ओडिशाराज्यस्य निर्धनपरिवारेभ्यः पञ्चलक्षाणि पक्कगृहाणि प्रदास्यन्ते : शिवराजसिंहचौहानः
ओडिशायाः प्रत्येकायै पञ्चायताय विकासकार्यार्थं २५ तः ५० लक्षरूप्यकाणि प्रदास्यन्ते : शिवराजसिंहचौहानः भुवनेश्वरम्, १४ नवम्बरमासः (हि.स.)। केन्द्रीयकृषिमन्त्री किसानकल्याणमन्त्री च तथा ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः शनिवासरे अवदत् यत् ओडिशा
केंद्रीय कृषि एवं किसान कल्याण तथा ग्रामीण विकास मंत्री श्री शिवराज सिंह चौहान


- ओडिशायाः प्रत्येकायै पञ्चायताय विकासकार्यार्थं २५ तः ५० लक्षरूप्यकाणि प्रदास्यन्ते : शिवराजसिंहचौहानः

भुवनेश्वरम्, १४ नवम्बरमासः (हि.स.)। केन्द्रीयकृषिमन्त्री किसानकल्याणमन्त्री च तथा ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः शनिवासरे अवदत् यत् ओडिशायाः निर्धनपरिवारेभ्यः तत्कालं पञ्चलक्षाणि पक्कगृहाणि प्रदास्यन्ते तथा च प्रत्येकस्मै पात्रपरिवाराय पक्कगृहं प्राप्स्यते। अस्मिन्नवसरे तेन बलाङ्गीरनगरे नूतनस्य कृषिमहाविद्यालयस्य शिलान्यासमपि कृतम्।

केन्द्रीयग्रामीणविकासमन्त्री चौहानः अद्य ओडिशायाः बलाङ्गीरनगरे आयोजिते प्रधानमन्त्रिआवासयोजनायाः ग्रामीणकार्यक्रमस्य राज्यस्तरीये आयोजने सम्बोधनं कुर्वन् आसीत्। अस्मिन्नवसरे मुख्यमन्त्री मोहनचरणमाझी इत्यस्य उपस्थितौ केन्द्रीयमन्त्रिणा प्रदेशस्य निर्धनानां, कृषकाणां महिलानां च कृते अनेकेषां योजनानां लाभाः प्रदत्ताः।

कार्यक्रमे उपमुख्यमन्त्री कृषिमन्त्री च श्रीकनकवर्धनसिंहदेवः, पञ्चायतीराजमन्त्री पेयजलमन्त्री च रविनारायणनायकः, स्वास्थ्यपरिवारकल्याणमन्त्री डॉ. मुकेशमहालिङ्गः, सांसद् सङ्गीताकुमारीसिंहदेवः तथा क्षेत्रीयविधायकाः नवीनकुमारजैनः, लक्ष्मणबागः, रूपामिश्रा च प्रमुखरूपेण उपस्थिताः आसन्।

केन्द्रीयमन्त्री चौहानः आश्वासनं दत्तवान् यत् आवासयोजनायाः कृते अधुना सम्यक् सर्वेक्षणं सम्पन्नम् अस्ति तथा च कोऽपि निर्धनः कच्चे गृहे न निवत्स्यति। सर्वेभ्यः चरणबद्धरूपेण पक्कगृहाणि प्रदास्यन्ते। गृहच्छदेषु सौरपटलस्थापनार्थं केन्द्रराज्यसर्वकाराभ्यां संयुक्तरूपेण अनुदानं प्रदास्यते। अनेन विद्युत्शुल्कं शून्यं भविष्यति तथा च अतिरिक्तविद्युत् विक्रीय जनाः आयमपि अर्जयितुं शक्ष्यन्ति।

मातृशक्तिं नत्वा केन्द्रीयमन्त्री अवदत् यत् सुभद्रायोजनायाः अन्तर्गतं प्रतिवर्षं दशसहस्ररूप्यकाणां प्राप्त्या ओडिशायाः भगिनीनाम् आत्मविश्वासः सम्मानश्च वर्धितः। मुख्यमन्त्री मोहनमाझीमहोदयस्य नेतृत्वे ओडिशाराज्येन निर्धारितसमयात् एकवर्षपूर्वमेव सप्तविंशतिलक्षस्य लक्ष्यं अतिक्रम्य नवविंशतिलक्षं भगिन्यः ‘लखपतिदीदी’ इति श्रेण्यां समाविष्टाः इति तेन प्रसन्नता व्यक्ता। सः अवदत् यत् आगामीषु पञ्चवर्षेषु देशस्य सर्वासां भगिनीनां आर्थिकसशक्तीकरणाय बैंकेभ्यः दश लक्षकोटिरूप्यकाणां ऋणं प्रदास्यते। केवलं स्वयं सहायता समूहेभ्यः एव न, अपितु या भगिनी स्वतन्त्ररूपेण स्वव्यवसायं व्यापारं वा प्रारब्धुम् इच्छति, तस्यै अपि सरलतया ऋणं प्रदास्यते।

कृषकसेवां भगवतः पूजां मन्यमानः केन्द्रीयमन्त्री चौहानः प्रतिज्ञातवान् यत् बलाङ्गीरनगरे शिलान्यासितः कृषिमहाविद्यालयः भारतीयकृषिअनुसन्धानपरिषदः (आईसीएआर) भारतसर्वकारस्य च सहकारेण सम्पूर्णे भारते सर्वश्रेष्ठः कृषिमहाविद्यालयः निर्मीयते। अत्र देशस्य प्रमुखाः वैज्ञानिकाः कृषकाणां सहायतां करिष्यन्ति। ओडिशायाः कृषिकार्यं आधुनिकं कर्तुं राज्यसर्वकारेण सह मिलित्वा सुदृढः कार्ययोजनापत्रः निर्मीयते इति तेन उक्तम्। अस्याः योजनायाः अन्तर्गतं कृषकाणां क्षेत्रेषु उपरि सौरपटलानि स्थापयिष्यन्ते तथा च अधः फलानां शाकानां च कृषिः भविष्यति। अनेन कृषकाणां द्विगुणः लाभः भविष्यति। अपि च प्रधानमन्त्रिकृषकसम्माननिधियोजनायाः लाभात् वञ्चितानां पात्रकृषकाणां नामानि अपि अधुना सूच्यां समाविष्टानि सन्ति।

ग्रामीणविकासस्य योजनां प्रस्तुत्य तेन सूचितं यत् ‘विकसितभारत-जी राम जी’ योजनायाः अन्तर्गतं अस्मिन् वर्षे ओडिशाराज्याय प्रायः चतुर्सहस्रकोटिरूप्यकाणि प्राप्स्यन्ति। अनेन प्रदेशस्य प्रत्येकायै पञ्चायताय प्रतिवर्षं पञ्चविंशतितः पञ्चाशल्लक्षरूप्यकाणि तथा च पञ्चवर्षेषु लघुपञ्चायताय एककोटिरूप्यकाणि बृहतीपञ्चायताय द्विकोटिरूप्यकाणि यावत् विकासकार्यार्थं प्रदास्यन्ते। एतेन ग्रामेषु मार्गाः, नालिकाः, विद्यालयाः, पञ्चायतभवनानि, कृषकाणां क्षेत्राणि यावत् मार्गाः तथा जलसंरक्षणार्थं सरोवराणि निर्मातुं शक्यन्ते। प्रधानमन्त्रिग्रामसडकयोजनायाः चतुर्थचरणे सप्तदशशतं किलोमीटरमितानां मार्गाणां स्वीकृतेः अनन्तरम् अधुना अवशिष्टानि सर्वाणि ग्रामाणि अपि पक्कमार्गैः संयोजयिष्यन्ते।

चौहानः अवदत् यत् ओडिशाराज्ये विकासस्य महायज्ञः प्रचलति।

तेन बलाङ्गीरस्य लोकसंस्कृतेः, नुआखाईपर्वणः तथा ढालखाई-रसरकेलीनृत्ययोः प्रशंसा कृता। उपस्थितजनसमूहं विकसितओडिशानिर्माणस्य सङ्कल्पं च कारितवान्। स्वकीयया परिचितया आत्मीयशैल्या सः अवदत् यत् सः अत्र विशिष्टः अतिथिः अभ्यागतः वा भूत्वा न आगतः, अपितु कृषिग्रामीणविकासमन्त्रिरूपेण जनानां विनम्रसेवकः भूत्वा आगतः।

सः अवदत् यत् भगवान् जगन्नाथस्य दर्शनं तेन जीवन्त्यां जागरूकायां जनतायां भवति तथा च प्रदेशस्य भगिनिषु सुभद्रामातुः दर्शनं भवति। मुख्यमन्त्री मोहनचरणमाझीमहोदयस्य प्रशंसां कुर्वन् सः अवदत् यत् मुख्यमन्त्री अत्यन्तं सरलः, सहजः, अहर्निशं कार्यं कुर्वन् जनसेवकः अस्ति। सः प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘विकसितभारत’ इति सङ्कल्पं साकारयितुं ‘विकसितओडिशा’ इति निर्माणं कुर्वन् अस्ति।

Hindusthan Samachar / Dheeraj Maithani