अजितपवारस्य निधनानन्तरं राष्ट्रवादीकाङ्ग्रेसपक्षयोः विलयसम्बद्धा वार्ता समाप्ता - सुप्रियासुले
तटकरेणापि विलयसम्भावनाः निराकृताः, राजगगठबन्धने एव स्थातुं पुनरुक्तम् मुम्बई, १४ नवम्बरमासः (हि.स.)। राष्ट्रवादीकाङ्ग्रेसपक्षस्य नेत्री तथा बारामत्याः सांसद: सुप्रियासुले शनिवासरे अवदत् यत् राष्ट्रवादीकाङ्ग्रेसपक्षस्य उभयोः पक्षयोः मध्ये विलयसम्बद
सुप्रिया सुले - फोटो सोर्स एक्स


तटकरेणापि विलयसम्भावनाः निराकृताः, राजगगठबन्धने एव स्थातुं पुनरुक्तम्

मुम्बई, १४ नवम्बरमासः (हि.स.)। राष्ट्रवादीकाङ्ग्रेसपक्षस्य नेत्री तथा बारामत्याः सांसद: सुप्रियासुले शनिवासरे अवदत् यत् राष्ट्रवादीकाङ्ग्रेसपक्षस्य उभयोः पक्षयोः मध्ये विलयसम्बद्धा वार्ता तस्याः चचेरेभ्रातुः अजितपवारस्य २८ जनवरी २०२६ दिनाङ्के निधनानन्तरं समाप्ता अभवत्। अस्मिन् विषये अपरगुटतः तस्याः समीपं किमपि सन्देशम् अपि न प्राप्तम् इति सा अवदत्।

सांसद सुप्रियासुले भारतीयजनतापक्षस्य नेतृत्वयुक्ते राष्ट्रियजनतान्त्रिकगठबन्धने स्वपक्षस्य सम्मिलनसम्बद्धाः सम्भावनाः अपि निराकृतवती। तस्याः एतत् वक्तव्यं शरदपवारस्य नेतृत्वयुक्तस्य राष्ट्रवादी-काङ्ग्रेसपक्षस्य तथा महाराष्ट्रस्य उपमुख्यमन्त्रिण्याः सुनेत्रापवार: इत्यस्या: नेतृत्वयुक्तस्य राष्ट्रवादीकाङ्ग्रेसपक्षस्य च पुनरेकत्रीकरणसम्बद्धासु चर्चासु अभवत्।

सा पत्रकारैः सह वार्तालापे अवदत्, “यदा मम भ्राता (तत्कालीनः राष्ट्रवादी-काङ्ग्रेसपक्षस्य अध्यक्षः अजितपवारः) जीवितः आसीत्, तदा विलयसम्बद्धा वार्ता प्रचलति स्म। अस्य कृते एकः दिनाङ्कः अपि निश्चितः आसीत्। किन्तु तस्य निधनदिने एव मम कृते तथा अस्माकं दलस्य अन्तः विलयस्य विषयः पूर्णतया समाप्तः अभवत्।”

सांसद सुप्रियासुले अवदत्, “राजग-गठबन्धने सम्मिलनविषये कापि चर्चा न अभवत्। यदा अस्य विषये चर्चायाः आरम्भः एव न अभवत्, तर्हि तस्य समाप्तेः प्रश्नः एव कुत्र उद्भवति?” सा अवदत् यत् अजितपवारस्य निधनानन्तरं तस्याः दलेन विलयसम्बद्धे विषये न किमपि वक्तव्यं दत्तम्, न च अपरपक्षस्य वक्तव्येषु किमपि प्रत्युत्तरं प्रदत्तम्।

अपरतः महाराष्ट्रराष्ट्रवादीकाङ्ग्रेसपक्षस्य अध्यक्षः सुनीलतटकरे अपि विलयस्य कस्याश्चित् सम्भावनायाः निषेधं कुर्वन् अवदत् यत् तस्य पक्षे अस्मिन् विषये कस्मिन्नपि स्तरे कापि चर्चा न प्रचलति। प्रफुल्लपटेलेन शरदपवारेण सह कृता अद्यतनीय: साक्षात्कार: राजनैतिक-साक्षात्कार: इति मन्यमानं सः निराकृतवान्। तस्य कथनमासीत् यत् पटेलः केवलं शरदपवारस्य स्वास्थ्यस्य कुशलक्षेमं ज्ञातुं गतवान् आसीत्।

तटकरे भारतीयजनतापक्षस्य नेतृत्वयुक्तेन राष्ट्रियजनतान्त्रिकगठबन्धनेन सह स्थातुं राष्ट्रवादीकाङ्ग्रेसपक्षस्य प्रतिबद्धतां पुनः दृढीकृतवान्। सः अवदत् यत् सुनेत्रा-पवारस्य नेतृत्वे तस्य पक्षः गठबन्धनेन सह एव स्थास्यति। सः सञ्जयराउतेन २० तः २२ पर्यन्तानां विधायकानां पक्षपरिवर्तन-सम्बद्धं कथनम् अपि निराधारम् अवदत्।

हिन्दुस्थानसमाचारः/आञ्चलतिवारी

Hindusthan Samachar / Divya Ranjan