Enter your Email Address to subscribe to our newsletters

अन्तिमे षट्के ३३८ धावनाङ्कानां लक्ष्यं प्राप्तम्, मोहित उल्वा २६ कन्दुकैः अविजितं ४९ धावनाङ्कान् कृत्वा रोमाञ्चकारिणीं विजयप्राप्तिं कारितवान्।
अल अमेरातम् (ओमानम्), १४ नवम्बर (हि.स.)। भारतीयस्य अण्डर्-१९ क्रिकेटदलस्य क्रीडकाः शनिवासरे रोमाञ्चस्य सर्वाः सीमाः उल्लङ्घ्य चिरप्रतिद्वन्द्विनं पाकिस्तानदलं एकेन विकेटेन पराजित्य २०२६ तमस्य एसीसी पुरुषाणाम् अण्डर्-१९ एशियाकप्-क्रीडास्पर्धायाः विजेतृपदं प्राप्तवन्तः। अल अमेरात् क्रिकेट्-क्रीडाङ्गणे आयोजिते अन्तिमस्पर्धायां भारतदलेन ३३८ धावनाङ्कानां विशालं लक्ष्यं अन्तिमे षट्के प्राप्तम्। भारतीयदलेन नव विकेट्-क्षतौ ३३९ धावनाङ्काः निर्माय स्पर्धा स्वायत्तीकृता।
भारतस्य अस्मिन् स्मरणीयविजये मोहित उल्वा तथा मनल चौहान इत्येतयोः महत्त्वपूर्णं योगदानम् आसीत्। उल्वा दबावपूर्णे समये २६ कन्दुकैः पञ्च चतुष्काणां त्रयाणां षट्काणां च साहाय्येन अविजितं ४९ धावनाङ्कान् कृत्वा दलं लक्ष्यपर्यन्तं प्रापितवान्। तेन सह चिगुरुपति वेंकटः अष्टाभिः कन्दुकैः अविजितान् ११ धावनाङ्कान् कृत्वा महत्त्वपूर्णं योगदानम् अकरोत्।
मुद्रां विजित्य प्रथमं कन्दुकप्रहारं कर्तुं प्रवृत्तं पाकिस्तानदलं निर्धारितेषु पञ्चाशत् षट्केषु नव विकेट्-क्षतौ ३३७ धावनाङ्कान् अर्जितवत्। उस्मान खानः उत्कृष्टं कन्दुकप्रहारं कुर्वन् १११ कन्दुकैः १०७ धावनाङ्कानां शतकीयां पारीं क्रीडितवान्। तेन स्वकीयायां पारीयां एकादश चतुष्काणि त्रीणि षट्काणि च प्रहृतानि। अब्दुल कादिरः ५४ कन्दुकैः ८० धावनाङ्कान् कृत्वा तीव्रगतिना धावनाङ्कान् अर्जितवान्। तस्य पारीयाम् अष्टौ षट्काणि त्रीणि चतुष्काणि च अन्तर्भूतानि आसन्।
पाकिस्तानस्य नायकः फरहान यूसुफः अपि ६० कन्दुकैः ६३ धावनाङ्कानां योगदानम् अकरोत्, अहमद हुसैनः १७ धावनाङ्कान् अर्जितवान्। भारतस्य पक्षतः काव्या पटेलः सर्वाधिकसफलः कन्दुकक्षेपकः आसीत्। सः ६८ धावनाङ्कान् दत्त्वा चत्वारि विकेट् प्राप्तवान्। चिगुरुपति वेंकटः त्रीणि विकेट् प्राप्तवान्।
३३८ धावनाङ्कानां लक्ष्यं प्राप्तुं कन्दुकप्रहारं कर्तुं प्रवृत्तं भारतीयदलं नायकः लक्ष्य राजेश रायचन्दानी संयतारम्भं प्रदत्तवान्। सः १०१ कन्दुकैः ८० धावनाङ्कान् अर्जितवान्। आर्यवीर सहवागः ६१ कन्दुकैः ५८ धावनाङ्कानां योगदानम् अकरोत्। मनल चौहानः ३२ कन्दुकैः आक्रामकान् ४७ धावनाङ्कान् कृत्वा भारतस्य विजयाशाः जीविताः अरक्षत्।
तथापि नियमितान्तराले विकेट्-पतनात् भारतीयदलं दबावम् आपन्नम्। एतादृशे कठिनसमये मोहित उल्वा तीव्रगत्या कन्दुकप्रहारं कृत्वा स्पर्धायाः दिशं परिवर्तितवान्। सः अविजितां ४९ धावनाङ्कानां पारीं क्रीडित्वा भारतदलं विजयस्य समीपं प्रापितवान्। चिगुरुपति वेंकटः अपि अन्तिमपर्यन्तं तस्य साथं दत्तवान् तथा च भारतदलेन अन्तिमे षट्के लक्ष्यं प्राप्तम्।
पाकिस्तानस्य पक्षतः रिजवानुल्लाहः त्रीणि विकेट् प्राप्तवान्, निकाब शफीकः द्वे विकेट् प्राप्तवान्।
अनेन विजयेन भारतीययुवक्रीडकाः अत्यधिकदबावपूर्णायाम् अन्तिमस्पर्धायां संयमस्य सङ्घर्षस्य च उत्कृष्टं प्रदर्शनं कृत्वा महाद्वीपीयं विजेतृपदं स्वायत्तीकृतवन्तः।
Hindusthan Samachar / Dheeraj Maithani