेषाम् आधारेण एव भारतं विश्वे सुदृढं जातम्। अद्य तस्य उदाहरणं विश्वे दृश्यते, यत्र भारतीययुवानः स्वकीयया शैक्षणिकक्षमतया सर्वत्र स्वप्रतिभायाः परिचयं कारयन्ति। अद्य या सशक्तयुवशक्तिः देशस्य विश्वस्य च विकासस्य आधारशिला अभवत्, तस्याः आधारः पण्डितजवाहरलालनेहरुमहोदयेन भारतं गणराज्यराष्ट्रं विधाय स्थापितः आसीत्।

यादवः अवदत् यत् पण्डितनेहरुमहोदयस्य लोकतन्त्रे, धर्मनिरपेक्षतायां वैज्ञानिक-दृष्टिकोणे च आस्था भारते विशिष्टं परिचयम् अयच्छत्। संविधानस्य निर्माणानन्तरं प्रत्येकं नागरिकं मतदानस्य अधिकारं प्रदाय कोटिशः देशवासिनः स्वकीयस्य शासनस्य चयनस्य अधिकारिणः कृताः।

Hindusthan Samachar / Divya Ranjan