Enter your Email Address to subscribe to our newsletters

हैदराबादः, १४ नवम्बरमासः (हि.स.)। तेलङ्गानाभारतीयजनतापक्षस्य अध्यक्षः एन. रामचन्द्ररावः शनिवासरे उक्तवान् यत् तं तथा पक्षस्य अन्यनेतॄन् गृहबन्धने स्थापितम् अस्ति। सः काङ्ग्रेसदलेन हैदराबादे आयोजितं ‘भारतसमिट्’ इति सम्मेलनम् ‘भारतविरोधिसम्मेलनम्’ इति अभिहितवान्।
एन. रामचन्द्ररावः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र आरोपं कुर्वन् अवदत् यत् काङ्ग्रेसदलं ‘भारतविरोधिसम्मेलने’ विश्वाय लोकतन्त्रस्य उपदेशं ददाति, परन्तु कतिपयकिलोमीटर् दूरे एव मां तथा भाजपायाः अनेकान् कार्यकर्तॄन् बन्धनं कृत्वा अथवा गृहबन्धने स्थापयित्वा लोकतन्त्रस्य कण्ठरोधं करोति।
सः अवदत् यत् काङ्ग्रेससर्वकारः स्वप्रतिज्ञानां पूर्तये अथवा कल्याणकारी-योजनानां कार्यान्वयनाय धनाभावस्य कथनं करोति, परन्तु अधुना सः करदातॄणां परिश्रमेण अर्जितानां धनानां कोटिशः रूप्यकाणि तस्मिन् सम्मेलने व्यययति, यत् वस्तुतः राहुलगान्धिनः पुनः प्रचाराय कृतः अन्यः प्रयासः एव अस्ति। यदा काङ्ग्रेसदलं अस्माकं मातृभूमौ एतादृशानि कार्याणि करोति, तदा वयं मौनं न स्थास्यामः। वयं विरोधं अवश्यं करिष्यामः।
भाजपायाः प्रदेशाध्यक्षः ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे अवदत् यत् काङ्ग्रेस-सर्वकारेण तम् अद्यावधि असंख्यानुसारं गृहबन्धने स्थापितम्। सः अवदत्—मम एकः एव सन्देशः अस्ति—मा भैषी।
एतदतिरिक्तं सः अन्यस्मिन् सन्देशे अवदत् यत् अवैधरूपेण गृहबन्दने स्थापयित्वा भाजपापक्षं निवारयितुं न शक्यते। राहुलगान्धिनः तेलङ्गानायात्राम् उद्दिश्य प्रश्नान् उत्थापयन् सः अवदत् यत् तस्य राज्ये प्रवेशस्य नैतिकः अधिकारः नास्ति। तेन आरोपितं यत् हैदराबादे यत् प्रचलति, तत् ‘भारतविरोधिसम्मेलनम्’ अस्ति, येन देशस्य प्रतिष्ठायाः हानिः भवति।
रामचन्द्ररावः काङ्ग्रेसदलं निर्वाचनकाले कृतानां प्रतिज्ञानां पूर्तिं न कृतवदिति अपि आरोपितवान्। सः अवदत् यत् काङ्ग्रेस-सर्वकारः षट् गारण्टीयोजनानां, रोजगार-कार्यक्रमस्य समयसारिण्याः तथा रैतुबन्धुयोजनायाः कार्यान्वयने असफलः अभवत्। तेन आरोपितं यत् प्रगतिशील-गठबन्धनम् विदेशीयशक्तिभिः सह मिलित्वा भारते सत्तापरिवर्तनस्य षड्यन्त्रं रचयति।
Hindusthan Samachar / Divya Ranjan